श्रीचण्डिका नवाक्षरी त्रिशतीनामावलिः
ॐ ऐङ्कारपीठमध्यस्थायै नमः ॐ ऐङ्कारासनसुस्थितायै नमः ॐ ऐङ्कारजपसन्तुष्टायै नमः ॐ ऐङ्कारजपसौख्यदायै नमः ॐ ऐङ्कारमोहनपरायै नमः ॐ ऐङ्काराभरणोज्ज्वलायै नमः ॐ ऐङ्काररूपायै नमः ॐ ऐङ्कार्यै नमः ॐ ऐङ्कारवरवर्णिन्यै नमः ॐ ऐङ्कारकल्पवृक्षस्थायै नमः ओं ऐङ्काराम्बुजलोचनायै नमः ॐ ऐङ्कारवाच्यायै नमः ॐ ऐङ्कारपूज्यायै नमः ॐ ऐङ्कारपङ्कजायै नमः ॐ ऐङ्कारकाननावासायै नमः ॐ ऐङ्कारगिरिरूपिण्यै नमः ॐ ऐङ्कारकन्दरासिंह्यै नमः ॐ ऐङ्काराक्षरशोभितायै नमः ॐ ऐङ्काराब्जसमासीनायै नमः ॐ ऐङ्कारमुख्यमण्डलायै नमः ॐ ऐङ्कारारण्यहरिण्यै नमः ॐ ऐङ्कारामृतवर्षिण्यै नमः ॐ ऐङ्कारकमलावासायै नमः ॐ ऐङ्कारोद्यानवासिन्यै नमः ॐ ऐङ्कारवन्दितपदायै नमः ॐ ऐङ्कारवरदायिन्यै नमः ॐ ऐङ्कारामृतसन्धात्र्यै नमः ॐ ऐङ्कारामृतपायिन्यै नमः ॐ ऐङ्कारारण्यसञ्चारायै नमः ॐ ऐङ्काराश्रयविराजितायै नमः ॐ ऐङ्कारमन्त्रसञ्जप्यायै नमः ॐ ऐङ्कारजपसिद्धिदायै नमः ॐ ऐङ्कारनन्दनोद्यानकुसुमोज्ज्वलमूर्धजायै नमः ॐ ह्रीङ्कारमन्त्रसमवासायै नमः ॐ ह्रीङ्कारकुसुमशोभितायै नमः ॐ ह्रीङ्काररूपायै नमः ॐ ह्रीङ्कार्यै नमः ॐ ह्रीङ्काराम्बुजमध्यगायै नमः ॐ ह्रीङ्कारपूजनप्रीतायै नमः ॐ ह्रीङ्काराक्षररूपिण्यै नमः ॐ ह्रीङ्काराक्षरसञ्जप्यायै नमः ॐ ह्रीङ्कारारण्यवल्लर्यै नमः ॐ ह्रीङ्कारमणिभूषाढ्यायै नमः ॐ ह्रीङ्कारारामशोभितायै नमः ॐ ह्रीङ्कारजपसुप्रीतायै नमः ॐ ह्रीङ्कारकमलोज्ज्वलायै नमः ॐ ह्रीङ्कारशिखिसंरूढायै नमः ॐ ह्रीङ्कारानन्ददायिन्यै नमः ॐ ह्रीङ्कारगिरिसम्भूतायै नमः ॐ ह्रीङ्कारगिरिवासिन्यै नमः ॐ ह्रीङ्कारोद्यानपीठस्थायै नमः ॐ ह्रीङ्कारवरदायिन्यै नमः ॐ ह्रीङ्काररञ्जनपरायै नमः ॐ ह्रीङ्कारादर्शबिम्बितायै नमः ॐ ह्रीङ्काररोद्यानसंशोभायै नमः ॐ ह्रीङ्कारारण्यवासिन्यै नमः ॐ ह्रीङ्कारविलसद्रूपायै नमः ॐ ह्रीङ्कारादित्यभास्वरायै नमः ॐ ह्रीङ्कारेन्दुकलाधर्यै नमः ॐ ह्रीङ्कारशशिमण्डलायै नमः ॐ ह्रीङ्कारनादरसिकायै नमः ॐ ह्रीङ्कारास्वादभृङ्गिकायै नमः ॐ ह्रीङ्कारवापिकाहंस्यै