सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

विनायकाष्टकम्

stotra-787dd65f
रचयिता: पारंपरिक पाठ संख्या: 2
23px

विनायकाष्टकम्

एकदन्तमीशपुत्रमाखुवाहमीश्वरं विघ्नसङ्घध्वान्तसूर्यमन्तरायनायकम् । अच्युताद्यशेषदेवपूजिताङ्घ्रिपङ्कजं विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ १॥ कामरूपधारिणं नागयज्ञसूत्रिणं कुङ्कुमोत्थकायकान्तिशोभितं वराननम् । काञ्चनाभिभास्वरं च वासवादिवन्दितं विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ २॥ नन्दिवाहनन्दने सुरेन्द्रनाथवन्दितं नन्दिभृङ्गिनन्दनाथनारदादिनृत्यकम् । नन्दगोपनागराजपूर्वकैर्नमस्कृतं विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ३॥ सर्पवेष्टितोदरं च सर्पमालधारिणं शङ्करादिपूजितं शिवात्मजं सुखात्मकम् । सावधानताकरं सरस्वतीप्रदायकं विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ४॥ विघ्नमत्तनागसिंहमुग्रनेत्रनासिकं विघ्नमेघजालनाशकारिचण्डमारुतम् । विघ्नदाववह्निवारिवारिवारिवाहकं विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ५॥ विघ्नसिन्धुवाडवाग्निमिन्दुखण्डमण्डितं विघ्नगोपमष्टसिद्धियुक्तभक्तसेवितम् । शूर्पकर्णवक्रतुण्डकुम्भगण्डशोभितं विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ६॥ दक्षयक्षपक्षिमुख्यरक्षिताङ्घियुग्मकं भुक्तिमुक्तियुक्तिशान्तियुक्तपूजितं विभुम् । देवदेववंशवृद्धिसिद्धिसाधकं मुदा विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ७॥ देवदैत्ययोगिसिद्धचारणाभिसेवितं सर्पखेटभूजभूतसङ्घसाधुवेष्टितम् । ईप्सितार्थदायकं विशेषकर्मकारकं विघ्नशैलवज्रिणं विनायकं नमाम्यहम् ॥ ८॥ श्रीविनायकाष्टकं हि शङ्करेण निर्मितं शङ्करस्य सौख्यदं भक्तविघ्ननाशकम् । ये पठन्ति सादरं समस्तसिद्धिदं स्तवं ते त्वभीष्टसिद्धिपात्रभावमाप्नुवन्ति शम् ॥ ९॥ इति विनायकाष्टकम्
पाठ जप: 0/108