सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

सङ्कष्टहरणं गणेशाष्टकम् अथवा वक्रतुण्डस्तोत्रम्

stotra-6db74d40
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

सङ्कष्टहरणं गणेशाष्टकम् अथवा वक्रतुण्डस्तोत्रम्

श्रीगणेशाय नमः । ॐ अस्य श्रीसङ्कष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता, संकष्टहरणार्थ जपे विनियोगः । ध्यानम् ॐ ॐ ॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं त्रैगुण्यातीतनीलं कलयति मनसस्तेजसिन्दूरमूर्तिम् । योगीन्द्रैर्ब्रह्मरन्ध्रैः सकलगुणमयं श्रीहरेन्द्रेण सङ्गं गं गं गं गं गणेशं गजमुखमभितो व्यापकं चिन्तयन्ति ॥ १॥ वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्तशुण्डं क्रं क्रं क्रं क्रोधमुद्रादलितरिपुबलं कल्पवृक्षस्य मूले । दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं धं धं धं धारयन्तं धनदमतिघियं सिद्धिबुद्धिद्वितीयम् ॥ २॥ तुं तुं तुं तुङ्गरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान् क्लीं क्लीं क्लींकारनाथं गलितमदमिलल्लोलमत्तालिमालम् । ह्रीं ह्रीं ह्रींकारपिङ्गं सकलमुनिवरध्येयमुण्डं च शुण्डं श्रीं श्रीं श्रीं श्रीं श्रयन्तं निखिलनिधिकुलं नौमि हेरम्बबिम्बम् ॥ ३॥ लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनां शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम् । डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च ॥ ४॥ हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकणं कृपालुं ध्येयं सूर्यस्य बिम्बं ह्युरसि च विलसत् सर्पयज्ञोपवीतम् । स्वाहा हुं फट् नमोऽन्तैष्ठठठठसहितैः पल्लवैः सेव्यमानं मन्त्राणां सप्तकोटिप्रगुणितमहिमाधारमीशं प्रपद्ये ॥ ५॥ पूर्वं पीठं त्रिकोणं तदुपरिरुचिरं षट्कपत्रं पवित्रं यस्योर्ध्वं शुद्धरेखा वसुदल कमलं वा स्वतेजश्चतुस्रम् । मध्ये हुङ्कार बीजं तदनु भगवतः स्वाङ्गषट्कं षडस्रे अष्टौ शक्तीश्च सिद्धीर्बहुलगणपतिर्विष्टरश्चाऽष्टकं च ॥ ६॥ धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रामहेशम् । एवं यो भक्तियुक्तो जपति गणपतिं पुष्पधूपाऽक्षताद्यै र्नैवेद्यैर्मोदकानां स्तुतियुतविलसद्गीतवादित्रनादैः ॥ ७॥ राजानस्तस्य भृत्या इव युवतिकुलं दासवत् सर्वदास्ते लक्ष्मीः सर्वाङ्गयुक्ता श्रयति च सदनं किङ्कराः सर्वलोकाः । पुत्राः पुत्र्यः पवित्रा रणभुवि विजयी द्यूतवादेऽपि वीरो यस्येषो विघ्नराजो निवसति हृदये भक्तिभाग्यस्य रुद्रः ॥ ८॥ ॥ इति सङ्कष्टहरणं गणेशाष्टकं अथवा वक्रतुण्डस्तोत्रं सम्पूर्णम् ॥
पाठ जप: 0/108