नमः ॐ ह्रीङ्कारालापकोकिलायै नमः ॐ ह्रीङ्कारोज्ज्वलसर्वाङ्ग्यै नमः ॐ ह्रीङ्कारमधुमत्तायै नमः ॐ क्लीङ्कारपद्मनिलयायै नमः ॐ क्लीङ्कारहृदयस्थितायै नमः ॐ क्लीङ्कारबिम्बसंशोभायै नमः ॐ क्लीङ्काराह्लादचन्द्रिकायै नमः ॐ क्लीङ्कारानन्दसन्धात्र्यै नमः ॐ क्लीङ्कारमणिमण्डपायै नमः ॐ क्लीङ्कारपीठमध्यस्थायै नमः ॐ क्लीङ्कारपारसौख्यदायै नमः ॐ क्लीङ्कारसौधमध्यस्थायै नमः ॐ क्लीङ्कारतिलकोज्ज्वलायै नमः ॐ क्लीङ्कारामोदहृदयायै नमः ॐ क्लीङ्कारविजयप्रदायै नमः ॐ क्लीङ्कारबीजसर्वस्वायै नमः ॐ क्लींस्थितायै नमः ॐ क्लीन्निवासिन्यै नमः ॐ क्लीङ्कारसाधकपरायै नमः ॐ क्लीङ्कारकलुषापहायै नमः ॐ क्लीङ्कारपुष्टिसन्धात्र्यै नमः ॐ क्लीङ्कारकमलासनायै नमः ॐ क्लीङ्कारपद्मसंवासायै नमः ॐ क्लीङ्कारमधुपायिन्यै नमः ॐ क्लीङ्कारचापहस्ताढ्यायै नमः ॐ क्लीङ्कारेषुसुबाहुकायै नमः ॐ क्लीङ्कारकुसुममध्यस्थायै नमः ॐ क्लीङ्कारकुसुमशोभितायै नमः ॐ क्लीङ्कारमधुरालापायै नमः ॐ क्लीङ्काराङ्कुशशोभितायै नमः ॐ क्लीङ्कारपद्महस्ताढ्यायै नमः ॐ क्लीङ्कारमधुवापिकायै नमः ॐ क्लीङ्कारहतदैत्यौघायै नमः ॐ क्लीङ्कारोत्पलमालिकायै नमः ॐ क्लीङ्कारानलसन्दग्धदुष्टदैत्यसमूहिकायै नमः ॐ क्लीङ्कारनन्दनोद्यानमणिमण्डपशोभितायै नमः ॐ चापबाणलसद्धस्तायै नमः ॐ चारुचन्द्रकलाधरायै नमः ॐ चाम्पेयकुसुमप्रीतायै नमः ॐ चारुनूपुरशोभितायै नमः ॐ चारुरूपायै नमः ॐ चारुहासायै नमः ॐ चराचरनिवासिन्यै नमः ॐ चातुर्वर्ण्यसमाराध्यायै नमः ॐ चारुशुभ्रसुशोभितायै नमः ॐ चारुकुसुमाकारनासादण्डविराजितायै नमः ॐ चामरद्वयसंवीज्यलक्ष्मीवाणीसुशोभितायै नमः ॐ चारुदन्तायै नमः ॐ चारुजिह्वायै नमः ॐ चारुकुण्डलशोभितायै नमः ॐ चारुदेहायै नमः ॐ चारुकण्ठायै नमः ॐ चारुहस्तायै नमः ॐ चतुर्भुजायै नमः ॐ चारुपादायै नमः ॐ चारुजङ्घायै नमः ॐ चारुवक्षोजयुग्मायै नमः ॥॥