சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீஶாரதே³ஶஸஹஸ்ரநாமஸ்தோத்ரம்

श्रीशारदेशसहस्रनामस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

श्रीशारदेशसहस्रनामस्तोत्रम्

देव्युवाच । देवदेव महादेव गिरीश जगतां पते । सहस्रनामस्तोत्रं मे कृपयास्य वद प्रभो ॥ १॥ शिव उवाच । ब्रह्मणस्पतिसूक्तस्थं मन्त्रादिवर्णसम्भवम् । सहस्रनामस्तोत्रं तु वैदिकं ते ब्रवीम्यहम् ॥ २॥ शारदेशमन्त्रवच्च ऋष्यादिकमुदीरितम् । सरस्वतीपतिस्सोमराजस्सोमप्रपूजितः ॥ ३॥ सोमार्धशेखरस्सिद्धस्सिद्धेशस्सिद्धिनायकः । सिद्धवन्द्यस्सिद्धपूज्यस्सर्वविद्याप्रदायकः ॥ ४॥ सर्वात्मा सर्वदेवात्मा सदसद्व्यक्तिदायकः । संसारवैद्यस्सर्वज्ञस्सर्वभेषजभेषजम् ॥ ५॥ सृष्टिस्थितिलयक्रीडो यदुनाथवरप्रदः । योगगम्यो योगमयो योगशान्तिप्रदायकः ॥ ६॥ योगाचार्यो योगदाता योगब्रह्म युगाधिपः । यज्ञेश्वरो यज्ञमूर्तिर्यजमानेष्टदायकः ॥ ७॥ यज्ञकर्ता यज्ञधर्ता यज्ञभोक्ता यमीश्वरः । मयूरेशो मयूरेशपुराधीशो मयूरपः ॥ ८॥ मयूरवाहनो मायी मायिको मधुरप्रियः । मन्त्रो मन्त्रप्रियो मन्त्री मदमत्तमनोरमः ॥ ९॥ मन्त्रसिद्धिप्रदो मन्त्रज्ञानदो मुक्तिदायकः । मन्दाकिनीतीरवासी मुद्गरायुधधारकः ॥ १०॥ स्वानन्दवासी स्वानन्दनायकस्सुखदायकः । स्वस्वानन्दप्रदस्स्वस्वानन्दयोगसुलभ्यकः ॥ ११॥ स्वानन्दभवनाधीशस्स्वर्गस्वानन्दनायकः । स्वर्गस्वानन्दनिलयस्स्वर्गस्वानन्दसौख्यदः ॥ १२॥ सुखात्मा सुरसम्पूज्यस्सुरेन्द्रपददायकः । सुरेन्द्रपूजितस्सोमराजपुत्रस्सुरार्चितः ॥ १३॥ सुरेन्द्रात्मा तत्त्वमयस्तरुणस्तरुणीप्रियः । तत्पदस्तत्पदाराध्यस्तपस्वीजनसेवितः ॥ १४॥ तापसस्तापसाराध्यस्तपोमार्गप्रकाशकः । तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः ॥ १५॥ तत्त्वानां परमं तत्त्वं तारकान्तरसंस्थितः । तारकस्तारकमुखस्तारकान्तकपूजितः ॥ १६॥ तत्त्वातीतस्तत्त्वमयस्तरुणादित्यपाटलः । उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ १७॥ उच्छिष्टगण उच्छिष्ट उच्छिष्टगणनायकः । उपेन्द्रपूजितपद उपेन्द्रवरदायकः ॥ १८॥ उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणी । उमापूजितपादाब्ज उमाङ्गमलसम्भवः ॥ १९॥ उमावाञ्छितसन्दाता उमेशपरिपूजितः । उमापुत्र उमापुत्रपूज्य उमेशविग्रहः ॥ २०॥ तुरीयस्तुर्यपदगस्तुरीयमूर्तिसंयुतः । तुम्बुरुस्तोत्रसन्तुष्टस्तुरीयवेदसंस्तुतः ॥ २१॥ तुरीयात्मा तुर्यपददस्तुम्बुरुगानतोषितः । तुष्टिप्रियस्तुण्डवक्रस्तुषारहिमसन्निभः ॥ २२॥ तुरीयलोकनिलयस्तुरीयगुणधारकः । तुरीयमूर्तिसम्पूज्यः परमात्मा परात्परः ॥ २३॥ परञ्ज्योतिः परन्धाम पूर्णप्रणवविग्रहः । प्रणवः प्रणवाराध्यः प्रणवातीतविग्रहः ॥ २४॥ प्रणवास्यः परम्ब्रह्म पुरुषः प्रकृतेः परः । पुराणपुरुषः पूतः पुण्यापुण्यफलप्रदः ॥ २५॥ पद्मप्रसन्ननयनः पद्मजार्चित पादुकः । ययातिपूजनप्रीतो ययातिवरदायकः ॥ २६॥ यमीष्टवरसन्दाता यमीसौभाग्यदायकः । यमीभुक्तिमुक्तिदाता यमीज्ञानप्रदायकः ॥ २७॥ योगमुद्गलसम्पूज्यो योगमुद्गलसिद्धिदः । योगमुद्गलविज्ञाता योगमुद्गलदेशिकः ॥ २८॥ योगियोगप्रदो योगिज्ञानदो योगशास्त्रकृत् । योगभूमिधरो योगमायिको योगमार्गवित् ॥ २९॥ पद्मेश्वरः पद्मनाभः पद्मनाभप्रपूजितः । पद्मापतिः पशुपतिः पशुपाशविमोचकः ॥ ३०॥ पाशपाणिः पर्शुधरः पङ्कजासनसंस्थितः । पङ्कजासनसम्पूज्यः पद्ममालाधरः पतिः ॥ ३१॥ पन्नगाभरणः पन्नगेशः पन्नगभूषणः । पन्नगेशसुतः पन्नगेशलोकनिवासकृत् ॥ ३२॥ तमोहर्ता तामसीशस्तमोभर्ता तमोमयः । स्तव्यस्तुतिप्रियस्तोत्रं स्तोत्रराजप्रतोषितः ॥ ३३॥ स्तवराजप्रियः स्तुत्यस्तुरुष्कसङ्घनाशकः । स्तोमयज्ञप्रियः स्तोमफलदः स्तोमसिद्धिदः ॥ ३४॥ स्नानप्रियस्स्नानभर्ता स्नातकाभीष्टदायकः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ३५॥ कमण्डलुनदीतीरनिवासी कटिसूत्रभृत् । कदम्बगोलकाकारः कूष्माण्डगणनायकः ॥ ३६॥ कस्तूरितिलकोपेतः कामेशः कामपूजितः । कमण्डलुधरः कल्पः कपर्दी कलभाननः ॥ ३७॥ कारुण्यदेहः कपिलः कपिलाभीष्टदायकः । उग्र उग्रायुधधरो उग्ररुद्रप्रपूजितः ॥ ३८॥ उग्रहर्ता उग्रभर्ता उग्रशासनकारकः । उग्रपाण्ड्यसुसम्पूज्य उग्रपाण्ड्येष्टदायकः ॥ ३९॥ उम्बीजजपसुप्रीत उदीचीदिशि संस्थितः । उदङ्मुख उदग्देशनिवासी उचितप्रियः ॥ ४०॥ उचितज्ञो गणेशानो गणक्रीडो गणाधिपः । गणनाथो गजमुखो गुणेशो गणनायकः ॥ ४१॥ गुणाधारो गुणमयो गुणशान्तिप्रधारकः । गँ बीजो गँ पदाराध्यो गजाकारो गजेश्वरः ॥ ४२॥ गङ्गाधरसमाराध्यो गङ्गातीरविहारकृत् । दक्षयज्ञप्रमथनो दहराकाशमध्यगः ॥ ४३॥ दक्षो दक्षभक्तितुष्टो दक्षयज्ञवरप्रदः । देवेशो दण्डनीतिस्थो दैत्यदानवमोहनः ॥ ४४॥ दयावान् दिव्यविभवो दक्षिणामूर्तिनन्दनः । दक्षिणामूर्तिसन्ध्यातपदो देवसुरक्षकः ॥ ४५॥ दक्षिणावर्तक्षेत्रस्थो देवेन्द्रपूजनप्रियः । द्वैमातुरो द्विवदनो द्विपास्यो द्वीपरक्षकः ॥ ४६॥ द्विरदो द्विरदेशान आधारशक्ति मूर्ध्निगः । आखुकेतन आशापूरक आखुमहारथः ॥ ४७॥ आधारपीठ आधार आधाराधेयवर्जितः । आश्रिताभीष्टसन्दाता आमोदामोददायकः ॥ ४८॥ आनन्दभवनाधीश आनन्दमूर्तिधारकः । आनन्दमय आनन्द आनन्दकोशसंस्थितः ॥ ४९॥ आखुध्वज आखुवाह आनन्दातीतविग्रहः । सुधाप्रियस्सुधामूर्तिस्सुधासागरमध्यगः ॥ ५०॥ सुधापानरतस्सिन्धुदैत्यहा सिन्धुदेशगः । सामगानप्रियस्साधुस्साधुसिद्धिप्रदायकः ॥ ५१॥ सप्ताश्वपूजितपदस्सप्ताश्वरथमध्यगः ॥ सप्तलोकशरीराढ्यस्सप्तद्वीपनिवासकृत् ॥ ५२॥ समुद्रराजसम्पूज्यो नागास्यो नगजासुतः । नन्द्यो नन्दिप्रियो नादो नादमध्ये प्रतिष्ठितः ॥ ५३॥ निर्मलो निष्कलो नित्यो निरवद्यो निरञ्जनः । नारदादिसुसंसेव्यो नित्यानित्यो निरामयः ॥ ५४॥ नामपारायणप्रीतो निर्गुणो निजलोकगः । तन्नामजपसुप्रीतस्तत्त्वातत्त्व विवेकदः ॥ ५५॥ तद्भक्तजनसंसेव्यस्तदाज्ञा परिपालकः । तिन्त्रिण्यन्नप्रियतमस्तन्त्रशास्त्रविशारदः ॥ ५६॥ तन्त्रगम्यस्तन्त्रवेद्यस्तन्त्रमार्गप्रकाशकः । तन्त्राराधनसन्तुष्टस्तन्त्रसिद्धिप्रदायकः ॥ ५७॥ तन्त्रमुद्राप्रमुदितस्तन्त्रन्यासप्रतोषितः । तन्त्राभासमार्गहर्ता तन्त्रपाषण्डखण्डकः ॥ ५८॥ तन्त्रयोगमार्गगम्य ऊहापोहदुरासदः । ऊर्जस्वानूष्मलमद ऊनषोडशवार्षिकः ॥ ५९॥ ऊडापूजनसन्तुष्ट ऊहापोहविवर्जितः । उमास्नुषासुसंश्लिष्ट ऊडाबालामनोरमः ॥ ६०॥ उमेशपूजितपद उमेशाभीष्टदायकः । ऊतिप्रिय ऊतिनुत ऊतिकृद्वरदायकः ॥ ६१॥ ऊतित्रयीगानवर ऊतित्रिवेदकारणम् । ऊतिभङ्गिप्रियतमः त्राता त्रिवेदनायकः ॥ ६२॥ त्रिगुणात्मा त्रिलोकादिः त्रिवक्त्रस्त्रिपदान्वितः । त्रिमूर्तिजनकस्त्रेता त्रिकरस्त्रिविलोचनः ॥ ६३॥ त्रिमूर्तिजपसन्तुष्टः त्रिमूर्तिवरदायकः । त्रिवेणीतीरसंवासी त्रिवेणीस्नानतोषितः ॥ ६४॥ त्रिवेणीक्षेत्रनिलयः त्रिवेणीमुण्डनप्रियः । त्रिवेणीसङ्गमस्थायी त्रिवेणीक्षेत्रसिद्धिदः ॥ ६५॥ त्रिसन्ध्याक्षेत्रनिलयस्त्रिसन्ध्याक्षेत्रपालकः । त्रिसन्ध्याक्षेत्रजनकस्त्रिसन्ध्यागतदैत्यहा ॥ ६६॥ त्रिसन्ध्यागमुनीशानपाता त्रिसन्धिक्षेत्रगः । त्रिसन्ध्यातापसाराध्यस्त्रिसन्ध्यामुनिपालकः ॥ ६७॥ त्रिसन्ध्यामुनिदर्पघ्नस्त्रिपुराभीष्टदायकः । त्रिपुरापूजनप्रीतस्त्रिपुरान्तकपूजितः ॥ ६८॥ त्रिपुरेशीसमाराध्यस्त्र्यम्बकस्त्रिपुरान्तकः । अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ॥ ६९॥ अनाविलोऽप्रतिरथ अष्टात्रिंशत्कलातनुः अलम्पटो मितो क्षय्योऽधनांशोऽप्रतिमाननः ॥ ७०॥ अष्टसिद्धिसमृद्धि श्रीरष्टभैरवसेवितः । अष्टादशौषधी सृष्टिरष्टद्रव्यहविः प्रियः ॥ ७१॥ अष्टमूर्तिध्येयमूर्तिरष्टमात्रसमावृतः । अष्टपत्राम्बुजासीन अष्टप्रकृतिकारणम् ॥ ७२॥ अष्टचक्रस्फुरन्मूर्तिरष्टैश्वर्यप्रदायकः । अष्टपीठोपपीठश्रीरष्टदिक्पतिवन्दितः ॥ ७३॥ अग्निरक्षमालिकाढ्यो व्ययोऽष्टवसुवन्दितः । अष्टादशपुराणेड्य अष्टादशविधिस्मृतः ॥ ७४॥ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः । भवाब्धितारको भाषाजनको भारतीपतिः ॥ ७५॥ भीमो भीमविघ्नहर्ता भयत्राता भवोद्भवः । भवानीतनयो भक्तिप्रियो भक्तप्रवालकः ॥ ७६॥ भक्ताधीनो भक्तिवश्यो भुवनेशीवरप्रदः । भूपतिर्भुवनपतिर्भूतेशो भुवनेश्वरः ॥ ७७॥ तेजोवतीशिरोरत्नस्तेजोमण्डलमध्यगः । तेजोमयलोकवासी तेजोमयकलेवरः ॥ ७८॥ तेजोरूपी तैजसेशस्तेजःपुञ्जस्वरूपवान् । तेजस्तत्त्वेशसम्पूज्यस्तेजस्तत्त्वेष्टदायकः ॥ ७९॥ तिथिमातृसमुद्भूतस्तिथिमातृवरप्रदः । तिथिमातृसमाराध्यस्तिथिमातृप्रतोषितः ॥ ८०॥ तिथिमात्रव्रतप्रीतस्तिथिमात्रेष्टदायकः । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ८१॥ बृहत्तमो ब्रह्मवरो ब्रह्मण्यो ब्रह्मवित्तमः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ८२॥ ब्रह्मेशो ब्रह्मलोकस्थो ब्रह्मपुत्रीसमन्वितः । बृहदारण्यसंवेद्यो ब्रह्मविद्यामदोत्कटः ॥ ८३॥ ब्रह्माण्डकुन्दो ब्रह्मीशो ब्रह्मावर्तनिवासकृत् । ब्रह्मानन्दमयो ब्रह्मतनयो ब्रह्मणस्पतिः ॥ ८४॥ मन्दारवृक्षसम्भूतो मन्दारकुसुमप्रियः । मन्दारभक्तवरदो मन्दारभक्तितोषितः ॥ ८५॥ मन्दारपूजनप्रीतो मन्दारमणिधारकः । मन्दारमणिसुप्रीतो मुनिमण्डलमध्यगः ॥ ८६॥ मुनिपुत्रो मुनीशानो मुनिमानसहंसिकः । मुनिपुत्रसहचरो मुनिबालसमावृतः ॥ ८७॥ मुनिबालाभीष्टदाता मुनिबालसमर्चितः । मुनिबालभक्तितुष्टो मुनिबालेप्सितप्रदः ॥ ८८॥ विनायको विघ्नराजो विनतातनयप्रियः । वरेण्यो वेदजनको वेदवेदाङ्ग तत्त्ववित् ॥ ८९॥ वेदान्तशास्त्रसंवेद्यो वेदान्तागमगोचरः । वन्द्यो वागीशसंसेव्यो वामनो वामनार्चितः ॥ ९०॥ वागीश्वरीपतिर्वाणीनायको वरदायकः । विद्याप्रदो विभवदो वरेण्यतनयो वशी ॥ ९१॥ स्तनन्धयः स्तन्यपानरतः स्तन्यप्रवर्धकः । स्तनन्धयप्रियस्तुर्यशक्तिपुत्रस्तुरीयपः ॥ ९२॥ तौलिस्नानपरस्तौलिमासस्नानप्रतोषितः । तौलिमासजपप्रीतस्तौलिदानफलप्रदः ॥ ९३॥ तुङ्गभद्रातीरसंस्थस्तुङ्गास्नानफलप्रदः । तुङ्गाजलपानरतः तुङ्गशैलनिवासकृत् ॥ ९४॥ तरङ्गकेलिसंसक्तस्तरङ्गाब्धिप्रभेदकः । ब्राह्मणस्पत्ययज्ञेशो ब्राह्मणस्पत्यहोमभुक् ॥ ९५॥ ब्राह्मणस्पत्येष्टिभोक्ता ब्रह्मसूत्रप्रबन्धकृत् । बृहज्जाबालसंवेद्यो ब्रह्मविद्याप्रदायकः ॥ ९६॥ बृहन्मायो बृहत्सेनो बृहद्विद्यो बृहद्धनः । बृहद्गणो बृहत्कुक्षिर्बृहद्भानुर्बृहद्बलः ॥ ९७॥ बृहद्राज्यप्रदो ब्रह्मसूत्रधृक् बृहदीश्वरः । सवितृमण्डलमध्यस्थस्सविता सवितार्चितः ॥ ९८॥ सावित्रस्सविताराध्यस्सूरस्सूर्योऽथ सूरजः । सावित्रीतनयस्सूर्यमूर्तिस्सौरप्रपूजितः ॥ ९९॥ सूरसूतसमाराध्यस्सौरमार्गप्रकाशकः । सुरवृक्षमूलसंस्थस्सुरद्रुमसुमप्रियः ॥ १००॥ सुरचन्दनदिग्धाङ्गः स्वर्गसौख्यप्रदायकः । योगाग्निकुण्डसञ्जातो योगाग्निज्योतिरूपवान् ॥ १०१॥ योनिपीठसन्निषण्णो योनिमुद्राप्रतोषितः । यास्कप्रियो यास्कपूज्यो यास्केष्टफलदायकः ॥ १०२॥ योनिसंस्थपुष्कराढ्यो योगिनीगणसेवितः । योगिनीसेवितपदो योगिनीशक्तिसंवृतः ॥ १०३॥ योगाङ्गवेद्यचरणो योगसाम्राज्यदायकः । योगगीताप्रदो योगमन्त्रदो योगविग्रहः ॥ १०४॥ तरातललोकवासी तरातलजनावृतः । तरुणादित्यसङ्काशस्तरुणेन्दुसमर्चितः ॥ १०५॥ तालीवनसमासीनस्तालीफलसुभक्षकः । तालीमधुरसप्रीतस्तालीगुळसुभक्षकः ॥ १०६॥ तालीवनदेवतेड्यस्तालीदेवीवरप्रदः । तालजङ्घदैत्यहरस्तालजङ्घारिपूजितः ॥ १०७॥ तमालश्यामलाकारस्तमालकुसुमप्रियः । तमालवनसञ्चारी तमालदेवताप्रियः ॥ १०८॥ अनन्तनामानन्तश्रीरनन्तानन्तसौख्यदः । अनन्तवदनोऽनन्तलोचनोऽनन्तपादुकः ॥ १०९॥ अनन्तमकुटोपेत अनन्तश्रुतिमण्डितः । अनन्तकुक्षिपृष्ठाढ्य अनन्तजानुमण्डितः ॥ ११०॥ अनन्तोरुभ्राजमानोऽनन्तस्कन्धगलान्वितः । अनन्तबाहुपाण्याढ्य अनन्तगुह्यलिङ्गकः ॥ १११॥ अनन्तोदारगुणवाननन्तोदारविक्रमः । अनन्तसूर्यसङ्काश अनन्तेन्दुसुशीतलः ॥ ११२॥ सदाशिवसमाराध्यस्सदाशिवसुवीर्यजः । सदाशिवगणेशानस्सदाशिवपदप्रदः ॥ ११३॥ सदाशिवविघ्नहरस्सदाशिववरप्रदः । सदाशिवहास्यहेतुः सदाशिवविमोहकः ॥ ११४॥ सदाशिवचन्द्रहर्ता सदाशिवहृदिस्थितः । सदाशिवरूपधरः सदाशिवसमीपगः ॥ ११५॥ सदाशिवशक्तिपुत्रस्सदाशिवसुताग्रजः । अश्वास्यमुनीसंसेव्य अश्वास्यभक्तितोषितः ॥ ११६॥ अश्वास्यज्ञानसन्दाता अश्वास्ययोगदायकः । अश्वास्यजपसुप्रीत अश्वास्यशास्त्रतोषितः ॥ ११७॥ अश्वास्यविघ्नसंहर्ता अश्वास्यसिद्धिदायकः । अश्वास्यदैत्यसंहर्ता अश्विनीऋक्षसम्भवः ॥ ११८॥ अश्विनीदेवताराध्य अश्विनीशास्त्रतोषितः । अम्बिकायज्ञसन्तुष्ट अम्बिकाभीष्टदायकः ॥ ११९॥ अम्बासुतोऽम्बिकालोकसंस्थोऽम्बागणसेवितः । ऋग्यजुस्सामसम्भूति ऋद्धिसिद्धिप्रवर्तकः ॥ १२०॥ ऋद्धिप्रदो ऋद्धिनाथो ऋणत्रयविमोचकः । ऋग्वेदसूक्तसन्तुष्टो ऋग्वेदमन्त्रतोषितः ॥ १२१॥ ऋग्वेदब्राह्मणप्रीतो ऋग्वेदारण्यहर्षितः । ऋग्वेदब्राह्मणस्पत्यसूक्तोपनिषदीरितः ॥ १२२॥ ऋतो ऋग्वेदजनको ऋणहा ऋद्धिपूजितः । ऋतम्भराप्रज्ञयाज्यो ऋद्धिनाथप्रतोषितः ॥ १२३॥ ऋवर्णचक्रमध्यस्थो ऋवर्णजपतोषितः । ऋवर्णमात्रकाधिशो ऋवर्णशक्तिनायकः ॥ १२४॥ ऋतप्रियो ऋताधीशो ऋतज्ञो ऋतपालकः । ऋतदेवसमाराध्यो ऋतलोकनिवासकृत् ॥ १२५॥ ऋतम्भरापीठसंस्थो ऋताधीनसुविग्रहः । ऋतम्भरामार्गवासी ऋतपालकपालकः ॥ १२६॥ ऋतवाक् ऋतसङ्कल्पो ऋतसङ्कल्पदायकः । ससन्नयः सविनयः सुब्रह्मण्यगणेश्वरः ॥ १२७॥ सुष्ठुस्रष्टा सुष्ठुपाता सुरकुञ्जरभेदनः । सुरमात्रतृसमाराध्यस्सुरमातृवरप्रदः ॥ १२८॥ सुरमातृसुतस्सुष्ठु नरदेवप्रपालकः । सुरान्तको दैत्यहरस्सुरवर्गप्रपालकः ॥ १२९॥ सुपर्वाणस्सिद्धिदाता सुपर्वाणगणावृतः । सिंहारूढस्सिंहवाहस्सिंहास्यस्सिंहदर्पहा ॥ १३०॥ विभुर्विभुगणाधीशो विश्वनाथसमर्चितः । विश्वातीतो विश्वकर्ता विश्वपाता विराट्पतिः ॥ १३१॥ विश्वनाथसुतो विश्वनाथशक्तिसमुद्भवः । विश्वनाथक्षेत्रदाता विश्वनाथप्रपालकः ॥ १३२॥ विश्वनाथपूजिताङ्घ्रियुगलो विश्ववन्दितः । विश्वेश्वरो वीतिहोत्रो वीतिहोत्रसमर्चितः ॥ १३३॥ युद्धकृद्युद्धवीरेशो युद्धमण्डलसंस्थितः । युद्धेश्वरो युद्धनाथो युद्धे सिद्धिप्रदायकः ॥ १३४॥ युद्धवीरो युद्धशूरो युद्धेशजयदायकः । युद्धकालीश्वरो योधनाथो योधगणावृतः ॥ १३५॥ योधाग्रगण्यो योधेशो योधेशजयदायकः । योधविघ्नप्रशमनो योधसिद्धिप्रदायकः ॥ १३६॥ वसिष्ठदेवो वासिष्ठो वसिष्ठकुलभूषणः । विश्वामित्रप्रियकरो विश्वामित्राभयप्रदः ॥ १३७॥ विश्वामित्रसिद्धिदाता विश्वामित्राश्रमे स्थितः । विश्वामित्रतपस्तुष्टो विश्वामित्रेप्सितप्रदः ॥ १३८॥ विश्वामित्रज्ञानदाता विश्वामित्रसुयोगदः । विश्वामित्रवंशदेवो विश्वामित्रेष्टदैवतम् ॥ १३९॥ वामदेवसमाराध्यो वाममार्गप्रतोषितः । उरुक्रमसमाराध्य उरुक्रमवरप्रदः ॥ १४०॥ उरुक्रमयज्ञदाता उरुक्रममखोद्भवः । उरुक्रमेन्द्रपदद उरुक्रमसुरक्षकः ॥ १४१॥ उरुक्रमवंशदेव उरुभीमपराक्रमः । ऊर्वशीनटनप्रीतः ऊर्वशीगानलोलुपः ॥ १४२॥ ऊर्वशीपुत्रसुखद ऊर्वशीनाथपूजितः । ऊर्वशीनाथेप्सितद ऊर्वशीलोकदायकः ॥ १४३॥ ब्राह्मणो ब्राह्मणेशान ब्राह्मणेन्द्रसुपूजितः । ब्राह्मण्यकर्मसन्तुष्टो ब्राह्मण्यमन्त्रतोषितः ॥ १४४॥ ब्राह्मणब्रह्मयज्ञेशो ब्राह्मणवरदायकः । ब्राह्मणाय वेददाता ब्राह्मणायार्थदायकः ॥ १४५॥ ब्राह्मणाय कामदाता ब्राह्मणाय सुमुक्तिदः । ब्रह्ममेधयज्ञतुष्टो ब्रह्ममेधहविःप्रियः ॥ १४६॥ ब्रह्ममेधसंस्कृताय ब्रह्मलोकप्रदायकः । ब्रह्मप्रियगणेशानो ब्रह्मप्रियगणार्चितः ॥ १४७॥ ब्रह्मप्रियभक्तितुष्टो ब्रह्मप्रियवरप्रदः । ब्रह्मप्रियमुक्तिदाता ब्रह्मप्रियकृतोद्यमः ॥ १४८॥ ब्रह्मप्रियप्रभुर्ब्रह्मप्रियत्राणकृतोद्यमः । ब्रह्मप्रियेड्यचरितो ब्रह्मप्रियनमस्कृतः ॥ १४९॥ ब्रह्मप्रियभयहरो ब्रह्मप्रियनमस्कृतः । ब्रह्मप्रियसंशयघ्नो बर्ह्मविद्ब्रह्मदायकः ॥ १५०॥ ब्रह्मप्रियार्तिशमनो ब्रह्मप्रियफलप्रदः । इन्दिरानायकश्चेन्दुभूषणश्चेन्दिराप्रियः ॥ १५१॥ इन्दीवरकर्णिकास्थ इन्दीवरविलोचनः । इन्दीवरसमप्रख्य इन्दीवरशयानकृत् ॥ १५२॥ इन्दीवरासनारूढ इन्दिरातनयापतिः । इन्दिराद इन्दिरेश इन्दिरागणनायकः ॥ १५३॥ इन्दिराष्टकसन्दाता इन्दिराबीजतोषितः । इन्दिराबीजसंयुक्तबीजमन्त्रमनुप्रभुः ॥ १५४॥ वीरपाण्ड्यसमाराध्यो वीरपाण्ड्यवरप्रदः । वीरचोलसमाराध्यो वीरचोलेष्टदायकः ॥ १५५॥ वीरब्रबाहुपूजिताङ्घ्रिर्वीरमाहेन्द्रवन्दितः । वीरमाहेशवरदो वीरराक्षसशत्रुहा ॥ १५६॥ वीरशूरशौर्यदाता वीरान्तकबलप्रदः । वीरधीरधैर्यदाता वीरपुरन्दरेष्टदः ॥ १५७॥ वीरमार्ताण्डवरदो वज्रबाह्विष्टसिद्धिदः । वज्रबाहुनुतो वज्रबाहुवीर्यजयप्रदः ॥ १५८॥ सङ्कष्टहारकस्सङ्कष्टहरतिथिसम्भवः । सङ्कष्टहरमन्त्रात्मा सर्वसङ्कष्टनाशनः ॥ १५९॥ सङ्कष्टिहरदिनराट् सङ्कष्टिमातृपूजितः । सङ्कष्टिव्रतसन्तुष्टस्सङ्कष्टिपूजनप्रियः ॥ १६०॥ सङ्कष्टिवृतवरदस्सार्वभौमवरप्रदः । सार्वभौमगर्वहरस्सार्वभौमारिभञ्जकः ॥ १६१॥ सार्वभौमगीतगुणस्सार्वभौमधनप्रदः । सार्वभौमकामदाता सार्वभौमसुमुक्तिदः ॥ १६२॥ तारापतिस्तारेशेड्यस्तारादोषनिवारकः । तारापुत्रसमाराध्यस्तारागणनिषेवितः ॥ १६३॥ तारापुत्राभीष्टदाता तारापुत्रवरप्रदः । तारापुत्रज्ञानदाता तारापुत्रसुसिद्धिदः ॥ १६४॥ तारेशचूडस्तारेशवरदस्तारकार्चितः । ताराकर्ता तारकेशस्ताराभर्ता तमीप्रियः ॥ १६५॥ तलवकारसङ्गीतस्तमीनाथस्तमीप्रियः । तमीपूजनसन्तुष्टस्तमीजपवरप्रदः ॥ १६६॥ तमीहवनसन्तुष्टस्तमीयजनतोषितः । तमप्रकृतिसंयुक्तस्तमप्रकृतिपूजितः ॥ १६७॥ तमप्रकृतिसञ्जातब्रह्माण्डगणधारकः । तामसीमायासंयुक्तस्तामसीस्तुतवैभवः ॥ १६८॥ तामसीनायकेशानस्तामसीनायकेष्टदः । ऋणीजनसमाराध्य ऋणीसंस्तुतवैभवः ॥ १६९॥ ऋणीनाथो ऋणीगीतो ऋणीजनसुरक्षकः । ऋणीभर्ता ऋणीधर्ता ऋणीऋणहरः क्षणात् ॥ १७०॥ ऋणीवन्द्यो ऋणीजप्यो ऋणीस्तुत्यो ऋणीप्रियः । ऋणीधामा ऋणीगोप्ता ऋणीगणनिषेवितः ॥ १७१॥ यमीजनसमाराध्यो यमीसंस्तुतवैभवः । यमीनाथो यमीगीतो यमीजनसुरक्षकः ॥ १७२॥ यमीभर्ता यमीधर्ता यमीभयहरः क्षणात् । यमीवन्द्यो यमीजप्यो यमीस्तुत्यो यमीप्रियः ॥ १७३॥ यमीधामा यमीगोप्ता यमीगणनिषेवितः । सृणिहस्तस्सृणिधरः सृणीशानस्सृणिप्रियः ॥ १७४॥ संज्ञापतिसमाराध्यस्संज्ञापतिस्तुतिप्रियः । संज्ञापतिगणेशानस्संज्ञापतिस्वरूपधृक् ॥ १७५॥ संज्ञापतिवन्द्यपादस्संज्ञेशगीतसद्गुणः । संज्ञेशगर्वसञ्छेत्ता संज्ञेशवरदर्पहा ॥ १७६॥ संज्ञेशप्रवणस्वान्तस्संज्ञेशगणसंस्तुतः । संज्ञेशार्चितपादाब्जो संज्ञेशभयहारकः ॥ १७७॥ योगिगेयगुणो योगिचरितो योगतत्त्ववित् । योगीन्द्रत्रासहा योगग्रन्थतत्त्वविवेचकः ॥ १७८॥ योगानुरागो योगाङ्गो योगगङ्गाजलोद्वहः । योगावगाढजलधिर्योगप्रज्ञो युगन्धरः ॥ १७९॥ योगीगीतसुचारित्रो योगीन्द्रगणसेवितः । योगधाता योगभर्ता योगारातिनिषूदनः ॥ १८०॥ तरणिस्तरणीशानस्तरणीप्रीतिवर्धनः । तरणीगर्वसञ्छेत्रा तरणीगीतसद्गुणः ॥ १८१॥ तरणिप्रवणस्वान्तो तरणीवरदायकः । तरणित्राणसन्नद्धस्तरणीसमरक्षमः ॥ १८२॥ तरणीगीतचरितस्तरणीगीतसद्गुणः । तरणीप्रियकर्ता च तरण्यागमसारवित् ॥ १८३॥ तरणीसेवितपादाब्जस्तरणीप्रियनन्दनः । तरणीप्रियासमाराध्यस्तरणिमार्गकोविदः ॥ १८४॥ इलापतिरिलानाथ इलानाथवरप्रदः । इलावृतखण्डवासी इलावृतजनप्रियः ॥ १८५॥ इलावृतगिरिस्थायी इलावृतगणार्चितः । इलावृतेष्टवरद इलावृतसुखप्रदः ॥ १८६॥ इलावृतधर्मदाता इलावृतधनप्रदः । इलावृतकामपूर इलावृतसुमुक्तिदः ॥ १८७॥ इलावृतगीततत्त्व इलावृतजनाश्रितः । चण्ड चण्डेशसुहृच्चण्डीशश्चण्डविक्रमः ॥ १८८॥ चराचरपतिश्चिन्तामणिचर्वणलालसः । चिन्तामणिश्चिन्तितार्थदायकश्चित्तसंस्थितः ॥ १८९॥ चिदाकाशश्चिदाभासश्चिदात्मा चिच्चिदीश्वरः । चित्तवृत्तिमयीनाथश्चित्तशान्तिप्रदायकः ॥ १९०॥ अम्बिकेशेष्टवरद अम्बिकेशभयापहः । अम्बिकेशगुरुरम्बापतिध्यातपदाम्बुजः ॥ १९१॥ अम्बापतिस्तुतश्चाम्बानाथाराध्योऽम्बिकासुतः । अम्बाविद्यासुतत्त्वज्ञ अम्बाप्रीतिविवर्धनः ॥ १९२॥ अम्बाङ्गमलसम्भूत अम्बाजठरसम्भवः । अम्बिकेशवीर्यजात अम्बिकेशेक्षणोद्भवः ॥ १९३॥ अम्बिकेशहास्यजात अम्बिकाकोपसम्भवः । अम्बिकेशध्यानजात अम्बिकेशगणावृतः ॥ १९४॥ अम्बिकेशसैन्यनाथ अम्बिकेशजयप्रदः । अम्बिकेशशिरोहर्ता अम्बिकेशेन्दुहारकः ॥ १९५॥ अम्बिकेशहृदारूढ अम्बिकेशस्थलाभितः । अम्बिकोत्सङ्गनिलय अम्बिकाज्ञाप्रपालकः ॥ १९६॥ अम्बिकागणसंवीत अम्बिकामार्गकोविदः । अम्बिकागीतचरित अम्बारिसैन्यनाशकः ॥ १९७॥ अम्बिकेशपार्श्वसंस्थ अम्बालोकनिवासकृत् । निरोधाचित्तवृत्तिस्थो निजानन्दप्रदायकः ॥ १९८॥ नैजकर्ता नैजभर्ता नैजधर्ता निरोधगः । नैजवासी नैजदाता नैजशक्तिसमन्वितः ॥ १९९॥ नैजयोगप्रदो नैजज्ञानदो निजलोकदः । नैजधर्मप्रदो नैजविद्यादो निजकामदः ॥ २००॥ अपर्णापूजितपद अपर्णेशप्रपूजितः । अपर्णेशेष्टवरद अपर्णेशभयापहः ॥ २०१॥ अपर्णेशध्यातपद अपर्णेशगणावृतः । अपर्णेशध्यानजात अपर्णाहास्यसम्भवः ॥ २०२॥ इदं नाम्नां सहस्रन्तु ब्रह्मणां ब्रह्मणस्पतेः । सूक्तमन्त्राक्षरजातं ब्रह्मणस्पतितोषदम् ॥ २०३॥ य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः । वाञ्छितं समवाप्नोति गणनाथप्रसादतः ॥ २०४॥ धर्मार्थी धर्ममाप्नोति धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ २०५॥ पुत्रार्थी लभते पुत्रान् कामार्थी काममाप्नुयात् । निष्कामो यः पठेदेतद्गणेशान परायणः ॥ २०६॥ सप्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् । ॥ इति श्रीविनायकतन्त्रे श्रीशारदेशसहस्रनामस्तोत्रम् ॥
ஜப எண்ணிக்கை: 0/108