સનાતન સ્તોત્ર સંગ્રહ
શ્રીગણેશ
સનાતન દેવ

.. ગણેશાષ્ટોત્તરશતનામાવલિઃ ..

॥ गणेशाष्टोत्तरशतनामावलिः ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px

॥ गणेशाष्टोत्तरशतनामावलिः ॥ 

ॐ गजाननाय नमः । ॐ गणाध्यक्षाय नमः । ॐ विघ्नराजाय नमः । ॐ विनायकाय नमः । ॐ द्वैमातुराय नमः । ॐ सुमुखाय नमः । ॐ प्रमुखाय नमः । ॐ सन्मुखाय नमः । ॐ कृतिने नमः । ९ ॐ ज्ञानदीपाय नमः । ॐ सुखनिधये नमः । ॐ सुराध्यक्षाय नमः । ॐ सुरारिभिदे नमः । ॐ महागणपतये नमः । ॐ मान्याय नमः । ॐ महन्मान्याय नमः । ॐ मृडात्मजाय नमः । ॐ पुराणाय नमः । १८ ॐ पुरुषाय नमः । ॐ पूष्णे नमः । ॐ पुष्करिणे नमः । ॐ पुण्यकृते नमः । ॐ अग्रगण्याय नमः । ॐ अग्रपूज्याय नमः । ॐ अग्रगामिने नमः । ॐ मन्त्रकृते नमः । ॐ चामीकरप्रभाय नमः । २७ ॐ सर्वस्मै नमः । ॐ सर्वोपास्याय नमः । ॐ सर्वकर्त्रे नमः । ॐ सर्वनेत्रे नमः । ॐ सर्वसिद्धिप्रदाय नमः । ॐ सर्वसिद्धाय नमः । ॐ सर्ववन्द्याय नमः । ॐ महाकालाय नमः । ॐ महाबलाय नमः । ३६ ॐ हेरम्बाय नमः । ॐ लम्बजठराय नमः । ॐ ह्रस्वग्रीवाय नमः । ॐ महोदराय नमः । ॐ मदोत्कटाय नमः । ॐ महावीराय नमः । ॐ मन्त्रिणे नमः । ॐ मङ्गलदाय नमः । ॐ प्रथमाचार्याय नमः । ४५ ॐ प्राज्ञाय नमः । ॐ प्रमोदाय नमः । ॐ मोदकप्रियाय नमः । ॐ धृतिमते नमः । ॐ मतिमते नमः । ॐ कामिने नमः । ॐ कपित्थपनसप्रियाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ ब्रह्मरूपिणे नमः । ५४ ॐ ब्रह्मविदे नमः । ॐ ब्रह्मवन्दिताय नमः । ॐ जिष्णवे नमः । ॐ विष्णुप्रियाय नमः । ॐ भक्तजीविताय नमः । ॐ जितमन्मथाय नमः । ॐ ऐश्वर्यदाय नमः । ॐ गुहज्यायसे नमः । ॐ सिद्धसेविताय नमः । ६३ ॐ विघ्नकर्त्रे नमः । ॐ विघ्नहर्त्रे नमः । ॐ विश्वनेत्रे नमः । ॐ विराजे नमः । ॐ स्वराजे नमः । ॐ श्रीपतये नमः । ॐ वाक्पतये नमः । ॐ श्रीमते नमः । ॐ शृङ्गारिणे नमः । ७२ ॐ श्रितवत्सलाय नमः । ॐ शिवप्रियाय नमः । ॐ शीघ्रकारिणे नमः । ॐ शाश्वताय नमः । ॐ शिवनन्दनाय नमः । ॐ बलोद्धताय नमः । ॐ भक्तनिधये नमः । ॐ भावगम्याय नमः । ॐ भवात्मजाय नमः । ८१ ॐ महते नमः । ॐ मङ्गलदायिने नमः । ॐ महेशाय नमः । ॐ महिताय नमः । ॐ सत्यधर्मिणे नमः । ॐ सदाधाराय नमः । ॐ सत्याय नमः । ॐ सत्यपराक्रमाय नमः । ॐ शुभाङ्गाय नमः । ९० ॐ शुभ्रदन्ताय नमः । ॐ शुभदाय नमः । ॐ शुभविग्रहाय नमः । ॐ पञ्चपातकनाशिने नमः । ॐ पार्वतीप्रियनन्दनाय नमः । ॐ विश्वेशाय नमः । ॐ विबुधाराध्यपदाय नमः । ॐ वीरवराग्रगाय नमः । ॐ कुमारगुरुवन्द्याय नमः । ९९ ॐ कुञ्जरासुरभञ्जनाय नमः । ॐ वल्लभावल्लभाय नमः । ॐ वराभयकराम्बुजाय नमः । ॐ सुधाकलशहस्ताय नमः । ॐ सुधाकरकलाधराय नमः । ॐ पञ्चहस्ताय नमः । ॐ प्रधानेशाय नमः । ॐ पुरातनाय नमः । ॐ वरसिद्धिविनायकाय नमः । १०८

इति श्री गणेशाष्टोत्तरशतनामावली ।

 
પાઠ જપ: 0/108