સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

દેવીપુરાણાન્તર્ગત વિનાયકસ્તુતિઃ

देवीपुराणान्तर्गत विनायकस्तुतिः
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px

विनायकस्तुतिः

विष्णुरुवाच स्तोष्ये सुरारिदमनं दमनं रिपूणां वैरिहाणं गजवक्त्रमुदन्तशोभम् । तं भाति कुन्दहिमशङ्खशशाङ्कदन्तं ताम्राभकान्तिवपुषं रुचिरारुणाभम् ॥ १॥ तां भस्मव्यापितजगच्छशिसूर्यमार्गं गां गच्छतीव मेरुसुरारिहन्तुम् । तमहं नमामि भगवन् प्रमथेशजातं तर्जन् सुरारिभयदं दनुदर्पहन्तुम् ॥ २॥ ताराभमौक्तिककृतं वनमालग्रीवं वाराहवक्त्रदृढदंष्ट्र इवांशुशोभम् । भृङ्गोपगीतमदगण्डसुसेव्यमानं तमहं नमामि वरदं वरदायकं तम् ॥ ३॥ तारारिणं प्रमथभ्रातृवरं सुरेशं var सुवेशं शम्भोर्द्वितीय इव मूर्तिसुचारुवेशम् । नानाविचित्ररूपशोभितचारुहारं जम्भकान्तकं च तमहं महाप्रमाणम् ॥ ४॥ नागेन्द्रभोगकृतशेखरमूर्द्धिमानं लम्बन्तचारुचमरं रणकार्यवीरम् । स्तम्भन्तशत्रुवनकान्तमहान्तमन्तं तं मातृयोगिगणमर्चितसुष्टमिष्टम् ॥ ५॥ टङ्कारहाररचनादितघण्टशब्दं हुङ्कारकारवरनादघटाकलापम् । पङ्काङ्करेणुरजपङ्कजचारुकवर्यं चामीकराखचितमरकतसंसेव्यमानम् ॥ ६॥ लम्बन्तकर्णपर्णशङ्खञ्च सुचारुचामरं रक्तास्तनेत्रकर्णायतचारुतुङ्गम् । गम्भीरगर्जितमहारवमेघशब्दं दण्डाङ्कुशपरशुमेखलसूत्रधारम् ॥ ७॥ राराजते सकलपर्वतसानुकण्ठं चण्डातिनूपुरध्वनिमुखं विश्रान्तम् । तस्मै नमामि सततं जगतो हिताय विघ्नेश्वराय वरदाय वरप्रदाय ॥ ८॥ वामैकहस्तसततं कृतलड्डुकाय सिद्धार्थकं सुरभिगन्धविलेपनाय । ब्रह्मेन्द्रचन्द्रवसुशङ्करसंस्तुताय गङ्गाजलौघ इव दानमहाप्रदाय ॥ ९॥ इच्छार्थमीहितफलप्रदाय शिवाय सम्पूजयस्व मम देवशुभं शुभाय । विघ्नं विनाशाय प्रभो सुरसिद्धशत्रुं शक्रस्य व्याधितदिवस्य शुभं प्रयच्छ ॥ १०॥ स्तुत्वा तु शक्तितनयं प्रयतेन विष्णो स्तुष्टः समीहितवरं ददते च तस्य । विष्णोस्तवार्थमिदं शैलवरं हरेण सम्प्रेषितो रिपुहराय पुरन्दरस्य ॥ ११॥ मयोच्यतां वद भवान् किमहं करोमि त्रैलोक्यनिर्जितरिपुं त्वमहं ददामि । स्तुत्वैवं तदा देवं विष्णुना प्रभविष्णुना तुतुष्ट वरदीभूतो विघ्नस्य निधनाय च ॥ १२॥ इति श्रीदेवीपुराणे विनायकस्तवः
પાઠ જપ: 0/108