सनातन स्तोत्र संग्रह
१०८ नामावली
सनातन देव

॥ रामाष्टोत्तरशतनामावलिः ॥

stotra-740861b2
रचयिता: पारंपरिक पाठ संख्या: 2
23px

॥ रामाष्टोत्तरशतनामावलिः ॥

ओं श्रीरामाय नमः ओं रामभद्राय नमः ओं रामचन्द्राय नमः ओं शाश्वताय नमः ओं राजीवलोचनाय नमः ओं श्रीमते नमः ओं राजेन्द्राय नमः ओं रघुपुङ्गवाय नमः ओं जानकीवल्लभाय नमः ओं जैत्राय नमः ओं जितामित्राय नमः ओं जनार्दनाय नमः ओं विश्वामित्रप्रियाय नमः ओं दान्ताय नमः ओं शरणत्राणतत्पराय नमः ओं वालिप्रमथनाय नमः ओं वाग्मिने नमः ओं सत्यवाचे नमः ओं सत्यविक्रमाय नमः ओं सत्यव्रताय नमः ओं व्रतधराय नमः ओं सदा हनुमदाश्रिताय नमः ओं कौसलेयाय नमः ओं खरध्वंसिने नमः ओं विराधवधपण्डिताय नमः ओं विभीषणपरित्रात्रे नमः ओं हरकोदण्डखण्डनाय नमः ओं सप्ततालप्रभेत्त्रे नमः ओं दशग्रीवशिरोहराय नमः ओं जामदग्न्यमहादर्पदलनाय नमः ओं ताटकान्तकाय नमः ओं वेदान्तसाराय नमः ओं वेदात्मने नमः ओं भवरोगस्य भेषजाय नमः ओं दूषणत्रिशिरोहन्त्रे नमः ओं त्रिमूर्तये नमः ओं त्रिगुणात्मकाय नमः ओं त्रिविक्रमाय नमः ओं त्रिलोकात्मने नमः ओं पुण्यचारित्रकीर्तनाय नमः ओं त्रिलोकरक्षकाय नमः ओं धन्विने नमः ओं दण्डकारण्यकर्तनाय नमः ओं अहल्याशापशमनाय नमः ओं पितृभक्ताय नमः ओं वरप्रदाय नमः ओं जितेन्द्रियाय नमः ओं जितक्रोधाय नमः ओं जितामित्राय नमः ओं जगद्गुरवे नमः ओं ऋक्षवानरसङ्घातिने नमः ओं चित्रकूटसमाश्रयाय नमः ओं जयन्तत्राणवरदाय नमः ओं सुमित्रापुत्रसेविताय नमः ओं सर्वदेवादिदेवाय नमः ओं मृतवानरजीवनाय नमः ओं मायामारीचहन्त्रे नमः ओं महादेवाय नमः ओं महाभुजाय नमः ओं सर्वदेवस्तुताय नमः ओं सौम्याय नमः ओं ब्रह्मण्याय नमः ओं मुनिसंस्तुताय नमः ओं महायोगाय नमः ओं महोदाराय नमः ओं सुग्रीवेप्सितराज्यदाय नमः ओं सर्वपुण्याधिकफलाय नमः ओं स्मृतसर्वाघनाशनाय नमः ओं अनादये नमः ओं आदिपुरुषाय नमः ओं महापूरुषाय नमः ओं पुण्योदयाय नमः ओं दयासाराय नमः ओं पुराणपुरुषोत्तमाय नमः ओं स्मितवक्त्राय नमः ओं मितभाषिणे नमः ओं पूर्वभाषिणे नमः ओं राघवाय नमः ओं अनन्तगुणगम्भीराय नमः ओं धीरोदात्तगुणोत्तमाय नमः ओं मायामानुषचारित्राय नमः ओं महादेवादिपूजिताय नमः ओं सेतुकृते नमः ओं जितवारीशाय नमः ओं सर्वतीर्थमयाय नमः ओं हरये नमः ओं श्यामाङ्गाय नमः ओं सुन्दराय नमः ओं शूराय नमः ओं पीतवाससे नमः ओं धनुर्धराय नमः ओं सर्वयज्ञाधिपाय नमः ओं यज्विने नमः ओं जरामरणवर्जिताय नमः ओं शिवलिङ्गप्रतिष्ठात्रे नमः ओं सर्वापगुणवर्जिताय नमः ओं परमात्मने नमः ओं परस्मै ब्रह्मणे नमः ओं सच्चिदानन्दविग्रहाय नमः ओं परस्मै ज्योतिषे नमः ओं परस्मै धाम्ने नमः ओं पराकाशाय नमः ओं परात्पराय नमः ओं परेशाय नमः ओं पारगाय नमः ओं पाराय नमः ओं सर्वदेवात्मकाय नमः ओं पराय नमः

॥ इति श्री पद्मपुराणे उत्तरखण्डे श्री रामाष्टोत्तरशतनामावलिः सम्पूर्णा ॥

पाठ जप: 0/108