সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

প্রকৃতিপুরুষাভ্যাং কৃতা গণেশস্তুতিঃ

प्रकृतिपुरुषाभ्यां कृता गणेशस्तुतिः
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 3
23px

 गणेशस्तुतिः

श्रीगणेशाय नमः । प्रकृतिपुरुषावूचतुः । नमस्ते गणनाथाय स्वसंवेद्यमयाय ते । निराकारस्वरूपा वै शुण्डा यस्य विराजते ॥ ३१॥ यस्य देहश्च साकारः कण्ठाधः परिकथ्यते । अभेद एतयोर्जातस्तेन त्वं वै गजानन ॥ ३२॥ चतुर्विधं निजानन्दाद्वेदेषु कथितं भवेत् । एकमव्यक्तरूपं च द्वितीयं समरूपकम् ॥ ३३॥ तृतीय सत्स्वरूपं च चतुर्थं यत्सदा ह्यसत् । चतुर्हस्तस्वरूपं ते तेन त्वं वै चतुर्भुजः ॥ ३४॥ तवोदरे स्थितं सर्वं तेन लम्बोदरः स्मृतः । मायामायिकरूपं च द्वौ पादौ द्विविधं च ते ॥ ३५॥ एते सर्वे गणा ढुण्ढे त्वदीया नात्र संशयः । गणनाथोऽसि तेन त्वं नाम्ना ख्यातश्च सर्वदा ॥ ३६॥ एतादृशो निजात्मासावावयोर्ध्यान आवभौ । स्वसंवेद्यतया ध्यातो भक्तानुग्रहकारकः ॥ ३७॥ भक्ताभिमानभावेन देहधारी स्वयं ह्यभूत् । एतैश्च लक्षणैर्युक्तो गणेशो नामधारकः ॥ ३८॥ धन्यं सर्वं कृतं स्वामिन् येन त्वं देहवानभूः । स्वानन्दवासभृत साक्षाद् हृदि नित्यं स्थिरो भव ॥ ३९॥ नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । भक्तानां वै ह्यभक्तानां विनकर्त्रे नमोऽस्तु ते ॥ ४०॥ कर्मणां फलदात्रे च ज्ञानानां सिद्धिदायिने । अमेयशक्तये तुभ्यं सर्वाधाराय ते नमः ॥ ४१॥ किं कर्तव्यं दयासिधो तदेवाज्ञापय प्रभो । तव भक्तिं महातीव्रां देहि नौ गणनायक ॥ ४२॥ एवं स्तुतिं समाकार्ण्य परितुष्टो गणाधिपः । मेघगम्भीरया वाचा हर्षयन्नब्रवीत्तदा ॥ ४३॥ श्रीगणेश उवाच । साधु साधु महाभागौ यदुक्तं स्तोत्रमुत्तमम् । मम प्रीतिकरं सर्वकामदं प्रभविष्यति ॥ ४४॥ धर्मार्थकाममोक्षाणां दायकं पुष्टिवर्धनम् । कारागृहस्थितानां च मोचकं लक्षपाठतः ॥ ४५॥ मारणोच्चाटनादीनां नाशकं तत्तथैव च । एकविंशतिवारं यः एकविंशद्दिनावधि ॥ ४६॥ पठेत्तु यदि वैभक्त्या स ईप्सितफलं लभेत् । ब्रह्मभूयकरं चैतन्निष्कामपठनाद्भवेत् ॥ ४७॥ भवतोस्तपसा तुष्टः स्तोत्रेणानेन भावतः । प्रीतो दास्यामि सम्पूर्णं भवद्भ्यामीप्सितं च यत् ॥ ४८॥ बिन्दुमात्रस्वरूपेण यत्स्थितं ब्रह्म शाश्वतम् । तस्माच्चतुर्विधं विश्वं प्रकटं सम्भविष्यति ॥ ४९॥ प्रकर्षेण च सर्वेषां कृतिस्तस्माद्विनिःसृता । प्रकृतिस्तेन ते नाम भविष्यति जनेष्विदम् ॥ ५०॥ सृष्ट्वा चतुर्विधं विश्वं बन्धहीना भविष्यसि । मदीयां भक्तिमचलां प्रकृते प्राप्स्यसि ध्रुवम् ॥ ५१॥ जनास्त्वदीयभक्तिं ये करिष्यन्ति सकामतः । निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने ॥ ५२॥ चतुर्विधेप्ययं शेते पुरे तेनैव पूरुषः । सोऽहम्मात्रात्मको भावी नाना सर्वत्र तिष्ठतु ॥ ५३॥ सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति । बिम्बबिम्बितभावेन प्रकृतौ मोहितः सदा ॥ ५४॥ स्वयं मोहविहीनः स सोऽहंमात्रात्मकः सदा । मत्प्रसादाद्भवेन्नित्यं ब्रह्म सोऽहं सुखात्मकः ॥ ५५॥ मदीया भक्तिरचला भविष्यति तवापि च । तया बन्धविहीनस्त्वं तथा मान्यो भविष्यसि ॥ ५६॥ तव भक्तिं करिष्यन्ति जना भावेन संयुताः । तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ॥ ५७॥ ब्रह्मभूयपदं चैव दास्यसे योगसेवया । साक्षात्पुरुषरूपस्त्वं सर्वसत्तात्मको भव ॥ ५८॥ प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो । तेनेयं सर्वसूर्विश्वं सृजिष्यति न संशयः ॥ ५९॥ सृष्ट्वा चतुर्विधं सर्वं पालनं हरणं तथा । कर्तव्यं कालयोगेन करणीयमिदं स्मृतम् ॥ ६०॥ सर्वेषां प्रकृतिर्माता पिता पुरुष उच्यते । नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः ॥ ६१॥ इत्युक्त्वा गणराजस्तु तत्रैवान्तरधीयत । प्रकृतिः पुरुषश्चैव यथाज्ञप्तौ प्रचक्रतुः ॥ ६२॥ इति प्रकृतिपुरुषाभ्यां कृता  गणेशस्तुतिः 
পাঠ জপ: 0/108