सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीस्कन्दपुराणे श्रीचामुण्डास्तोत्रम्

stotra-6e2096d3
रचयिता: पारंपरिक पाठ संख्या: 5
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

श्रीचामुण्डास्तोत्रम्

  श्रीमार्कण्डेय उवाच ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् । गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥ १॥ दिव्यं वर्षशतं यावज्जातमात्रेण भारत । तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना ॥ २॥ ततस्तुष्टो महादेवो वैनतेयं मनोजवम् । उवाच परमं वाक्यं विनतानन्दवर्धनम् ॥ ३॥ प्रसन्नस्ते महाभाग वरं वरय सुव्रत । दुर्लभं त्रिषु लोकेषु ददामि तव खेचर ॥ ४॥ गरुड उवाच - इच्छामि वाहनं विष्णोर्द्विजेन्द्रत्वं सुरेश्वर । प्रसन्ने त्वयिमेसर्वम्भवत्विति मतिर्मम ॥ ५॥ श्रीमहेश उवाच - दुर्लभः प्राणिनान्तातयोवरः प्रार्थितोऽनघ । देवदेवस्यवहनं द्विजेन्द्रत्वं सुदुर्ल्लभम् ॥ ६॥ नारायणोदरे सर्वं त्रैलोक्यं सचराचरम् । त्वया स कथमूह्यतेदेवदेवो जगद्गुरुः ॥ ७॥ तेनैव स्थापितश्चेन्द्रस्त्रैलोक्ये सचराचरे । कथमन्यस्य चेन्द्रत्वं भवतीति सुदुर्लभम् ॥ ८॥ तथापि ममवाक्येनवाहनन्त्वम्भविष्यसि । शङ्खचक्रगदापाणेर्वहतोऽपि जगत्त्रयम् ॥ ९॥ इन्द्रस्त्वं पक्षिणां मध्येभविष्यसिनसंशयः । इति दत्त्वावरन्तस्मान्तर्धानङ्गतोहरः ॥ १०॥ ततो गते महादेवेह्यरुणस्यानुजो नृप । आराधयामास तदा चामुण्डां मुण्डमण्डिताम् ॥ ११॥ श्मशानवासिनीं देवीं बहुभूतसमन्विताम् । योगिनीं योगसंसिद्धां वसामांसासवप्रियाम् ॥ १२॥ ध्यातमात्रा तु तेनैवप्रत्यक्षाह्यभवत्तदा । जालन्धरे च या सिद्धिः कौलीने उड्डिशे परे ॥ १३॥ समग्रा सा भृगुक्षेत्रे सिद्धक्षेत्रे तु संस्थिता । चामुण्डा तत्र सा देवी सिद्धक्षेत्रे व्यवस्थिता ॥ १४॥ संस्तुता ऋषिभिर्द्देवैर्योगक्षेमार्थसिद्धये । विनताऽऽनन्दजननस्तत्र तां योगिनीं नृप । भक्त्या प्रसादयामास स्तोत्रैर्वैदिकलौकिकैः ॥ १५॥ गरुड उवाच - या सा क्षुत्क्षामकण्ठा नवरुधिरमुखा प्रेतपद्मासनस्था भूतानां वृन्दवृन्दैः पितृवननिलया क्रीडते शूलहस्ता । शस्त्रध्वस्तप्रवीरव्रजरुधिरगलन्मुण्डमालोत्तरीया देवी श्रीवीरमाता विमलशशिनिभा पातु वश्चर्ममुण्डा ॥ १६॥ या सा क्षुत्क्षामकण्ठा विकृतभयकरी त्रासिनी दुष्कृतानां मुञ्चज्ज्वालाकलापैर्द्दशनकसमसैः खादति प्रेतमांसम् । पिङ्गोद् र्ध्वोद् बद्धजूटारविसदृशतनुर्व्याघ्रचर्मोत्तरीया दैत्येन्द्रैर्यक्षरक्षोऽरसुरनमिता पातु वश्चर्ममुण्डा ॥ १७॥ या सा दोर्द्दण्डचण्डैर्डमरुरणरणाटोपटङ्कारघण्टैः कल्पान्तोत्पातवाताहतपटुपटहैर्वल्गते भूतमाता । क्षुत्क्षामा शुष्ककुक्षिः खरतरनखरैः क्षोदति प्रेतमांसं मुञ्चन्ती चाट्टहासं घुरघुरितरवा पातु वश्चर्ममुण्डा ॥ १८॥ या सा निम्नोदराभा विकृतभवभयत्रासिनी शूलहस्ता चामुण्डा मुण्डघाता रणरुणितरणझल्लरीनादरम्या । त्रैलोक्यं त्रासयन्ति ककहकहकहैर्घोररावैरनेकैर्नृत्यन्ती मातृमध्ये पितृवननिलया पातु वश्चर्ममुण्डा ॥ १९॥ या धत्ते विश्वमखिलं निजांशेन महोज्ज्वला । कनकप्रसवे लीना पातु मां कनकेश्वरी ॥ २०॥ हिमाद्रिसम्भवा देवी दयादर्शितविग्रहा । शिवप्रिया शिवे सक्ता पातु मां कनकेश्वरी ॥ २१॥ अनादिजगदादिर्या रत्नगर्भा वसुप्रिया । रथाङ्गपाणिना पद्मा पातु मां कनकेश्वरी ॥ २२॥ सावित्री या च गायत्री मृडानी वागथेन्दिरा । स्मर्तृणां या सुखं दत्ते पातु मां कनकेश्वरी ॥ २३॥ सौम्यासौम्यैः सदा रूपैः सृजत्यवति या जगत् । परा शक्तिः परा बुद्धिः पातु मां कनकेश्वरी ॥ २४॥ ब्रह्मणः सर्गसमये सृज्यशक्तिः परा तु या । जगन्माया जगद्धात्री पातु मां कनकेश्वरी ॥ २५॥ विश्वस्य पालने विष्णोर्या शक्तिः परिपालिता । मदनोन्मादिनी मुख्या पातु मां कनकेश्वरी ॥ २६॥ विश्वसंलयने मुख्या या रुद्रेण समाश्रिता । रौद्री शक्तिः शिवाऽनन्ता पातु मां कनकेश्वरी ॥ २७॥ कैलाससानुसंरूढ कनकप्रसवेशया । भस्मकाभिहृता पूर्वं पातु मां कनकेश्वरी ॥ २८॥ पतिप्रभावमिच्छन्ती त्रस्यन्ती या विना पतिम् । अबला त्वेकभावा च पातु मां कनकेश्वरी ॥ २९॥ विश्वसंरक्षणे सक्ता रक्षिता कनकेन या । आ ब्रह्मस्तम्बजननी पातु मां कनकेश्वरी ॥ ३०॥ ब्रह्मविष्ण्वीश्वराः शक्त्या शरीरग्रहणं यया । प्रापिताः प्रथमा शक्तिः पातु मां कनकेश्वरी ॥ ३१॥ श्रुत्वा तु गरुडेनोक्तं देवीवृत्तचतुष्टयम् । प्रसन्ना सम्मुखी भूत्वा वाक्यमेतदुवाच ह ॥ ३२॥ श्रीचामुण्डोवाच - प्रसन्ना ते महासत्त्व वरं वरय वाञ्छितम् । ददामि ते द्विजश्रेष्ठ यत्ते मनसि रोचते ॥ ३३॥ गरुड उवाच - अजरश्चामरश्चैव अधृष्यश्च सुरासुरैः । तव प्रसादाच्चैवान्यैरजेयश्च भवाम्यहम् ॥ ३४॥ त्वयाचाऽत्र सदा देवि स्थातव्यं तीर्थसन्निधौ । मार्कण्डेय उवाच - एवं भविष्यतीत्युक्त्वा देवी देवैरभिष्टुता ॥ ३५॥ जगामाकाशमाविश्य भूतसङ्घसमन्विता । यदा लक्ष्म्या नृपश्रेष्ठ स्थापितं पुरमुत्तमम् ॥ ३६॥ अनुमान्य तदा देवीं कृतं तस्यां समर्पितम् । लक्ष्मीरुवाच - रक्षणाय मया देवि योगक्षेमार्थसिद्धये ॥ ३७॥ मातृवत्प्रतिपाल्यं ते सदा देवि पुरं मम । गरुडोऽपि ततः स्नात्वा सम्पूज्य कनकेश्वरीम् ॥ ३८॥ तीर्थं तत्रैव संस्थाप्य जगामाकाशमुत्तमम् । तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ॥ ३९॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते । गन्धपुष्पादिभिर्यस्तु पूजयेत्कनकेश्वरीम् ॥ ४०॥ तस्य योगैश्वर्यसिद्धिर्योगपीठेषु जायते । मृतो योगेश्वरं लोकं जयशब्दादिमङ्गलैः । स गच्छेन्नाऽत्र सन्देहो योगिनीगणसंयुतः ॥ ४१॥ ॥ श्रीस्कान्दे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्ये चामुण्डा स्तोत्रम् ॥
पाठ जप: 0/108