वक्षोरुयुग्मायै इस् अल्सो चोर्रेच्त् छन् बे शोव्न् अस् वर् ॐ चारुवक्षायै नमः ॐ चारुनासायै नमः ॐ चारुजघनोज्ज्वलायै नमः ॐ चारुपृष्ठायै नमः ॐ चारुकट्यै नमः ॐ चारुपार्श्वद्वयोज्ज्वलायै नमः ॐ चारुनेत्रायै नमः ॐ चारुकर्णायै नमः ॐ चारुनेत्रललाटिकायै नमः ॐ चारुकेश्यै नमः ॐ चारुमूर्त्यै नमः ॐ चारुसर्वाङ्घसुन्दर्यै नमः ॐ मुण्डसेनामहासङ्घनादविमोहितायै नमः ॐ मुण्डसेनामहावेगगर्जनस्तम्भकारिण्यै नमः ॐ मुण्डसेनापतीसङ्घज्याशब्दपरिमोहितायै नमः ॐ मुण्डसेनापतीव्रातविनाशनसमुत्सुकायै नमः ॐ मुण्डासुरचमूसङ्घघण्टाजयघोषमूर्छितायै नमः ॐ मुण्डासुरचमूघोषस्वशब्दविनिवारिण्यै नमः ॐ मुण्डजल्पवशोत्साहदैत्यसैन्यसमुत्सुकायै नमः ॐ मुण्डासुरवधोद्युक्तखड्गहस्तसुशोभितायै नमः ॐ मुण्डासुरमहायुद्धसंस्तम्भितमहासुरायै नमः ॐ मुण्डदूषितशक्त्यौघदैत्यसङ्घविदारितायै नमः ॐ मुण्डकोपप्रज्वलितभीतदेवसमुत्सुकायै नमः ॐ मुण्डासुरमहायुद्धदेववाद्यसुघोषितायै नमः ॐ मुण्डासुरवधोत्साहदेवदुन्दुभिघोषितायै नमः ॐ मुण्डासुरमहायुद्धपटहानद्धदैत्यगायै नमः ॐ मुण्डासुरशिरोगृह्यखड्गपातनिकृन्तन्यै नमः ॐ मुण्डासुरशिरोगृह्यहस्तकन्दुकक्रीडनोत्सुकायै नमः ॐ मुण्डासुरशिरोहस्तसन्तुष्टसुरसैनिकायै नमः ॐ मुण्डासुरहतप्राप्तदैत्यसङ्घप्ररोचिन्यै नमः ॐ मुण्डासुरशिरोहस्तविभ्रामितदिगम्बरायै नमः ॐ मुण्डासुरशिरोहस्तदैत्यसङ्घविभीषितायै नमः ॐ मुण्डासुरशिरस्रावरक्तवस्त्रसमुज्ज्वलायै नमः ॐ मुण्ड मुण्ड सुसन्दृष्ट दैत्यसैन्यपलायितायै नमः ॐ मुण्डमालालसत्कण्ठलम्बजिह्वासुनर्तन्यै नमः ॐ मुण्डवस्त्रपरीधानसुशोभितशरीरिण्यै नमः ॐ मुण्डदैत्यवधोत्साहमुनिसङ्घसमुत्सुकायै नमः ॐ मुण्डदैत्यवधोत्साहदेवसंस्तुतवैभवायै नमः ॐ मुण्डदैत्यशिरछेत्र्यै नमः ॐ मुण्डिन्यै नमः ॐ मुण्डरूपिण्यै नमः ॐ मुण्ड्यै नमः ॐ मुण्डमथन्यै नमः ॐ मुण्डोज्ज्वलसुशोभितायै नमः ॐ मुण्डासुरवधोत्पन्नदेवऋषिगणतोषितायै नमः ॐ डमरोत्कटसन्नद्धायै नमः ॐ डाकिनीगणसेवितायै नमः ॐ डमर्वङ्कुशहस्ताढ्यायै नमः ॐ डाकिनीगणपूजितायै नमः ॐ डम्बरयुक्तजनोत्साहायै नमः ॐ डम्बरयुक्तविगर्हितायै नमः ॐ डाडिमीकुसुमसङ्काशायै नमः ॐ डाडिमीफलसुप्रियायै नमः ॐ डकारशोभितमनवे नमः ॐ डम्बिकायै नमः ॐ डामरोत्सुकायै नमः ॐ डामर्यै नमः ॐ डम्बरहितायै