॥ অর্ধনারীশ্বর অষ্টকম্ ॥
चाम्पेयगौरार्ध-शरीरकायै कर्पूरगौरार्ध-शरीरकाय। धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय॥१॥
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय। कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय॥२॥
झणत्क्वणत्कङ्कण-नूपुरायै पादाब्जराजत्-फणिनूपुराय। हेमाङ्गदायै च भुजङ्गदाय नमः शिवायै च नमः शिवाय॥३॥
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय। समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय॥४॥
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय। दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय॥५॥
अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय। निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय॥६॥
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय। जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय॥७॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय। शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय॥८॥
एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी। प्राप्नोति सौभाग्यमनन्तकालम् भूयात् सदा तस्य समस्तसिद्धिः॥
॥ इति श्रीमच्छङ्कराचार्यविरचितम् अर्धनारीश्वर अष्टकं सम्पूर्णम् ॥