सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

दक्षकृता शिवस्तुतिः

stotra-75880824
रचयिता: पारंपरिक पाठ संख्या: 6
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

दक्षकृता शिवस्तुतिः

दक्ष उवाच । नमामि शङ्करं साक्षाद्यदाधारमिदं जगत् । कालरूपं यथाकालं बोधयामास तं शिवम् ॥ ९१॥ कालेन फलमूलानि जायतेऽन्नादिकानि च । शीतोष्णसमभावश्च सदा कालेन जायते ॥ ९२॥ सूर्यस्तपति कालेन ज्योतिषां गण एव च । कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥ ९३॥ कालेन मृज्यते सृष्टिब्रह्मणा वै पुनः पुनः । कालन पालनं तत्र कुरुने विष्णुरव्ययः ॥ ९४॥ कालेन स्वेच्छया शम्भुः संहारं प्रकरोति च । यत्किचिदिह तत्सर्वं कालाधीनं न संशयः ॥ ९५॥ स एव कालो भगवानीश्वरो ब्रह्मसंज्ञितः । शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥ ९६॥ क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च । यत्कृतं तद्दयासिन्धो नमस्ते परमेश्वर ॥ ९७॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥ ९८॥ अनन्तगुणराशिस्त्वं वर्णनीयं किमप्यहो । नान्तं ब्रह्मादयो जग्मुर्मादृशानां च का कथा ॥ ९९॥ नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते । अनादिमध्यान्तविहीनभूम्ने नमो नमो भक्तभयापहन्त्रे ॥ १००॥ इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा । अजवत्तस्य सञ्जातं भाषणं लललल्ललम् ॥ १०१॥ तेन हृष्टो महादवस्तं पुनर्नरमस्तकम् । भगवान् कारयामास यथापूर्व मुनीश्वराः ॥ १०२॥ प्रोवाच मधुरं वाक्यं शिवस्तं सर्वसन्निधौ । प्रजापतिपतिर्दक्ष सर्वमान्यो भविष्यसि ॥ १०३॥ त्वया यद्रचितं स्तोत्रं मदीयं मत्प्रियं भवेत् । यस्तोष्यति प्रदास्यामि तस्मै काममनेन माम् ॥ १०४॥ इह भुक्त्वाऽखिलान्भोगानन्ते मल्लोकमाप्नुयात् । मम प्रीतिकरश्चासौ भविष्यति न संशयः ॥ १०५॥ त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ । तद्वद्यो मत्समीपे वै करिष्यति नरः सकृत् ॥ १०६॥ तेन हृष्टो भविष्यामि वाञ्छितं पूरयामि च । एवं दत्त्वा वरं शम्भुस्तत्रैवान्तरधीयत ॥ १०७॥ इति श्रीमुद्गलपुराणे  दक्षकृता शिवस्तुतिः
पाठ जप: 0/108