சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீகிங்கிணீஸ்தோத்ரம்

श्रीकिङ्किणीस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

श्रीकिङ्किणीस्तोत्रम्

किं किं दुःखं सकलजननि क्षीयते न स्मृतायाम् । का का कीर्तिः कुलकमलिनी प्राप्यते नार्चितायाम् ॥ १॥ किं किं सौख्यं सुरवर नुते प्राप्यते न स्तुतायाम् । कं कं योगन्त्वयि न तनुते चित्तमालम्बितायाम् ॥ २॥ स्मृता भवभयध्वंसि पूजितासि शुभङ्करि । स्तुता त्वं वाञ्छितां देवि ददासि करुणाकरे ॥ ३॥ परमानन्दबोधाद्विरूपे तेजस्वरूपिणि - देववृन्दशिरोरत्न निघृष्टचरणाम्बुजे । चिद्विश्रान्ति महासत्ता मात्रे मात्रे नमोऽस्तु ते ॥ ४॥ सृष्टिस्थित्युपसंहार हेतु भूते सनातनि । गुणत्रयात्मिकाऽसि त्वं जगतः कारणेच्छया ॥ ५॥ अनुग्रहाय भूतानां गृहीत दिव्यविग्रहे । भक्तस्य मे नित्यपूजा युक्तस्य परमेश्वरि ॥ ६॥ ऐहिकामुष्मिकीसिद्धिं देहि त्रिदशवन्दिते । तापत्रयपरिम्लान भाजनं त्राहि मां शिवे ॥ ७॥ नान्यं वदामि न श‍ृणोमि न चिन्तयामि । नान्यं स्मरामि न भजामि न चाश्रयामि । भक्त्या त्वदीयचरणाम्बुजमादरेण । मां त्राहि देवि कृपया मयि देहि सिद्धिम् ॥ ८॥ अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च । यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ॥ ८॥ द्रव्यहीनं क्रियाहीनं श्रद्धामन्त्रविवर्जितम् । तत्सर्वं कृपया देवि क्षमस्व त्वं दयानिधे ॥ ९॥ यन्मया क्रियते कर्म तन्महत् स्वल्पमेव वा । तत्सर्वं च जगद्धात्रि क्षन्तव्यमयमञ्जलिः ॥ १०॥ ॥ इति श्रीकिङ्किणीस्तोत्रम् ॥
ஜப எண்ணிக்கை: 0/108