சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

.. ப⁴ஜே பா⁴ஷ்யகாரஸ்தோத்ரம் ..

॥ भजे भाष्यकारस्तोत्रम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 4
23px

॥  यतिराजस्तोत्रम् ॥

धनं यस्य सद्ब्रह्मविद्यानिदानं बुधानन्दरूपं स्वरूपं दधानम् ॥ परप्रापकाङ्घ्रिद्वयीसन्निधानं विधानं विभूतिद्वयेशाभिधानम् ॥१॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ नमो नित्यदिव्यप्रबन्धादिकृद्भ्यो नमः पाञ्चरात्रादिविद्भ्यो गुरुभ्यः नमो मद्गुरुभ्यो नमस्तद्गुरुभ्यो नमः पञ्चसंस्कारविद्यागुरुभ्यः ॥२ ॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ नमो वेंकटाधीशसत्पादरेणुस्तवैः पद्यविद्यासहस्प्रयोक्त्रे । मुमुक्षूञ्जनान् नित्यकल्पान्विधात्रे महाहोबलाचार्यवर्याय पित्रे ॥३॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ अहिर्बुध्यन इत्यादि यस्मिन् प्रमाणं कलौ कश्चिद् इत्यादि शुद्ध पुराणम् । मृषा घोषवादादि येनाधरीणं धुरीणं गुरूणां पुमांसं पुराणम् ॥ ४ ॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ यतीशाश्रितानां कनिष्ठो भवेयं सदा पञ्चमोपायनिष्ठो भवेयम् । गुरोरङ्घ्रिरूपो भवेयं भवेयं हरेरन्तरङ्गो भवेयं भवेयम् ॥५॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ अनन्तो हि भूत्वा महाभाष्यकारः प्रबुद्धं चकार त्रयीशब्दजालम्। पुनस्सोऽयमागत्य मद्भाष्यकारः प्रबुद्धं चकार श्रुतेरर्थमूलम्॥ ६ ॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ .. मृषावादिदुर्वादपङ्के निमग्नं गुणाभावहेयस्वरूपादिभग्नम्। परं ब्रह्म यस्य प्रभावेण लग्नं बभौ दृष्टकल्याणलक्ष्मीव लग्नम् ॥७॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ .. सदैकान्तिभिर्वादशोद्यत्सहस्रैःचतुःसप्ततिस्वीयसिंहासनस्थैः। तथा विष्णुभक्तैरनन्तरूपेतं महारङ्गराजाङ्गरक्षाविनीतम् ॥८॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ नयागो न योगो न वा तन्त्रमन्त्रौ न हि ज्ञानदाने न भक्तिप्रपत्ती। तथाप्यात्मलब्धौ न सन्देहगन्धो बलं मे महद्भाष्यकारानुबन्धः ॥९॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ कृत वा तपोऽन्यद् बलं वा गुरूणां श्रियः श्रीपतेः किन्नु साक्षादपेक्षा। घृणा भाष्यकारस्य निष्कारणा वा ममैषा मुखे घोषते कापि भाषा॥ १० भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ परव्यूहलीलान्तरार्चाविशेषैरशेषैर्हरिप्समन्वादिवेषैः । समुद्धर्तमेतान् भवाब्धेरशक्तः ततोऽभूद्यतिः शेषभावानुशक्तः ॥११॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ भवाब्धौ निमग्नान् समुद्धर्तुकामः परो लक्ष्मणार्याद् गुरुर्नेति नेति। सनिस्साणभेरीमहाकाहलीभिः भटैर्युष्यतां घुष्यतां दिक्तटेषु ॥१२॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ सती ब्रह्मविद्या सुतः शैलदीपो गुरुः पारिजातः श्रितं भाग्यरत्नम् । ततः कालमेघे स्वयं भोगिराजे प्रसन्ने तदस्मिन्नलभ्यं कुतो नः॥