સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીમહાશૈવતન્ત્રાન્તર્ગતં મહાગણપતિપઞ્ચાવરણસ્તોત્રમ્

श्रीमहाशैवतन्त्रान्तर्गतं महागणपतिपञ्चावरणस्तोत्रम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 3
23px

श्री महागणपति पञ्चावरणस्तोत्रम्

अधस्तान्मानुषाकारं पुरस्तात्कुञ्जराकृति । निरस्ताशेषदुरितं पुरस्तादस्तु वस्तु नः ॥ अनाद्यायाखिलाद्याय मायिने गतमायिने । अरूपाय स्वरूपाय शिवाय गुरवे नमः ॥ श्रीशिवः - सृष्टिस्थितिविनाशानां विश्वस्यास्यैककारणम् । महागणपतिं वन्दे पञ्चावरणसंयुतम् ॥ १॥ क्रीडासक्तगणाधीश करशीकरपूरितम् । ऐक्षवाम्भोनिधिं वन्दे तरङ्गकुलसङ्कुलम् ॥ २॥ तस्य मध्ये द्वीपवर्यं नौमि रत्नशिलातलम् । सेवागतामराधीश दैत्यसिद्धसमाकुलम् ॥ ३॥ पारिजातकसन्तान मन्दारहरिचन्दनान् । सकल्पवृक्षान् तत्रस्थान् संश्रितेष्टवरप्रदान् ॥ ४॥ पलाशपल्लवफल प्रसूनर्तुवरव्रजैः । युगपत्सेव्यमानस्य महतः कल्पशाखिनः ॥ ५॥ तेषां ज्वलन्मरकत प्रवालकमणिव्रजात् । अधस्तात्कौमुदीबालातपाभ्यां सङ्कुलस्थलीम् ॥ ६॥ रत्नवेदीं यजेत्पूर्णकुम्भदीपोपशोभिताम् । लसद्वितानसंयुक्तां चतुःस्तम्भविराजिताम् ॥ ७॥ मुक्ताप्रवालशोभाढ्यां नानारत्नैश्च शोभिताम् । तत्र धर्मादिसिंहास्य चतुष्पादसमन्वितम् ॥ ८॥ पूजयामि विभोः पीठमधर्माद्युपशोभितम् । तन्मध्ये लिपिसंयुक्तं दलाष्टकमनोहरम् ॥ ९॥ षट्कोणचक्रमध्यस्थं त्रिकोणाङ्कितकर्णिकम् । वृत्तभूवलयोपेतं विलसत्केसरान्वितम् ॥ १०॥ सर्वशक्त्याख्यकमलं पूजयाम्यासनात्मकम् । तीव्रा च ज्वालिनी नन्दा भोगदा कामरूपिणी ॥ ११॥ उग्रा तेजोवती सत्या नवमी विघ्ननाशिनी । किञ्जल्ककर्णिकासीना यास्ताः शोणाङ्गवाससः ॥ १२॥ वन्दे वराभयकराः पीठशक्तीर्गणेशितुः । त्रिकोणकर्णिकायां तु सुखासीनं सुरार्चितम् ॥ १३॥ जपाकुसुमसङ्काशं दीप्तिरञ्जितदिङ्मुखम् । गजाननं जगद्वन्द्यं तुन्दिलं चन्द्रशेखरम् ॥ १४॥ एकदन्तं त्रिणयनं नागयज्ञोपवीतिनम् । रक्तमाल्याम्बरधरं रक्तगन्धानुलेपनम् ॥ १५॥ फणामणिलसद्भोग भोगिभूषणभूषितम् । वामनाङ्घ्रिकराम्भोजं दशदोर्दण्डमण्डितम् ॥ १६॥ रमाविष्ण्वादिमिथुन हेत्यलङ्कृतविग्रहम् । दक्षवामकराग्रेषु बीजापूरं गदां धनुः ॥ १७॥ ऐक्षवं त्रिशिखं चक्रं कमलं पाशमुत्पलम् । कलमाग्रं स्वरदनं पुष्करे कलशं शुभम् ॥ १८॥ दधानं कलशस्थानि नानारत्नानि सर्वदा । वितरन्तं स्वभक्तेभ्योऽभितःसंसृतिधारया ॥ १९॥ गण्डस्थलगलद्दान गन्धलुब्धान्मुहुर्मुहुः । निवारयन्तं मधुपान् कर्णतालनघट्टनैः ॥ २०॥ महागणपतिं वन्दे वरदं शक्तिसंयुतम् । वामाङ्के गणनाथस्य सुखासीनां शुचिस्मिताम् ॥ २१॥ करेण पतिमालिङ्ग्य दक्षिणेनेतरेण तु । बिभ्रतीं फुल्लकमलं कृपाविस्तृतवीक्षणाम् ॥ २२॥ दिव्यमाल्याम्बरालेपां दिव्याभरणभूषिताम् । साधकाभीष्टसर्वार्थ सिद्धिदानैकतत्पराम् ॥ २३॥ गौराङ्गीं गणनाथस्य शक्तिं भक्त्याऽभिवादये । अग्रे बिल्वतरोर्मूले दिव्यसिंहासनस्थितौ ॥ २४॥ विद्युन्नीलाम्बुदनिभौ द्विचतुर्बाहुशालिनौ । पद्मद्वयगदाखड्गशङ्खचक्रायुधान्वितौ ॥ २५॥ श्वेतपीताम्बरधरौ दिव्यालेपनभूषितौ । रमारमेशौ संस्तौमि गणेशाभिमुखस्थितौ ॥ २६॥ गणेशदक्षिणे भागे वटवृक्षस्थले स्थितौ । त्र्यक्षौ सिंहासनासीनौ सुरासुरनिषेवितौ ॥ २७॥ हाटकस्फटिकप्रख्यौ पृथग्बाहुचतुष्टयौ । पाशाङ्कुशवराभीति द्वयशूलपरश्वधौ ॥ २८॥ दिव्यमालाम्बरालेप भूषणाविन्दुशेखरौ । गणेशाभिमुखासीनौ नौम्युमावृषभध्वजौ ॥ २९॥ गणेशोत्तरभागस्थौ बोधिवृक्षस्थले स्थितौ । दिव्यसिंहासनारूढौ हेमविद्रुमसन्निभौ ॥ ३०॥ दिव्यमाल्याम्बरालेपभूषणौ द्विद्विबाहुकौ । उत्पलद्वयपुण्ड्रेक्षु चापपुष्पशरायुधौ ॥ ३१॥ गणेशाभिमुखासीनौ प्रस्तौमि रतिमन्मथौ । गणेशवाम भागस्थौ प्रियङ्गुद्रुममूलगौ ॥ ३२॥ नीलोत्पलद्युतिनिभौ दिव्यसिंहासनाश्रितौ । शुकव्रीह्यग्रचक्रोद्यद्गदाभीतिवरान्वितौ ॥ ३३॥ श्वेतपीताम्बरौ दिव्यमाल्यालेपनभूषितौ । गणेशाभिमुखासीनौ द्विचतुर्बाहुशालिनौ ॥ ३४॥ आधारभूतौ भूतानां भूवराहौ समाश्रये । षट्कोणस्थानगामोद प्रमोदोन्मुखदुर्मुखान् ॥ ३५॥ अविघ्नं विघ्नकर्तारं गणेशाभिमुखस्थितान् । शोणाङ्गान् शुभ्रमाल्यांश्च त्रिणेत्रान् भोगिभूषणान् ॥ ३६॥ पाशाङ्कुशवराभीति हस्तानर्धेन्दुशेखरान् । ऋद्ध्यादिशक्तिसहितान् गजवक्त्रान् समाश्रये ॥ ३७॥ ऋद्धिस्समृद्विश्च तथा कान्तिश्च मदनावती । मदद्रवा द्राविणी च षडामोदादिशक्तयः ॥ ३८॥ यास्ताश्चामीकरनिभाः सम्फुल्लाम्बुजधारिणीः । दिव्याभरणमाल्यानुलेपनांशुकभूषणाः ॥ ३९॥ आत्मेशाङ्कस्थिताः सौम्याः सिद्धिदाः शरणं भजे । गणेशोभयपार्श्वस्थौ मुक्तामाणिक्यसन्निभौ ॥ ४०॥ सदा धनानि वर्षन्तौ स्वशक्तिभ्यां समन्वितौ । वसुधारावसुमतीभ्यां श्रये शङ्खाख्यपद्मकौ ॥ ४१॥ वह्नीशरक्षो वाय्वग्र पृष्ठेष्वङ्गानि षड्विभोः । हृदादीनि प्रसन्नानि नानावर्णाकृतीनि च ॥ ४२॥ गणेशाभिमुखस्थानि नतिमुद्राणि संश्रये । दिव्यांशुकालेपमाल्याः पृथग्वर्णाननाकृतीः ॥ ४३॥ स्वहेतिवाहनोपेताः स्तौमि ब्राह्म्यादिमातृकाः । प्रागादिदिक्पतीन् स्वस्वहेतिवाहनसंयुतान् । नानावर्णाकृतीन् सौम्यानिन्द्रादीन् शरणं भजे ॥ ४४॥ चतुश्चत्वारिंशत्परिगणितपद्यैर्विरचितं गणेशस्तोत्रं यः पठति नियतात्मा स लभते । धनं धान्यं पुत्रान् जननृपवशित्वं पशुचयं चिरायुस्सद्विद्यां विपुलतरकीर्तिं शिवपदम् ॥ ४५॥ चतुश्चत्वारिंशत्परिगणितमेतत्प्रतिदिनं जपेदष्टद्रव्यैर्गणपतिसमाराधनपरः । चतुश्चत्वारिंशद्दिवसमिति जप्त्वा स लभते सकृच्छ्रानिष्टार्थानपि जपदिनेष्वेव सुलभान् ॥ ४६॥ नारिकेलकदलीफललाजान्मोदकान्पृथुकसक्तुतिलेक्षून् । सन्निवेद्य परितर्प्य गणेशं कीर्तयेत्स्तवमिमं पुमर्थदम् ॥ ४७॥ यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्वं वल्लभायुक्तो गणेशः क्षन्तुमर्हति ॥ ४८॥ इति श्रीमहाशैवतन्त्रान्तर्गतं महागणपतिपञ्चावरणस्तोत्रम् ।
પાઠ જપ: 0/108