सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ रुद्रयामलोत्तरतन्त्रान्तर्गतम् कुमारीकवचम् ॥

stotra-695366b0
रचयिता: पारंपरिक पाठ संख्या: 4
23px

कुमारीकवचम्

आनन्दभैरव उवाच अथातः सम्प्रवक्ष्यामि कुमारीकवचं शुभम् । त्रैलोक्यं मङ्गलं नाम महापातकनाशकम् ॥ १॥ पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः । शक्रो देवाधिपः श्रीमान् देवगुरुर्बृहस्पतिः ॥ २॥ महातेजोमयो वह्निर्धर्मराजो भयानकः । वरुणो देवपूज्यो हि जलानामधिपः स्वयम् ॥ ३॥ सर्वहर्त्ता महावायुः कुबेरः कुञ्जरेश्वरः । धराधिपः प्रियः शम्भोः सर्वे देवा दिगीश्वरः ॥ ४॥ न मेरुः प्रभुरेकायाः सर्वेशो निर्मलो द्वयोः । एतत्कवचपाठेन सर्वे भूपा धनाधिपाः ॥ ५॥

त्रैलोक्यमङ्गलकुमारीकवचम्

प्रणवो मे शिरः पातु माया सन्दायिका सती । ललाटोद्र्ध्वं महामाया पातु मे श्रीसरस्वती ॥ ६॥ कामाक्षा वटुकेशानी त्रिमूत्तिर्भालमेव मे । चामुण्डा बीजरूपा च वदनं कालिका मम ॥ ७॥ पातु मां सूर्यगा नित्यं तथा नेत्रद्वयं मम । कर्णयुग्मं कामबीजं स्वरूपोमातपस्विनी ॥ ८॥ रसनाग्रं तथा पातु वाग्देवी मालिनी मम । डामरस्था कामरूपा दन्ताग्रं कुञ्जिका मम ॥ ९॥ देवी प्रणवरूपाऽसौ पातु नित्यं शिवा मम । ओष्ठाधरं शक्तिबीजात्मिका स्वाहास्वरूपिणी ॥ १०॥ पायान्मे कालसन्दष्टा पञ्चवायुस्वरूपिणी । गलदेशं महारौद्री पातु मे चापराजिता ॥ ११॥ क्षौं बीजं मे तथा कण्ठं रुद्राणी स्वाहयान्विता । हृदयं भैरवी विद्या पातु षोडश सुस्वरा ॥ १२॥ द्वौ बाहू पातु सर्वत्र महालक्ष्मीः प्रधानिका । सर्वमन्त्रस्वरूपं मे चोदरं पीठनायिका ॥ १३॥ पार्श्वयुग्मं तथा पातु कुमारी वाग्भवात्मिका । कैशोरी कटिदेशं मे मायाबीजस्वरूपिणी ॥ १४॥ जङ्घायुग्मं जयन्ती मे योगिनी कुल्लुकायुता । सर्वाङ्गमम्बिकादेवी पातु मन्त्रार्थगामिनी ॥ १५॥ केशाग्रं कमलादेवी नासाग्रं विन्ध्यवासिनी । चिबुकं चण्डिका देवी कुमारी पातु मे सदा ॥ १६॥ हृदयं ललिता देवी पृष्ठं पर्वतवासिनी । त्रिशक्तिः षोडशी देवी लिङ्गं गुह्यं सदावतु ॥ १७॥ श्मशाने चाम्बिका देवी गङ्गागर्भे च वैष्णवी । शून्यागारे पञ्चमुद्रा मन्त्रयन्त्रप्रकाशिनी ॥ १८॥ चतुष्पथे तथा पातु मामेव वज्रधारिणी । शवासनगता चण्डा मुण्डमालाविभूषिता ॥ १९॥ पातु माने कलिङ्गे च वैखरी शक्तिरूपिणी । वने पातु महाबाला महारण्ये रणप्रिया ॥ २०॥ महाजले तडागे च शत्रुमध्ये सरस्वती । महाकाशपथे पृथ्वी पातु मां शीतला सदा ॥ २१॥ रणमध्ये राजलक्ष्मीः कुमारी कुलकामिनी । अर्द्धनारीश्वरा पातु मम पादतलं मही ॥ २२॥ नवलक्षमहाविद्या कुमारी रूपधारिणी । कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीतला ॥ २३॥ पातु मां वरदा वाणी वटुकेश्वरकामिनी इति ते कथितं नाथ कवचं परमाद्भुतम् ॥ २४॥ कुमार्याः कुलदायिन्याः पञ्चतत्त्वार्थपारग यो जपेत् पञ्चतत्त्वेन स्तोत्रेण कवचेन च ॥ २५॥ आकाशगामिनी सिद्धिर्भवेत्तस्य न संशयः ॥ २६॥ वज्रदेही भवेत् क्षिप्रं कवचस्य प्रपाठतः । सर्वसिद्धीश्वरो योगी ज्ञानी भवति यः पठेत् ॥ २७॥ विवादे व्यवहारे च सङ्ग्रामे कुलमण्डले । महापथे श्मशाने च योगसिद्धो भवेत् स च ॥ २८॥ पठित्वा जयमाप्नोति सत्यं सत्यं कुलेश्वर वशीकरणकवचं सर्वत्र जयदं शुभम् ॥ २९॥ पुण्यव्रती पठेन्नित्यं यतिश्रीमान्भवेद् ध्रुवम् सिद्धविद्या कुमारी च ददाति सिद्धिमुत्तमाम् ॥ ३०॥ पठेद्यः श‍ृणुयाद्वापि स भवेत्कल्पपादपः । भक्तिं मुक्तिं तुष्टिं पुष्टिं राजलक्ष्मीं सुसम्पदाम् ॥ ३१॥ प्राप्नोति साधकश्रेष्ठो धारयित्वा जपेद्यदि । असाध्यं साधयेद्विद्वान् पठित्वा कवचं शुभम् ॥ ३२॥ धनिनाञ्च महासौख्यधर्मार्थकाममोक्षदम् । यो वशी दिवसे नित्यं कुमारीं पूजयेन्निशि ॥ ३३॥ उपचारविशेषेण त्रैलोक्यं वशमानयेत् । पललेनासवेनापि मत्स्येन मुद्रया सह ॥ ३४॥ नानाभक्ष्येण भोज्येन गन्धद्रव्येण साधकः । माल्येन स्वर्णरजतालङ्कारेण सुचैलकैः ॥ ३५॥ पूजयित्वा जपित्वा च तर्पयित्वा वराननाम् । यज्ञदानतपस्याभिः प्रयोगेण महेश्वर ॥ ३६॥ स्तुत्वा कुमारीकवचं यः पठेदेकभावतः । तस्य सिद्धिर्भवेत् क्षिप्रं राजराजेश्वरो भवेत् ॥ ३७॥ वाञ्छार्थफलमाप्नोति यद्यन्मनसि वर्तते । भूर्जपत्रे लिखित्वा स कवचं धारयेद् हृदि ॥ ३८॥ शनिमङ्गलवारे च नवम्यामष्टमीदिने । चतुर्दश्यां पौर्णमास्यां कृष्णपक्षे विशेषतः ॥ ३९॥ लिखित्वा धारयेद् विद्वान् उत्तराभिमुखो भवन् । महापातकयुक्तो हि मुक्तः स्यात् सर्वपातकैः ॥ ४०॥ योषिद्वामभुजे धृत्वा सर्वकल्याणमालभेत् । बहुपुत्रान्विता कान्ता सर्वसम्पत्तिसंयुता ॥ ४१॥ तथाश्रीपुरुषश्रेष्ठो दक्षिणे धारयेद् भुजे । एहिके दिव्यदेहः स्यात् पञ्चाननसमप्रभः ॥ ४२॥ शिवलोके परे याति वायुवेगी निरामयः । सूर्यमण्डलमाभेद्य परं लोकमवाप्नुयात् ॥ ४३॥ लोकानामतिसौख्यदं भयहरं श्रीपादभक्तिप्रद । मोक्षार्थं कवचं शुभं प्रपठतामानन्दसिन्धूद्भवम् । पार्थानां कलिकालघोरकलुषध्वंसैकहेतुं जय । ये नाम प्रपठन्ति धर्ममतुलं मोक्षं व्रजन्ति क्षणात् ॥ ४४॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमारीकवचम् ॥
पाठ जप: 0/108