ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
Aarati Collection
ಸನಾತನ ದೇವ

ಶ್ರೀಮಯೂರಕವಿವಿರಚಿತಂ ಶ್ರೀಗಣೇಶ ಸಂಸ್ಕೃತಮಾರಾತ್ರಿಕಂ

श्रीमयूरकविविरचितं श्रीगणेश संस्कृतमारात्रिकम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 2
23px

श्रीगणेश आरती  संस्कृते

जयदेव जयदेव गजमुख सुखहेतो । नेतर्विघ्नगणानां जाड्यर्णवसेतो ॥ ध्रुवपदम् ॥ येन भवदुपायनतां नीता नवदूर्वा विद्यासम्पत्कीर्तिस्तेनाप्ताऽपूर्वा । मुक्तिर्लभ्या सुखतस्तव नित्याऽपूर्वा धार्या जगतः स्थितये भूमौ दिवि पूर्वा ॥ जयदेव जयदेव० ॥ १॥ प्रथमनमस्कृतिभाक् त्वं तव लोकप्रथितं दृष्टं सद्व्यवहारे गुरुभिरपि च कथितम् । यः कश्चन विमुखस्त्वयि निजसिद्धेःपथि तं विविधा विघ्ना भगवन् कुर्वन्ति व्यथितम् ॥ जयदेव जयदेव० ॥ २॥ बालं सकृदनुसरति त्वद्दृष्टिश्चेत्ता मनुरासीमिव दास्यो विद्याः स हि वेत्ता । पविपाणिरिव परं परपक्षाणां भेत्ता भवति मयूरोऽहेरिव मोहस्यच्छेत्ता ॥ जयदेव जयदेव० ॥ ३॥ इति श्रीमयूरकविविरचितं श्रीगणेश संस्कृतमारात्रिकम्
ಜಪ ಎಣಿಕೆ: 0/108