சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

.. ஶ்ரீக³ணபதிஸ்தவ꞉ பாட²பே⁴த³꞉ ..

॥ श्रीगणपतिस्तवः पाठभेदः ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 1
23px
॥ गणपतिस्तवः ॥ पाठभेद श्री गणेशाय नमः ॥ ब्रह्मविष्णुमहेश्वरा ऊचुः। अजं निर्विकल्पं निराकारमेकं निरालम्बमद्वैतमानन्दपूर्णम् । परं निर्गुणं निर्विशेषं निरीहं परं ब्रह्मरूपं गणेशं भजेम ॥ १॥ गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् । मुनिध्येयमाकाशरूपं परेशं परं ब्रह्मरूपं गणेशं भजेम ॥ २॥ जगत्कारणं कारणाज्ञानहीनं सुरादिं सुखादिं युगादिं गणेशम् । जगद्व्यापिनं विश्ववन्द्यं सुरेशं परं ब्रह्मरूपं गणेशं भजेम ॥ ३॥ रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् । जगत्कारकं सर्वविद्यानिधानं सदा ब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥ सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् । अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नताः स्मः ॥ ५॥ तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् । अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नताः स्मः ॥ ६॥ तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् । मुनिज्ञानकारं विदूरे विकारं सदा ब्रध्नरूपं गणेशं नताः स्मः॥ ७॥ निजैरौषधैस्तर्पयन्तं करोघैः सुरौघान्कलाभिः सुधास्राविणीभिः । दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नताः स्मः ॥ ८॥ प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् । अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नताः स्मः ॥ ९॥ प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् । असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नताः स्मः ॥ १०॥ त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनो विघ्नसङ्घान्न पीडां लभेत । लसत्सूर्यबिम्बे विशाले स्थितेऽयं जनो ध्वान्तबाधां कथं वा लभेत ॥ ११॥ वयं भ्रामिताः सर्वथाऽज्ञानयोगादलब्ध्वा तवाङ्घ्रिं बहून्वर्षपूगान् । इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२॥ एवं स्तुतो गणेशस्तु सन्तुष्ठोऽभून्महामुने । कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १३॥ इति श्रीमद्गर्ग ऋषिकृतो गणपतिस्तवः
ஜப எண்ணிக்கை: 0/108