சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீவாராஹமஹாபுராணே ஶ்ரீவிநாயகஸ்துதி꞉

श्रीवाराहमहापुराणे श्रीविनायकस्तुतिः
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 4
23px
श्रीविनायकस्तुतिः देवा ऊचुः - नमस्ते गजवक्त्राय नमस्ते गणनायक । विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ १॥ नमोऽस्तु ते विघ्नहर्त्रे नमस्ते सर्पमेखल । नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ॥ २॥ सर्वदेवनमस्कारादविघ्नं कुरु सर्वदा ॥ ३॥ ॥ फलश्रुतिः ॥ एवं स्तुतस्तदा देवैर्महात्मा गणनायकः । अभिषिक्तस्तु रुद्रेण सोमायाऽपत्यताङ्गतः ॥ ४॥ एतच्चतुर्थ्यां सम्पन्नं गणाध्यक्षस्य पार्थिवः । यतस्ततोऽयं महतिं तिथीनां परमा तिथिः ॥ ५॥ एतस्यां यस्तिलान् भुक्त्वा भक्त्या गणपतिं नृप । आराधयति तस्याशु तुष्यते नाऽत्र संशयः ॥ ६॥ यश्चैतत्पठते स्तोत्रं यश्चैतच्छृणुयात्सदा । न तस्य विघ्ना जायन्ते न पापं सर्वथा नृप ॥ ७॥ ॥ इति श्रीवाराहमहापुराणे विनायकोत्पत्तिर्नाम त्रयोविंशोऽध्याये श्रीविनायकस्तुतिः ॥
ஜப எண்ணிக்கை: 0/108