.. శ్రీలక్ష్మీహయవదన ప్రపత్తిః ..
॥ श्रीलक्ष्मीहयवदन प्रपत्तिः ॥
विशुद्धविज्ञानघनस्वरूपं विज्ञान विश्राणन बद्धदीक्षम्। दयानिधिं देहभृतां शरण्यं । देवं हयग्रीवमहं प्रपद्ये ॥१ ॥
ब्रह्माणमादौ व्यदधादमुष्मै वेदांश्च यः स्म प्रहिणोति नित्यान्। स्वगोचरज्ञान विधायिनं तं देवं हयग्रीवमहं प्रपद्ये ॥ २ ॥
उद्गीथतारस्वरपूर्वमन्तः प्रविश्य पातालतलादहार्षीत्। आनायमाकण्ठहयो य एतं देवं हयग्रीवमहं प्रपद्ये ॥ ३ ॥
प्रदाय पुत्राय पुनः श्रुतीर्यो जघान दैत्यौ नियताब्धिवासम्। हव्यैश्च कव्यैश्च तमगेमानं देवं हयग्रीवमहं प्रपद्ये ॥४ ॥
यन्नाभिनालीकदलस्थनीर बिन्दुत्थितौ तौ मधुकैटभाख्यौ। वेदापहाराय तमो रजस्तं देवं हयग्रीवमहं प्रपद्ये ॥५ ॥
काम्याय॑तां प्राप्य वरं सुरेषु गतेषु यज्ञानहरोऽर्थितो यः। अदर्शयत् काय हयं वपुस्तं देवं हयग्रीवमहं प्रपद्ये ॥६ ॥
यो जायमानं पुरुष प्रपश्यन् मोक्षार्थचिन्तापरमातनोति। विद्याधिदेवं मधुसूदनं तं देवं हयग्रीवमहं प्रपद्ये॥७ ॥
आदित्यबिम्बेऽश्ववपुर्दधत् सन् अयातयामान् निगमान् अदिक्षत्। यो याज्ञवल्क्याय दयानिधिं तं देवं हयग्रीवमहं प्रपद्ये ॥८ ॥
विज्ञानदानप्रथिता जगत्यां । व्यासादयो वागपि दक्षिणा सा। यद्वीक्षणांशाऽऽहितवैभवास्तं देवं हयग्रीवमहं प्रपद्ये ॥९ ॥
मत्स्यादिरूपाणि यथा तथैव नानाविधाचार्यवपूंषि गृह्णन्। वेदान्तविद्याः प्रचिनोति यस्तं देवं हयग्रीवमहं प्रपद्ये ॥ १० ॥
श्रेष्ठः कृतज्ञः सुलभोऽन्वितानां शान्तः सुबुद्धिः प्रथितो हि वाजी। तदाननाविष्कृतसद्गुणौघं देवं हयग्रीवमहं प्रपद्ये ॥१ १ ॥
हस्तैर्दधानं दरचक्रकोश व्याख्यानमुद्राः सितपद्मपीठम्। विद्याख्यलक्ष्म्यञ्चितवामभागं देवं हयग्रीवमहं प्रपद्ये ॥१ २ ॥
॥ इति श्रीलक्ष्मीहयवदन प्रपत्तिः ॥