సనాతన స్తోత్ర నిధి
శ్రీ రామ
సనాతన దేవ

.. శ్రీరామానుజచతుశ్లోకీ ..

॥ श्रीरामानुजचतुश्लोकी ॥
రచయిత: పారంపరిక వీక్షణలు: 1
23px

॥ श्रीरामानुजचतुश्लोकी ॥

अनिशं भजतामनन्यभाजां चरणाम्भोरुहमादरेण पुंसाम्। वितरन्विविधां विभूतिनिष्ठां जय रामानुज ! रंगधाम्नि नित्यम्॥१॥

भुवि नो विमतांस्त्वदीयसूक्तिः कुलिशीभूय कुदृष्टिभिस्समेतान्। शकलीकुरुते विपश्चिदीड्या जय रामानुज ! शेषशैलश्रृंगे।॥२॥

श्रुतिषु स्मृतिषु प्रमाणतत्त्वं कृपयालोक्य विशुद्धया हि बुद्ध्या। अकृथाः स्वत एव भाष्यरत्नं जय रामानुज ! हस्तिधाम्नि नित्यम्॥३॥

जय मायिमतान्धकारभानो ! जय बाह्यप्रमुखाटवीकृशानो ! । जय संश्रितसिन्धुशीतभानो ! जय रामानुज ! यादवाद्रिश्रृंगे ॥४॥

रामानुजचतुःश्लोकीं यः पठेन्नियतस्सदा । प्राप्नुयात्परमां भक्तिं यतिराजपदाब्जयोः॥५॥

॥ श्रीरामानुजचतुःश्लोकी समाप्ता॥

జప గణన: 0/108