सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

तेजोवर्धनस्तोत्रम् वरमहागणपति मन्त्राक्षरावलिस्तोत्रम्

stotra-602f6791
रचयिता: पारंपरिक पाठ संख्या: 1
23px

तेजोवर्धनस्तोत्रम् अथवा वरमहागणपति मन्त्राक्षरावलिस्तोत्रम्

श्रीगणेशाय नमः ॥ विना तपो विना ध्यानं विना होमं विना जपम् । अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥ १॥ ईश्वर उवाच । मन्त्राक्षरावलिस्तोत्रं सर्वसौभाग्यवर्धनम् । दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २॥ महागणपतिप्रीतिप्रतिपादकमञ्जसा । कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥ ३॥ ओङ्कारवलयाकारमुञ्चत्कल्लोलमालिनम् । ऐक्षवं चेतसा वीक्षे सिन्धुसन्धुक्षितस्वनम् ॥ ४॥ श्रीमतश्चास्य जलधेरन्तरभ्युदितं नुमः । मणिद्वीपं मदाकल्पमहाकल्पं महोदयम् ॥ ५॥ ह्रीतिमादधता धाम्ना धाम्नामीशकिशोरके । कल्पोद्यानस्थितं वन्दे भास्वन्तं मणिमण्डपम् ॥ ६॥ क्लीबस्यापि स्मरोन्मादकारिश‍ृङ्गारशालिनः । तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥ ७॥ ग्लौं कलाभिरिवाञ्छामिस्तीव्रादिनवशक्तिभिः । सुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥ ८॥ गम्भीरमिव तत्राब्धिं वसन्तं त्र्यस्रमण्डले । उत्सङ्गतललक्ष्मीकमुद्यतिग्मांशुपाटलम् ॥ ९॥ गदेक्षुकामुकरुजा चक्राम्बुजगुणोत्पले । व्रीह्मग्रनिजदन्ताग्रं भूषितं मातुलिङ्गकैः ॥ १०॥ णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जनैः । एतैरेकादशकरानलं कुर्वाणमुन्मदम् ॥ ११॥ परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् । परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥ १२॥ तत्पुरः प्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ।श्रीमन्गणपतेः त्रैलोक्यमोहनकवचम् श्री गणेशाय नमः । नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ १॥ श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः । गणपतिर्देवता च गायत्री छन्दः एव च । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । शक्तिः स्वाहा ग्लैँ बीजं विनियोगस्य कीर्तितः ॥ अथ न्यासः । ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः । ग्लौँ गँ गणपतये तर्जनीभ्यां नमः । वरवरद मध्यमाभ्यां नमः । सर्वजनं मे अनामिकाभ्यां नमः । वशमानय कनिष्ठिकाभ्यां नमः । स्वाहा कर्तल करपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः ॥ ध्यानं - हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् । बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे । अथ कवचम् । ॐ ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् । श्रीँ बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ १॥ हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी । कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ २॥ ग्लौँ गँ च गणपतये वाचं पातु विनायकः । वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ ३॥ सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः । वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ ४॥ नाभिमानय मे पातु सर्वसिद्धिविनायकः । जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ ५॥ गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा । दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ ६॥ दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा । दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ ७॥ प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः । कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ ८॥ अधो गणपतिः पातु ऊर्धं पातु विनायकः । एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ ९॥ इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् । त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ १०॥ इति गणपतेः त्रैलोक्यमोहनकवचं सम्पूर्णम् । रमारमेशौ विमृशाम्येवशुभदायकौ ॥ १३॥ येन दक्षिणभागस्थन्यग्रोधतलमास्थितम् । सकलं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥ १४॥ वरसम्भोगरसिकौ पश्चिमे पिप्पलाश्रयौ । रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ । १५॥ रममाणौ गणेशानोत्तरदिक्फलिनीतले । भूभूधराम्बुदाराभौ भजे भुवनपालकौ ॥ १६॥ वनमालावपुर्ज्योतिकडारितककुप्तटाः । हृदयादिरङ्गदेवि रङ्गरक्षाकृते नमः ॥ १७॥ रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् । ऋध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥ १८॥ दलत्कपोलविगलं मदधाराबलाहकम् । समृद्धितङिदाश्लिष्टं प्रमोदं हृदि भावये ॥ १९॥ सकान्तिकान्तितिलकापरिरब्धतनुं भजे । भुजप्रकाण्डसच्छायं सुमुखं कल्पपादपम् ॥ २०॥ वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् । दुर्मुखं मदनावत्या निर्मितालिङ्गिनं पुरा ॥ २१॥ जम्भवैरिकृताभ्यर्च्यौ जगदभ्युदयप्रभौ । अहं मदद्रवाविघ्नौ हतये एनसां श्रये ॥ २२॥ नमः श‍ृङ्गाररुचिरौ नमत्सर्वसुरासुरौ । द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥ २३॥ मेदुरं मौक्तिकासारं वर्षन्तौ भक्तिशालिनाम् । वसुधाराशङ्खनिधिवाक्यपुष्पाञ्जलिना स्तुमः ॥ २४॥ वर्षन्तौ रत्नवर्षेण बलद्वालातपस्विपौ । वरदानुमतौ वन्दे वसुधापद्मशेवधी ॥ २५॥ शमताधिमहाव्याधिसान्द्रानन्दकरम्बिताः । ब्राह्मम्यादीः कलये शक्तीः शक्तीनामभिवृद्धये ॥ २६॥ मामवन्तु महेन्द्राद्याः दिक्पालाः दर्पशालिनः । तं नुमः श्रीगणाधीशं सवाहायुधशक्तिकम् ॥ २७॥ नवीनपल्लच्छायादायादवपुरुज्वलम् मदस्य कटनिष्यन्दस्रोत स्वित्कटकोदरम् ॥ २८॥ यजमानतनुं यागरूपिणं यज्ञपुरुषम् । यमं यमवतामर्च्य यत्नभाजामदुर्लभम् ॥ २९॥ स्वारस्यं परमानन्दस्वरूपं स्वयमुद्गतम् । स्वयं हव्यं स्वयं वैधं स्वयं कृत्यं त्रयीकरम् ॥ ३०॥ हारकेयूरमुकुटकिङ्किणीगदकुण्डलैः । अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये ॥ ३१॥ मन्त्राक्षरावलिस्तोत्रं कथितं तव सुन्दरि । समस्तमीप्सितं तेन सम्पादय शिवे शिवम् ॥ ३२॥ इति तेजोवर्धनस्तोत्रम् अथवा मन्त्राक्षरावलिस्तोत्रं सम्पूर्णम् ॥ ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा । श्रीवरमहागणपतिमन्त्राक्षरावलिस्तोत्रम् गणपतिमन्त्राक्षरावलिः
पाठ जप: 0/108