नमः ॐ डम्बाडम्बसमुत्सुकायै नमः ॐ डमरुवाद्यसुसंप्रीत्यै नमः ॐ डमरुहस्तसखीजनायै नमः ॐ डमरोत्कटसन्नादायै नमः ॐ डमरुध्वनिसङ्कुलायै नमः ॐ डमरुध्वनिसंस्तम्भितदैत्यसङ्घविराजितायै नमः ॐ डकारविलसन्मन्त्रायै नमः ॐ डकारपरमार्थदायै नमः ॐ डकारमन्त्रसर्वस्वायै नमः ॐ डकारहतकिल्बिषायै नमः ॐ डकारहतदैत्यौघायै नमः ॐ डकारगिरिसुप्रियायै नमः ॐ डकाराक्षरसुप्रीतायै नमः ॐ डकारामोददायिन्यै नमः ॐ डम्बासुरसुसंहन्त्र्यै नमः ॐ डम्बाडम्बविवर्जितायै नमः ॐ डकारहतपापौघायै नमः ॐ डकारपरसौख्यदायै नमः ॐ डकारपूजनप्रीतायै नमः ॐ डकारोज्ज्वलमध्यगायै नमः ॐ यैङ्काराक्षरसम्पूज्यायै नमः ॐ यैङ्काराक्षरशोभितायै नमः ॐ यैङ्कारक्षरशोभितमनसे नमः ॐ यैङ्कारतरुवासिन्यै नमः ॐ यैङ्कारगिरिसम्भवायै नमः ॐ यैङ्कारगुहसंस्थितायै नमः ॐ यैङ्कारसिंहसंवाहायै नमः ॐ यैङ्काराक्षरसुस्थिरायै नमः ॐ यैङ्काराक्षरसुप्रीतायै नमः ॐ यैङ्कारमनुमध्यगायै नमः ॐ यैङ्कारमनुमध्यस्थायै नमः ॐ यैङ्काराक्षरसुप्रियायै नमः ॐ यैङ्कारविलसन्मन्त्रायै नमः ॐ यैङ्काराक्षरभासुरायै नमः ॐ यैङ्कारगजसंरूढायै नमः ॐ यैङ्कारतुरगोज्ज्वलायै नमः ॐ यैङ्कारविलसद्योगायै नमः ॐ यैङ्काराह्लादकारिण्यै नमः ॐ यैङ्काररथसंरूढायै नमः ॐ यैङ्कारसुखसुप्तिकायै नमः ॐ यैङ्काराक्षररूपिण्यै नमः ॐ यैङ्कारपरमानन्दायै नमः ॐ यैङ्कारपरमाक्षरायै नमः ॐ यैङ्कारानन्दहृदयायै नमः ॐ यैङ्कारपरसौख्यदायै नमः ॐ यैङ्कारसुखसंसुप्तायै नमः ॐ यैङ्कारायै नमः ॐ यैङ्काररूपिण्यै नमः ॐ यैङ्कारज्ञानसम्पन्नायै नमः ॐ यैङ्कारपररूपिण्यै नमः ॐ यैङ्कारसम्पदापत्यै नमः ॐ यैङ्कारफलदायिन्यै नमः ॐ यैङ्कारजपसौख्यदायै नमः ॐ विज्ञानजनसन्तुष्टायै नमः ॐ विज्ञानजनपूजितायै नमः ॐ विज्ञानजनसुप्रीतायै नमः ॐ विज्ञानजनसौख्यदायै नमः ॐ विज्ञानपरमानन्ददायै नमः ॐ विज्ञानजनतोषिण्यै नमः ॐ विज्ञानानन्दसुखितायै नमः ॐ विज्ञानतत्त्वसन्दर्शायै नमः ॐ विज्ञानानन्दरूपिण्यै नमः ॐ विज्ञानवादसुप्रीतायै नमः ॐ विज्ञानार्थविदां वरायै नमः ॐ विज्ञानवादमध्यस्थायै नमः ॐ विज्ञानघनरूपिण्यै