સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

ગણેશતેજોવર્ધનસ્તોત્રમ્

गणेशतेजोवर्धनस्तोत्रम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 7
લિપિ પસંદ કરો: देवनागरी (संस्कृत)
14px
गणेशतेजोवर्धनस्तोत्रम् श्रीगणेशाय नमः ॥ भ्रूशुण्ड्युवाच - नमो नमस्ते गणनाथ ढुण्ढे सदा सुशान्तिप्रद शान्तिमूर्ते । अपारयोगेन च योगिनस्त्वां भजन्ति भावेन नमो नमस्ते ॥ १॥ प्रजापतीनां त्वमथो विधाता सुपालकानां गणनाथ विष्णुः । हरोऽसि संहारकरेषु देव कलांशमात्रेण नमो नमस्ते ॥ २॥ क्रियात्मकानां जगदम्बिका त्वं प्रकाशकानां रविरेव ढुण्ढे । यत्नप्रदानां च गुणेश नामा कलांशमात्रेण नमो नमस्ते ॥ ३॥ शरीरभाजां त्वमथासि बिन्दुः शरीरिणां सोऽहमथो विभासि । सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥ ४॥ विदेहकानामसि साङ्ख्यरूपः समाधिदानां च निजात्मकस्त्वम् । निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥ ५॥ गणास्त एते गणनाथनाम्ना त्वमेव वेदादिषु योगकीर्ते । सदा सुशान्तिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥ ६॥ गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री । तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥ ७॥ गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि । तयोरभेदे गणनाथनामा योगेश भक्तेश नमो नमस्ते ॥ ८॥ किं वदामि गणाधीश महिमानं महाद्भुतम् । यत्र वेदादयो भ्रान्ता इव जाताः प्रवर्णने ॥ ९॥ पतितानामहं श्रेष्ठः पतितोत्तम एव च । तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ १०॥ किञ्चित्संस्कारयोगेन विश्रामित्रादयः प्रभो । जाता वै ब्राह्मणत्वस्य ब्राह्मणानिर्मलाः पुरा ॥ ११॥ अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः । तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ १२॥ एवमुक्त्वा नतं विप्रं प्राञ्जलिं पुरतः स्थितम् । भक्तिभावेन सन्तुष्टस्तमुवाच गजाननः ॥ १३॥ गणेश उवाच - वरान्वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि । त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ १४॥ तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः । भ्रूशुण्डी गद्गदोक्त्या च तं जगाद गजाननम् ॥ १५॥ यदि प्रसन्नभावेन वरदोऽसि गजानन । त्वदीयां भक्तिमुग्रां मे देहि सम्पूर्णभावतः ॥ १६॥ तथेति तमुवाचाथ गणेशो भक्तवत्सलः । क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥ १७॥ अमलाश्रमकं नाम्ना जनानां सेविनां सदा । अज्ञानज मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥ १८॥ एवमुक्त्वांऽतर्दधे च गणेशो देवनायकः । भ्रूशुण्डी भक्तिभावेन भेजे वै तं निरन्तरम् ॥ १९॥ नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः । तीर्थं जज्ञौ स योगीन्द्रो गणेशानान्न संशयः ॥ २०॥ ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा । तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥ २१॥ शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः । क्षेत्रसंन्यासभावेन तेऽसेवन्त महामुनिम् ॥ २२॥ भ्रूशुण्डिनस्तत्र तीर्थं गणेशस्य च सुन्दरम् । भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जन्तवे ॥ २३॥ तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः । शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥ २४॥ कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः । प्रशंसन्तो मुनिं सर्वे साक्षाच्छुण्डाधरं प्रभुम् ॥ २५॥ इन्द्रादयस्तमेवं च दर्शनार्थं समागताः । कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥ २६॥ ब्रह्मविष्णुमहेशाद्या ईश्वरास्ते महामुनेः । नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥ २७॥ एवं प्रभावयुक्तः स भ्रूशुण्डी कथितो मया । चाण्डालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥ २८॥ ॥ इति श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते भ्रूशुण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्याये गाणेशतेजोवर्धनस्तोत्रम् ॥
પાઠ જપ: 0/108