१३॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ तृणीकृत्य वैरिञ्चिरुद्रप्रतिष्ठां यदीयाज्रिपाथोजकैंकर्यनिष्ठाम्। इहामुत्र च प्राभवाः प्रक्रमन्ते तदन्यं गुरुं मूढभावा भजन्ते ॥१४॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ यतीन्द्रं विनिन्दन्त्यसद्ग्रन्थकन्थाधराविश्वमिथ्यानुसन्धानगन्धाः । जगच्चक्षुषं प्रत्नमेकं शतान्धाः न पश्यन्त्यहो कर्मबन्धादिबान्धाः ॥१५॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ नतकम्प्युदको न शब्दे च शक्तो न कस्यावतारोन तन्त्रस्स्वतन्त्रः। कल्पयेत् सर्वभाषासु गाथाः किमाचार्यमाहात्म्यभीतस्स वेधाः ॥१६॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ अहं तूर्ध्वबाहुर्भणामि श्रृणुध्वं शठारातिनाथादिवाचः स्मरध्वम्। यतीन्द्राम्रिकैङ्कर्यमात्रे यतध्वं मनुध्वं मुरध्वंसि लोके रमध्वम् ॥१७॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ सुधापुण्ड्ररेखाविराजल्ललाटं सुधांशुप्रतीकाशकाशत्किरीटम्। समुद्घाट्य वैकुण्ठकक्षाकवाट सुपर्णादिसंसेव्यमानन्दकूटम् ॥१८॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ उषस्सान्ध्यरागारुणन्मघरेखा-कचाकर्षि काषायखण्डोत्तरीयम्। बृहन्नारदीयोक्तरूपं तुरीयं परं वस्तु पश्यामि लक्ष्मीधरीयम् ॥१९॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ अलं देशिकैरन्यचित्तैः प्रमत्तै-रलंस्थाणुकल्पैरलक्ष्मीशतल्पैः। अपद्माक्षहारैरचक्राङ्गधारै-रसद्भाष्यकारैरशेषावतारैः ॥२०॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ प्रफुल्लाब्जनेत्रं प्रभाशोभिगात्रं प्रकृत्या पवित्रं प्रभावैर्विचित्रम्। हरेरातपत्रं सतां जैतपत्रं सुपर्णस्यमित्र सुमित्रासुपुत्रम् ॥२१॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ अहो शांकराः किंकरत्वं प्रयाताः परे भास्करास्तस्कराकारभाजः। ततो यादवाः पादवारिप्रपूताः तथैवागतास्सौगता भाट्टसांख्याः ॥२२॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ शठः कापिलः कोऽपि लक्ष्यो न मोक्षे विनष्टस्वरोऽभूत् स माहेश्वरोऽपि । कणादः प्रमाणप्रणादोऽपि शान्तः प्रमाणं ब्रुवाणश्च गाणापतेयः ॥२३॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ स्वयं ब्रह्मसूत्राद्यभावेऽपि बुद्ध्या कथं ब्रह्मसूत्रादिभाष्यं विदद्यात्। कथं तस्य शिष्या बभूवुर्मनुष्याः कुतो नास्ति रोषः कलेरेष दोषः ॥ २४ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ पुरा दर्शितं चोलभृत्कीटकण्ठं समारुह्य सह्याचलेन्द्रोपकण्ठम्। अकुण्ठप्रभावोऽत्र वैकुण्ठकल्पः सकण्ठीरवं प्राप्य सोल्लुण्ठमास्ते ॥२५॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥ नमः पुण्यकौडिन्यगोत्रोद्भवेभ्यो नमस्शालसद्ग्रामसवंशजेभ्यः। नमो वैष्णवेभ्यो महद्भ्योऽर्भकेभ्यो नमः शेषभावादचिद्भ्यश्चचिद्भ्यः ॥२६॥ भजे भाष्यकारं भजे लक्ष्मणार्यं भजे शालसद्ग्रामरामानुजार्यम् ॥

॥ इति भजे भाष्यकारस्तोत्रम् ॥

ஜப எண்ணிக்கை: 0/108