सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीनरसिंहपुराणे श्रीगणाध्यक्षस्तोत्रम् 

stotra-6da37188
रचयिता: पारंपरिक पाठ संख्या: 1
23px

 ईक्ष्वाकुकृतम्  श्रीगणाध्यक्षस्तोत्रम्

भरद्वाज उवाच कथं स्तुतो गणाध्यक्षस्तेन राज्ञा महात्मना । यथा तेन तपस्तप्तं तन्मे वद महामते ॥ १॥ सूत उवाच चतुर्थीदिवसे राजा स्नात्वा त्रिषवणं द्विज । रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः ॥ २॥ सुरक्तकुसुमैर्हृद्यैर्विनायकमथार्चयत् । रक्तचन्दनतोयेन स्नानपूर्वं यथाविधि ॥ ३॥ विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयत् । ततोऽसौ दत्तवान् धूपमाज्ययुक्तं सचन्दनम् । नैवेद्यं चैव हारिद्रं गुडखण्डघृतप्लुतम् ॥ ४॥ एवं सुविधिना पूज्य विनायकमथास्तवीत् । इक्ष्वाकुरुवाच नमस्कृत्य महादेवं स्तोष्येऽहं तं विनायकम् ॥ ५॥ महागणपतिं शूरमजितं ज्ञानवर्धनम् । एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ॥ ६॥ त्र्यक्षं त्रिशूलहस्तं च रक्तनेत्रं वरप्रदम् । आम्बिकेयं शूर्पकर्णं प्रचण्डं च विनायकम् ॥ ७॥ आरक्तं दण्डिनं चैव वह्निवक्त्रं हुतप्रियम् । अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥ ८॥ तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम् । मदमत्तं विरूपाक्षं भक्तिविघ्ननिवारकम् ॥ ९॥ सूर्यकोटिप्रतीकाशं भिन्नाञ्जनसमप्रभम् । बुद्धं सुनिर्मलं शान्तं नमस्यामि विनायकम् ॥ १०॥ नमोऽस्तु गजवक्त्राय गणानां पतये नमः । मेरुमन्दररूपाय नमः कैलासवासिने ॥ ११॥ विरूपाय नमस्तेऽस्तु नमस्ते ब्रह्मचारिणे । भक्तस्तुताय देवाय नमस्तुभ्यं विनायक ॥ १२॥ त्वया पुराण पूर्वेषां देवानां कार्यसिद्धये । गजरूपं समास्थाय त्रासिताः सर्वदानवाः ॥ १३॥ ऋषीणां देवतानां च नायकत्वं प्रकाशितम् । यतस्ततः सुरैरग्रे पूज्यसे त्वं भवात्मज ॥ १४॥ त्वामाराध्य गणाध्यक्षं सर्वज्ञं कामरूपिणम् । कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः ॥ १५॥ रक्ताम्बरधरो भूत्वा चतुर्थ्यामर्चयेज्जपेत् । त्रिकालमेककालं वा पूजयेन्नियताशनः ॥ १६॥ राजानं राजपुत्रं वा राजमन्त्रिणमेव वा । राज्यं च सर्वविघ्नेश वशं कुर्यात् सराष्ट्रकम् ॥ १७॥ अविघ्नं तपसो मह्यं कुरु नौमि विनायक । मयेत्थं संस्तुतो भक्त्या पूजितश्च विशेषतः ॥ १८॥ यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् । तत्फलं पूर्णमाप्नोति स्तुत्वा देवं विनायकम् ॥ १९॥ विषमं न भवेत् तस्य न च गच्छेत् पराभवम् । न च विघ्नो भवेत् तस्य जातो जातिस्मरो भवेत् ॥ २०॥ य इदं पठते स्तोत्रं षड्भिर्मासैर्वरं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ २१॥ सूत उवाच एवं स्तुत्वा पुरा राजा गणाध्यक्षं द्विजोत्तम । तापसं वेषमास्थाय तपश्चर्तुं गतो वनम् ॥ २२॥ उत्सृज्य वस्त्रं नागत्वक्सदृशं बहुमूल्यकम् । कठिनां तु त्वचं वाक्षीं कट्यां धत्ते नृपोत्तमः ॥ २३॥ तथा रत्नानि दिव्यानि वलयानि निरस्य तु । अक्षसूत्रमलङ्कारं फलैः पद्मस्य शोभनम् ॥ २४॥ तथोत्तमाङ्गे मुकुटं रत्नहाटकशोभितम् । त्यक्त्वा जटाकलापं तु तपोऽर्थे विभृयान्नृपः ॥ २५॥ इति । श्रीनरसिंहपुराणे श्रीगणाध्यक्षस्तोत्रम्
पाठ जप: 0/108