સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

.. શ્રીશઠકોપપ્રપત્તિ: ..

॥ श्रीशठकोपप्रपत्ति: ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px

श्रीश्रीशपुष्कलकृपाविषयैर्यतीन्द्र पूर्णार्ययामुनमुखैः परमार्थविद्भिः। पूवैः प्रसूनसदृशैविधृतौ शिरोभि भव्यौ शठारिचरणौशरणं प्रपद्ये ॥ १॥

संचिंतने प्रशमिताश्रितसर्वपापौ प्रत्येकमुक्तिफलदाविवरागगी। सर्वप्रपन्नजनमानसराजहंसौ प्राप्यौ शठारिचरणौ शरणं प्रपद्ये ॥२॥

प्रक्षालनोदकपवित्रितताम्रपयाँ निम्नोच्चवीचितरलः सजलाशयोऽपि। मुक्तामयत्वमयते नतपारिजातौ पूतौ शठारिचरणौ शरणं प्रपद्ये ॥३॥

पद्मासहायचरणस्मरणप्रमोद संपत्तृणीकृतविरंचिशिवादिभोगौ। श्रीवैष्णवैस्सततसेव्यतयानुभूतौ प्राप्यौ शठारिचरणौ शरणं प्रपद्ये ॥ ४॥

प्रत्यूषपूषकिरणोन्मिषदंबुजाभौ तत्तत्पुमर्थपरसर्वजनाभिवंद्यौ। दुल्लँध्यभीमभववारिधितारपोतौ भव्यौ शठारिचरणौ शरणं प्रपद्ये ॥ ५॥

अनादिधारकमशेषशरीरभाजां सन्तोषकं दधिपयः प्रभृति प्रशस्तम्। शब्दादिभोगमपि यस्तु स कृष्ण एव तादृक् शठारिचरणौ शरणं प्रपद्ये ॥६॥

भूलॊकपूर्वतनपुण्यचयैर्महात्मा यः कारिनामकमहापुरुषात्मजोऽभूत्। कृष्णो यथैव वसुदेवसुतः प्रसूत- स्ताद्रक् शठारिचरणौ शरणं प्रपद्ये ॥७॥

सर्वाधिकार इति वैभवसंभवाय वेदा अनादिनिधना द्रविणोक्तिरूपाः । दिव्यप्रबन्धवपुषो यत आविरासी- त्तादृक् शठारिचरणौ शरणं प्रपद्ये ॥८॥

श्रीतिन्त्रिणी सलिलदायिजनायसर्व- मिष्टं ददाति यदधिष्ठितमूलदेशा ॥ यदर्शनं प्रणयनित्यनिवृत्तनिद्रा तादृक् शठारिचरणौ शरणं प्रपद्ये ॥६॥

सत्त्वोत्तरैः सततसेव्यपदाम्बुजेन संसारतारकदयाद्रदृगंचलेन। साम्योपयंतृमुनिना मम दर्शितौ तौ श्रीमच्छठारिचरणौ शरणं प्रपद्ये ॥ १०॥

॥  इति श्रीशठकोपप्रपत्तिः ॥

પાઠ જપ: 0/108