సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

.. శ్రీకృష్ణాష్టోత్తరశతనామస్తోత్రం ..

॥ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥
రచయిత: పారంపరిక వీక్షణలు: 1
23px

॥ श्रीकृष्ण अष्टोत्तरशतनामस्तोत्रम्॥

अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषि । अनुष्टुप् छन्दः । श्रीकृष्णो देवता । श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोतरशतनामजपे विनियोगः ॥

शेष उवाच श्रीकृष्णः कमलानाथो वासुदेवः सनातनः । वासुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १ ॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः । चतुर्भुजात्तचक्रसिगदाशंखाद्युदायुधः ॥ २ ॥

देवकीनंदनः श्रीशो नंदगोपप्रियात्मजः । यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥

पूतनाजीवितहरः शकटासुरभंजनः । नंदव्रजजनानंदी सच्चिदानंदविग्रहः ॥ ४ ॥

नवनीतनवाहारी मुचुकंदप्रसादकः । षोडशस्त्रीसहस्त्रेशस्त्रिभंगी मधुराकृतिः ॥ ५ ॥

शुकवागमृताब्धींदुर्गोविंदो गोविंदां पतिः । वत्सपालनसंचारी धेनुकासुरभंजनः ॥ ६ ॥

तृणीकृततृणावर्तो यमलार्जुनभंजनः । उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७ ॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परं ज्योतिर्यादवेंद्रो यदूद्वहः ॥ ८ ॥

वनमाली पीतवासाः पारिजातापहारकः । गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९ ॥

अजो निरंजनः कामजनकः कञ्जलोचनः । मधुहामथुरानाथो द्वारकानायको बली ॥ १० ॥

वृन्दावनांतःसंचारी तुलसीदामभूषणः । स्यमंतकमणेर्हर्ता नरनारायणात्मकः ॥ ११ ॥

कुब्जाकृष्णांबरधरो मायी परमपूरषः । मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ १२ ॥

संसारवैरी कंसारिर्मुररिर्नरकांतकः । अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३ ॥

शिशुपालशिरश्छेत्ता दुर्योधनकुलांतकृत् । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४ ॥

सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५ ॥

जगद्‌गुरुर्जगन्नाथो वेणुवाद्यविशारदः । वृषभासुरविध्वंसी बाणासुरबलांतकृत् ॥ १६ ॥

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७ ॥

कालीयफणिमाणिक्यरंजितश्रीपदांबुजः । दामोदर यज्ञभोक्ता दानवेन्द्राविनाशनः ॥ १८ ॥

नारायणः परब्रह्म पन्नगाशनवाहनः । जलक्रिडासमासक्तगोपीवस्त्रापहारकः ॥ १९ ॥

पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः । सर्वतीर्थात्मकः सर्वग्रहरूपः परात्परः ॥ २० ॥

इत्येवं कृष्णदेवस्य नाम्नमष्टोत्तरं शतम् । कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१ ॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा । कृष्णनामामृतं नाम परमानंददायकम् ॥ २२ ॥

अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् । दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २३ ॥

पठतां श्रृण्वतां चैव कोटिकोटिगुणं भवेत् पुत्रप्रदमपुत्राणामगतीनं गतिप्रदम् ॥ २४ ॥

धनावहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदंपुष्टिवर्धनम् ॥ २५ ॥

वातग्रहज्वरदीनां शमनं शांतिमुक्तिदम् । समस्तकामदं सद्यः कोतिजन्माघनाशनम् ॥ २६ ॥

अन्ते कृष्णस्मरणदं भवताभयापहम् । कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने । नाथाय रुक्मिणीशाय नमो वेदांतवेदिने ॥ २७ ॥

इम मन्त्रं महादेव जपन्नेव दिवानिशम् । सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८ ॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् । निविश्य भोगानंतेऽपि कृष्णसायुज्यमाप्नुयात् ॥ २९ ॥

॥ इति श्रीनारदपचरात्रे ज्ञानामृतसारे उमामहेश्वरसंवादान्तर्गत- धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

జప గణన: 0/108