સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

પઞ્ચદેવૈઃ કૃતા ગણેશસ્તુતિઃ

पञ्चदेवैः कृता गणेशस्तुतिः
રચયિતા: પારંપરિક વાચન સંખ્યા: 4
23px
श्रीगणेशाय नमः । पञ्चदेवा ऊचुः ॥ नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥१ ॥ हेरंबाय नमस्तुभ्यं ढुण्ढिराजाय ते नमः । विनायकाय देवाय ब्रह्मणां नायकाय च ॥ २॥ लम्बोदराय सिद्धेश गजाननधराय च । शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ ३ ॥ लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप । अनन्तमहिमाधार धरणीधर ते नमः ॥ ४ ॥ नमो मायामयायैव मायाहीनाय ते नमः । मोहदाय नमस्तुभ्यं मोहहन्त्रे नमो नमः ॥ ५ ॥ पञ्चभूतमयायैव पञ्चभूतधराय च । इन्द्रियाणां चाधिपायेन्द्रियज्ञानप्रकारिणे ॥ ६ ॥ अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः । अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥ ७ ॥ प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे । चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥ ८ ॥ विज्ञानाय च विज्ञानपतये द्वन्द्वधारिणे । विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥ ९ ॥ आनन्दाय नमस्तुभ्यमानन्दपतये नमः । आनन्दानन्ददात्रे च कारणाय नमो नमः ॥ १० ॥ चैतन्याय च यत्नाय चेतनाधारिणे नमः । चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥ ११ ॥ बिन्दुमात्राय बिन्दूनां पतये प्राकृताय च । भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥ १२ ॥ सोऽहंमात्राय शून्याय शुन्याधाराय देहिने । शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥ १३ ॥ ज्ञानाय बोधनाथाय बोधानां बोधकारिणे । मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥ १४ ॥ विदेहाय नमस्तुभ्यं विदेहाधारकाय च । विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः ॥ १५ ॥ नानाभेदधरायैव चैकानेकादिमूर्तये । असत्स्वानन्दरूपाय शक्तिरूपाय ते नमः ॥ १६ ॥ अमृताय सदाखण्डभेदाभेदविवर्जित । सदात्मरूपिणे सूर्यरूपाधाराय ते नमः ॥ १७ ॥ सत्यासत्यविहीनाय समस्वानन्दमूर्तये । आनन्दानन्दकन्दाय विष्णवे ते नमो नमः ॥ १८ ॥ अव्यक्ताय परेशाय नेतिनेतिमयाय च । शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥ १९ ॥ संयोगेन च सर्वत्र समाधौ रूपधारिणे । स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने ॥ २०॥ अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे । मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥ २१ ॥ शान्तिदाय नमस्तुभ्यं पूर्णशान्तिप्रदाय ते । योगानां पतये चैव योगरूपाय ते नमः ॥ २२ ॥ गणेशाय परेशाय ह्यपारगुणकीर्तये । योगशान्तिप्रदात्रे च महायोगाय ते नमः ॥ २३ ॥ गुणान्तं न ययुर्यस्य वेदाद्या वेदकारकाः । स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥ २४ ॥ तेन वै भगवान् साक्षाच्चिन्तामणिगजाननः । प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥ २५ ॥ इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे । गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥ २६ ॥ श्रीगणेश उवाच । पञ्चदेवा महाभागाः प्रसन्नो भवतां स्तवैः । तपसा च तथा भक्त्या वाञ्छितं ब्रूत वै वरम् ॥ २७ ॥ भवत्कृतमिदं स्तोत्रं परमाह्लादवर्धनम् । मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥ २८ ॥ यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक् । पुत्रपौत्रयुतः श्रीमानन्ते स्वानन्दमाप्नुयात् ॥ २९ ॥ सप्तवारं पठेन्नित्यमेकविंशतिवासरम् । कारागृहगतो वाऽपि मुच्यते बन्धनात् स्वयम् ॥ ३० ॥ एककालं द्विकालं वा त्रिकालमपि यः पठेत् । स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥ ३१ ॥ मारणोच्चाटनादिभ्य एकविंशतिवारतः । तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥ ३२ ॥ धनधान्यादिकं सर्वमारोग्यं पशुवर्धनम् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ३३ ॥ इति पञ्चदेवैः कृता गणेशस्तुतिः
પાઠ જપ: 0/108