સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

.. એકાક્ષરગણપતિકવચમ્ ..

॥ एकाक्षरगणपतिकवचम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px

एकाक्षरगणपतिकवचम्

त्रैलोक्यमोहनकवचम् ।

श्रीगणेशाय नमः । नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥

पार्वत्युवाच । भगवन् देवदेवेश लोकानुग्रहकारकः । इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥

एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा । वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥

ईश्वर उवाच । श‍ृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् । एकाक्षरस्य मन्त्रस्य कवचं सर्वकामदम् ॥ ४॥

यस्य स्मरणमात्रेण न विघ्नाः प्रभवन्ति हि । त्रिकालमेककालं वा ये पठन्ति सदा नराः ॥ ५॥

तेषां क्वापि भयं नास्ति सङ्ग्रामे सङ्कटे गिरौ । भूतवेतालरक्षोभिर्ग्रहैश्चापि न बाध्यते ॥ ६॥

इदं कवचमज्ञात्वा यो जपेद् गणनायकम् । न च सिद्धिमाप्नोति मूढो वर्षशतैरपि ॥ ७॥

अघोरो मे यथा मन्त्रो मन्त्राणामुत्तमोत्तमः । तथेदं कवचं देवि दुर्लभं भुवि मानवैः ॥ ८॥

गोपनीयं प्रयत्नेन नाज्येयं यस्य कस्यचित् । तव प्रीत्या महेशानि कवचं कथ्यतेऽद्भुतम् ॥ ९॥

एकाक्षरस्य मन्त्रस्य गणकश्चर्षिरीरितः । त्रिष्टुप् छन्दस्तु विघ्नेशो देवता परिकीर्तिता ॥ १०॥

गँ बीजं शक्तिरोङ्कारः सर्वकामार्थसिद्धये । सर्वविघ्नविनाशाय विनियोगस्तु कीर्तितः ॥ ११॥

ध्यानम् । रक्ताम्भोजस्वरूपं लसदरुणसरोजाधिरूढं त्रिनेत्रं पाशं चैवाङ्कुशं वा वरदमभयदं बाहुभिर्धारयन्तम् । शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतं देवं चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥ १२॥

कवचम् । गणेशो मे शिरः पातु भालं पातु गजाननः । नेत्रे गणपतिः पातु गजकर्णः श्रुती मम ॥ १३॥

कपोलौ गणनाथस्तु घ्राणं गन्धर्वपूजितः । मुखं मे सुमुखः पातु चिबुकं गिरिजासुतः ॥ १४॥

जिह्वां पातु गणक्रीडो दन्तान् रक्षतु दुर्मुखः । वाचं विनायकः पातु कष्टं पातु महोत्कटः ॥ १५॥

स्कन्धौ पातु गजस्कन्धो बाहू मे विघ्ननाशनः । हस्तौ रक्षतु हेरम्बो वक्षः पातु महाबलः ॥ १६॥

हृदयं मे गणपतिरुदरं मे महोदरः । नाभि गम्भीरहृदयः पृष्ठं पातु सुरप्रियः ॥ १७॥

कटिं मे विकटः पातु गुह्यं मे गुहपूजितः । ऊरु मे पातु कौमारं जानुनी च गणाधिपः ॥ १८॥

जङ्घे गजप्रदः पातु गुल्फौ मे धूर्जटिप्रियः । चरणौ दुर्जयः पातुर्साङ्गं गणनायकः ॥ १९॥

आमोदो मेऽग्रतः पातु प्रमोदः पातु पृष्ठतः । दक्षिणे पातु सिद्धिशो वामे विघ्नधरार्चितः ॥ २०॥

प्राच्यां रक्षतु मां नित्यं चिन्तामणिविनायकः । आग्नेयां वक्रतुण्डो मे दक्षिणस्यामुमासुतः ॥ २१॥

नैरृत्यां सर्वविघ्नेशः पातु नित्यं गणेश्वरः । प्रतीच्यां सिद्धिदः पातु वायव्यां गजकर्णकः ॥ २२॥

कौबेर्यां सर्वसिद्धिशः ईशान्यामीशनन्दनः । ऊर्ध्वं विनायकः पातु अधो मूषकवाहनः ॥ २३॥

दिवा गोक्षीरधवलः पातु नित्यं गजाननः । रात्रौ पातु गणक्रीडः सन्ध्योः सुरवन्दितः ॥ २४॥

पाशाङ्कुशाभयकरः सर्वतः पातु मां सदा । ग्रहभूतपिशाचेभ्यः पातु नित्यं गजाननः ॥ २५॥

सत्वं रजस्तमो वाचं बुद्धिं ज्ञानं स्मृतिं दयाम् । धर्मचतुर्विधं लक्ष्मीं लज्जां कीर्तिं कुलं वपुः ॥ २६॥

धनं धान्यं गृहं दारान् पौत्रान् सखींस्तथा । एकदन्तोऽवतु श्रीमान् सर्वतः शङ्करात्मजः ॥ २७॥

सिद्धिदं कीर्तिदं देवि प्रपठेन्नियतः शुचिः । एककालं द्विकालं वापि भक्तिमान् ॥ २८॥

न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते । सर्वपापविनिर्मुक्तो जायते भुवि मानवः ॥ २९॥

यं यं कामयते नित्यं सुदुर्लभमनोरथम् । तं तं प्राप्नोति सकलं षण्मासान्नात्र संशयः ॥ ३०॥

मोहनस्तम्भनाकर्षमारणोच्चाटनं वशम् । स्मरणादेव जायन्ते नात्र कार्या विचारणा ॥ ३१॥

सर्वविघ्नहरं देवं ग्रहपीडानिवारणम् । सर्वशत्रुक्षयकरं सर्वापत्तिनिवारणम् ॥ ३२॥

धृत्वेदं कवचं देवि यो जपेन्मन्त्रमुत्तमम् । न वाच्यते स विघ्नौघैः कदाचिदपि कुत्रचित् ॥ ३३॥

भूर्जे लिखित्वा विधिवद्धारयेद्यो नरः शुचिः । एकबाहो शिरः कण्ठे पूजयित्वा गणाधिपम् ॥ ३४॥

एकाक्षरस्य मन्त्रस्य कवचं देवि दुर्लभम् । यो धारयेन्महेशानि न विघ्नैरभिभूयते ॥ ३५॥

गणेशहृदयं नाम कवचं सर्वसिद्धिदम् । पठेद्वा पाठयेद्वापि तस्य सिद्धिः करे स्थिता ॥ ३६॥

न प्रकाश्यं महेशानि कवचं यत्र कुत्रचित् । दातव्यं भक्तियुक्ताय गुरुदेवपराय च ॥ ३७॥

॥ इति श्रीरुद्रयामले एकाक्षरगणपतिकवचं अथवा त्रैलोक्यमोहनकवचं सम्पूर्णम् ॥

પાઠ જપ: 0/108