सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

नरसिंहपुराणे मृत्युञ्जयस्तोत्रम्

stotra-6abc98c1
रचयिता: पारंपरिक पाठ संख्या: 1
23px

मृत्युञ्जयस्तोत्रम्

मार्कण्डेय उवाच  नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ १॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ २॥ वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ३॥ शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ४॥ वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् । माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ५॥ पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६॥ भूतात्मानं महात्मानं जगद्योनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ७॥ सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ८॥ इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः । अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ ९॥ इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ १०॥ मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ ११॥ य इदं पठते भक्त्या त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १२॥ हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । सञ्चिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥ १३॥ इति श्रीनरसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नामस्तोत्रम् 
पाठ जप: 0/108