సనాతన స్తోత్ర నిధి
108 నామావలీ
సనాతన దేవ

.. అంగారకాష్టోత్తరశతనామావలి ..

॥ अङ्गारकाष्टोत्तरशतनामावलि ॥
రచయిత: పారంపరిక వీక్షణలు: 6
23px

॥ अङ्गारकाष्टोत्तरशतनामावलि ॥

ॐ महीसुताय नमः । ॐ महाभागाय नमः । ॐ मङ्गळाय नमः । ॐ मङ्गलप्रदाय नमः । ॐ महावीराय नमः । ॐ महाशूराय नमः । ॐ महाबलपराक्रमाय नमः । ॐ महारौद्राय नमः । ॐ महाभद्राय नमः । ॐ माननीयाय नमः ॥ १०॥

ॐ दयाकराय नमः । ॐ मानदाय नमः । ॐ अमर्षणाय नमः । ॐ क्रूराय नमः । ॐ तापपापविवर्जिताय नमः । ॐ सुप्रतीकाय नमः । ॐ सुताम्राक्षाय नमः । ॐ सुब्रह्मण्याय नमः । ॐ सुखप्रदाय नमः । ॐ वक्रस्तंभादिगमनाय नमः ॥ २०॥

ॐ वरेण्याय नमः । ॐ वरदाय नमः । ॐ सुखिने नमः । ॐ वीरभद्राय नमः । ॐ विरूपाक्षाय नमः । ॐ विदूरस्थाय नमः । ॐ विभावसवे नमः । ॐ नक्षत्रचक्र संचारिणे नमः । ॐ नक्षत्ररूपाय नमः । ॐ क्षात्रवर्जिताय नमः ॥ ३०॥

ॐ क्षयवृद्धिविनिर्मुक्ताय नमः । ॐ विचक्षणाय नमः । ॐ अक्षीणफलदाय नमः । ॐ चक्षुर्गोचराय नमः । ॐ शुभलक्षणाय नमः । ॐ वीतरागाय नमः । ॐ वीतभयाय नमः । ॐ विज्वराय नमः । ॐ विश्वकारणाय नमः । ॐ नक्षत्रराशि संचाराय नमः ॥ ४०॥

ॐ नानाभय निकृंतनाय नमः । ॐ कमनीयाय नमः । ॐ दयासाराय नमः । ॐ कनत्कनकभूषणाय नमः । ॐ भयघ्नाय नमः । ॐ भव्यफलदाय नमः । ॐ भक्ताभयवरप्रदाय नमः । ॐ शत्रुहंत्रे नमः । ॐ शमोपेताय नमः । ॐ शरणागत पोषकाय नमः ॥ ५०॥

ॐ साहसाय नमः । ॐ सद्गुणाध्यक्षाय नमः । ॐ साधवे नमः । ॐ समरदुर्जयाय नमः । ॐ दुष्टदूराय नमः । ॐ शिष्टपूज्याय नमः । ॐ सर्वकष्टनिवारकाय नमः । ॐ दुश्चेष्टावारकाय नमः । ॐ दुःखभंजनाय नमः । ॐ दुर्धराय नमः ॥ ६०॥ ॐ हरये नमः । ॐ दुस्स्वप्नहंत्रे नमः । ॐ दुर्धर्षाय नमः । ॐ दुष्टगर्वविमोचकाय नमः । ॐ भरद्वाजकुलोद्भवाय नमः । ॐ भूसुताय नमः । ॐ भव्यभूषणाय नमः । ॐरक्तांबराय नमः । ॐरक्तववुषे नमः । ॐ भक्तपालनतत्पराय नमः ॥ ७०॥ ॐ चतुर्भुजाय नमः । ॐ गदाधारिणे नमः । ॐ मेषवाहनाय नमः । ॐ मिताशनाय नमः । ॐ शक्तिशूलधराय नमः । ॐ शक्ताय नमः । ॐ शस्त्रविद्याविशारदाय नमः । ॐ तार्किकाय नमः । ॐ तामसाधाराय नमः । ॐ तपस्विने नमः ॥ ८०॥ ॐ ताम्रलोचनाय नमः । ॐ तप्तकांचनसंकाशाय नमः । ॐ रक्तकिंजल्कसन्निभाय नमः । ॐ गोत्राधिदेवताय नमः । ॐ गोमध्यचराय नमः । ॐ गुणविभूषणाय नमः । ॐ असृजे नमः । ॐ अङ्गारकाय नमः । ॐ अवंतीदेशाधीशाय नमः । ॐ जनार्दनाय नमः ॥ ९०॥ ॐ सूर्ययाम्य प्रदेशस्थाय नमः । ॐ यौवनाय नमः । ॐ याम्यदिङ्मुखाय नमः । ॐ त्रिकोणमंडलगताय नमः । ॐ त्रिदशाधिपसन्नुताय नमः । ॐ शुचये नमः । ॐ शुचिकराय नमः । ॐ शूराय नमः । ॐ शुचिवश्याय नमः । ॐ शुभावहाय नमः ॥ १००॥ ॐ मेषवृश्चिकराशीशाय नमः । ॐ मेधाविने नमः । ॐ मितभाषिणे नमः । ॐ सुखप्रदाय नमः । ॐ सुरूपाक्षाय नमः । ॐ सर्वाभीष्टफलप्रदाय नमः । ॐ श्रीमते अङ्गारकाय नमः ।

॥ इति अङ्गारक अष्टोत्तरशतनामावलिस्समाप्ता ॥

జప గణన: 0/108