সনাতন দেব
॥ শ্রীকৃষ্ণ-অষ্টোত্তরশতনামাবলিঃ ॥
॥ श्रीकृष्ण-अष्टोत्तरशतनामावलिः ॥
॥ श्रीकृष्ण-अष्टोत्तरशतनामावलिः ॥
ॐ श्री कृष्णाय नमः । ॐ कमलानाथाय नमः । ॐ वासुदेवाय नमः । ॐ सनातनाय नमः । ॐ वसुदेवात्मजाय नमः । ॐ पुण्याय नमः । ॐ लीलामानुषविग्रहाय नमः । ॐ श्रीवत्सकौस्तुभधराय नमः । ॐ यशोदावत्सलाय नमः । ९ ॐ हरये नमः । ॐ चतुर्भुजात्तचक्रासिगदाशङ्खाद्यायुधाय नमः । ॐ देवकीनन्दनाय नमः । ॐ श्रीशाय नमः । ॐ नन्दगोपप्रियात्मजाय नमः । ॐ यमुनावेगसंहारिणे नमः । ॐ बलभद्रप्रियानुजाय नमः । ॐ पूतनाजीवितहराय नमः । ॐ शकटासुरभञ्जनाय नमः । १८ ॐ नन्दव्रजजनानन्दिने नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ नवनीतविलिप्ताङ्गाय नमः । ॐ नवनीतनटाय नमः । ॐ अनघाय नमः । ॐ नवनीतनवाहारिणे नमः । ॐ मुचुकुन्दप्रसादकाय नमः । ॐ षोडशस्त्रीसहस्रेशाय नमः । ॐ त्रिभङ्गिने नमः । २७ ॐ मधुराकृतये नमः । ॐ शुकवागमृताब्धीन्दवे नमः । ॐ गोविन्दाय नमः । ॐ योगिनाम्पतये नमः । ॐ वत्सवाटचराय नमः । ॐ अनन्ताय नमः । ॐ धेनुकासुरभञ्जनाय नमः । ॐ तृणीकृततृणावर्ताय नमः । ॐ यमलार्जुनभञ्जनाय नमः । ३६ ॐ उत्तालतालभेत्रे नमः । ॐ गोपगोपीश्वराय नमः । ॐ योगिने नमः । ॐ कोटिसूर्यसमप्रभाय नमः । ॐ इलापतये नमः । ॐ परञ्ज्योतिषे नमः । ॐ यादवेन्द्राय नमः । ॐ यदूद्वहाय नमः । ॐ वनमालिने नमः । ४५ ॐ पीतवासिने नमः । ॐ पारिजातापहारकाय नमः । ॐ गोवर्धनाचलोद्धर्त्रे नमः । ॐ गोपालाय नमः । ॐ सर्वपालकाय नमः । ॐ अजाय नमः । ॐ निरञ्जनाय नमः । ॐ कामजनकाय नमः । ॐ कञ्जलोचनाय नमः । ५४ ॐ मधुघ्ने नमः । ॐ मधुरानाथाय नमः । ॐ द्वारकानायकाय नमः । ॐ बलिने नमः । ॐ बृन्दावनान्तसञ्चारिणे नमः । ॐ तुलसीदामभूषणाय नमः । ॐ स्यमन्तकमणिहर्त्रे नमः । ॐ नरनारायणात्मकाय नमः । ॐ कुब्जाकृष्णाम्बरधराय नमः । ६३ ॐ मायिने नमः । ॐ परमपूरुषाय नमः । ॐ मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः । ॐ संसारवैरिणे नमः । ॐ कंसारये नमः । ॐ मुरारये नमः । ॐ नरकान्तकाय नमः । ॐ अनादिब्रह्मचारिणे नमः । ॐ कृष्णाव्यसनकर्षकाय नमः । ७२ ॐ शिशुपालशिरच्छेत्रे नमः । ॐ दुर्योधनकुलान्तकाय नमः । ॐ विदुराक्रूरवरदाय नमः । ॐ विश्वरूपप्रदर्शकाय नमः । ॐ सत्यवाचे नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सत्यभामारताय नमः । ॐ जयिने नमः । ॐ सुभद्रापूर्वजाय नमः । ८१ ॐ जिष्णवे नमः । ॐ भीष्ममुक्तिप्रदायकाय नमः । ॐ जगद्गुरुवे नमः । ॐ जगन्नाथाय नमः । ॐ वेणुनादविशारदाय नमः । ॐ वृषभासुरविध्वंसिने नमः । ॐ बाणासुरकरान्तकाय नमः । ॐ युधिष्टिरप्रतिष्ठात्रे नमः । ॐ बर्हिबर्हावतंसकाय नमः । ९० ॐ पार्थसारथये नमः । ॐ अव्यक्ताय नमः । ॐ गीतामृतमहोदध्ये नमः । ॐ कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः । ॐ दामोदराय नमः । ॐ यज्ञभोक्त्रे नमः । ॐ दानवेन्द्रविनाशकाय नमः । ॐ नारायणाय नमः । ॐ परब्रह्मणे नमः । ९९ ॐ पन्नगाशनवाहनाय नमः । ॐ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः । ॐ पुण्यश्लोकाय नमः । ॐ तीर्थपादाय नमः । ॐ वेदवेद्याय नमः । ॐ दयानिधये नमः । ॐ सर्वतीर्थात्मकाय नमः । ॐ सर्वग्रहरूपिणे नमः । ॐ परात्पराय नमः । १०८॥ इति श्री कृष्ण अष्टोत्तरशतनामवलिः ॥