সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

ত্রৈলোক্যমোহনকবচম্

त्रैलोक्यमोहनकवचम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

श्रीमन्गणपतेः त्रैलोक्यमोहनकवचम्

श्री गणेशाय नमः । नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ १॥ श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः । गणपतिर्देवता च गायत्री छन्दः एव च । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । शक्तिः स्वाहा ग्लैँ बीजं विनियोगस्य कीर्तितः ॥ अथ न्यासः । ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः । ग्लौँ गँ गणपतये तर्जनीभ्यां नमः । वरवरद मध्यमाभ्यां नमः । सर्वजनं मे अनामिकाभ्यां नमः । वशमानय कनिष्ठिकाभ्यां नमः । स्वाहा कर्तल करपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः ॥ ध्यानं - हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् । बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे । अथ कवचम् । ॐ ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् । श्रीँ बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ १॥ हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी । कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ २॥ ग्लौँ गँ च गणपतये वाचं पातु विनायकः । वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ ३॥ सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः । वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ ४॥ नाभिमानय मे पातु सर्वसिद्धिविनायकः । जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ ५॥ गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा । दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ ६॥ दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा । दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ ७॥ प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः । कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ ८॥ अधो गणपतिः पातु ऊर्धं पातु विनायकः । एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ ९॥ इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् । त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ १०॥ इति गणपतेः त्रैलोक्यमोहनकवचम् 
পাঠ জপ: 0/108