नमः ॐ विज्ञानज्ञानसन्धात्र्यै नमः ॐ विज्ञानसुखदायिन्यै नमः ॐ विज्ञानार्थविवादकारणानन्दविग्रहायै नमः ॐ विज्ञानतत्त्वपदार्थजनसन्देहनाशिन्यै नमः ॐ विज्ञानज्ञानविदितायै नमः ॐ विज्ञानारण्यवासिन्यै नमः ॐ विज्ञानासवसुप्रीतायै नमः ॐ विज्ञानमधुपायिन्यै नमः ॐ विज्ञानामृतसंवासायै नमः ॐ विज्ञानामृतपायिन्यै नमः ॐ विज्ञानामृताब्धिमध्यस्थायै नमः ॐ विज्ञानाब्धिसमाह्लादायै नमः ॐ विज्ञानाब्धिचन्द्रमसे नमः ॐ विज्ञानमन्दिरावासायै नमः ॐ विज्ञानमधुभृङ्गिकायै नमः ॐ विज्ञानरथसंरूढायै नमः ॐ विज्ञानतुरगोज्ज्वलायै नमः ॐ विज्ञानहृदयानन्दसत्स्वरूपप्रदेशिन्यै नमः ॐ विज्ञानानन्दसम्योगप्रबोधनपटीयस्यै नमः ॐ विज्ञानमण्डपान्तस्थसुपूजितपदद्वयायै नमः ॐ चेतनायै नमः ॐ चेतनारूपायै नमः ॐ चेतनारूपधारिण्यै नमः ॐ चेकाराक्षरसम्पूज्यायै नमः ॐ चेकाराक्षरमूर्धजायै नमः ॐ चेकारशोभितमनवे नमः ॐ चेकाराक्षरशोभितायै नमः ॐ चेकारसिद्धनैर्मल्यायै नमः ॐ चेकाराक्षरसौख्यदायै नमः ॐ चेकिताशेषभुवनायै नमः ॐ चेकारानन्दायिन्यै नमः ॐ चेरदेशकृतावासायै नमः ॐ चेरदेशसुरक्षितायै नमः ॐ चेकाराक्षरसंशोभायै नमः ॐ चेरेश्वरसुरक्षितायै नमः ॐ चेकारान्त्यसुशोभितायै नमः ॐ चेकाराक्षरसञ्जप्यायै नमः ॐ चेकाराक्षरसम्युतायै नमः ॐ चेकाराक्षरमन्त्राद्यजपसन्तोषदायिन्यै नमः ॐ चेदिराज्यकृतद्वेषायै नमः ॐ चेदिराजावमानितायै नमः ॐ चेदिराजसंहन्त्र्यै नमः ॐ चेदिराजभयप्रदायै नमः ॐ चेदिराजसमुन्मूलनाशनोत्सुकविग्रहायै नमः ॐ चेदिराजप्रमोत्पन्नसमुत्सुकविराजितायै नमः ॐ चेदिराजवधोत्साहायै नमः ॐ चेदिराजवधप्रियायै नमः ॐ चेदिराजशिरोहन्त्र्यै नमः ॐ चेदिजनसुरक्षितायै नमः ॐ चेतनाचेतनयै नमः ॐ चेनोज्ज्वलरूपिण्यै नमः ॐ चेरचोळादिदेशस्थराजचोरविनाशिन्यै नमः ॐ ऐं ह्रीं क्लीं शोभायै नमः ॐ चामुण्डायै सुपूजितायै नमः ॐ विच्छे विशेषतत्त्वार्थज्ञानज्ञेयस्वरूपिण्यै नमः ॐ महाकालीमहालक्ष्मीमहासरस्वतीस्वरूपिण्यै नमः ॐ चण्डिकापरमेश्वर्यै नमः ॐ श्रीदुर्गापरमेश्वर्यै नमः
इति श्रीचण्डिका नवाक्षरी त्रिशती नामावलिः