સનાતન સ્તોત્ર સંગ્રહ
શ્રીગણેશ
સનાતન દેવ

.. શ્રીઉચ્છિષ્ટગણપતિસહસ્રનામસ્તોત્રમ્ ..

॥ श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 8
23px

श्रीउच्छिष्टगणपतिसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः ।

श्रीभैरव उवाच । श‍ृणु देवि रहस्यं मे यत्पुरा सूचितं मया । तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १॥

श्रीदेव्युवाच । ॐ भगवन्गणनाथस्य उच्छिष्टस्य महात्मनः । श्रोतुं नाम सहस्रं मे हृदयं प्रोत्सुकायते ॥ २॥

श्रीभैरव उवाच । प्राङ्मुखे त्रिपुरानाथे जाता विघ्नकुलाः शिवे । मोहने मुच्यते चेतस्तैः सर्वैर्बलदर्पितैः ॥ ३॥

तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः । विघ्ना दूरात्पलायन्ते कालरुद्रादिव प्रजाः ॥ ४॥

तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः । तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५॥

तदद्य तव भक्त्याहं साधकानां हिताय च । महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६॥

ॐ अस्य श्रीउच्छिष्टगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः । गायत्री छन्दः । श्रीमहागणपतिर्देवता । गं बीजम् । ह्रीं शक्तिः । कुरुकुरु कीलकम् । मम धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥

ॐ ह्रीं श्रीं क्लीं गणाध्यक्षो ग्लौं गँ गणपतिर्गुणी । गुणाढ्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ७॥

विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी । सदा शान्तो जगत्त्राता विश्वावर्तो विभाकरः ॥ ८॥

विश्रम्भी विजयो वैद्यो वारान्निधिरनुत्तमः । अणिमाविभवः श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ ९॥

सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः । पतिः पीतविभूषाङ्को रक्ताक्षो लोहिताम्बरः ॥ १०॥

विरूपाक्षो विमानस्थो विनीतः सदस्यः सुखी । सात्वतः सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ ११॥

नन्दीश्वरो जयानन्दी वन्द्यः स्तुत्यो विचक्षणः । दैत्यमर्द्दी सदाक्षीबो मदिरारुणलोचनः ॥ १२॥

सारात्मा विश्वसारश्च विश्वसारो(२) विलेपनः । परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १३॥

विश्वेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्द्धनः । भृङ्गिरिटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १४॥

विनर्तको विनीतोऽपि विनतानन्दनार्चितः । वैनतेयो विनम्राङ्गो विश्वनायकनायकः ॥ १५॥

विराटको विराटश्च विदग्धो विधुरात्मभूः । पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १६॥

पुष्पेषुमथनः पुष्टो विवर्तः कर्तरीकरः । अन्त्योऽन्तकश्चित्तगणाश्चित्तचिन्तापहारकः ॥ १७॥

अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः । लोहितो लिपितो लुप्तो लोहिताक्षो विलोभकः ॥ १८॥

लब्धाशयो लोभरतो लोभदोऽलङ्घ्यगर्धकः । सुन्दरः सुन्दरीपुत्रः समस्तासुरघातकः ॥ १९॥

नूपुराढ्यो विभवेन्द्रो नरनारायणो रविः । विचारो वान्तदो वाग्मी वितर्की विजयीश्वरः ॥ २०॥

सुजो बुद्धः सदारूपः सुखदः सुखसेवितः । विकर्तनो विपच्चारी विनटो नटनर्तकः ॥ २१॥

नटो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः । गङ्गाजलपानप्रियो गङ्गातीरविहारकृत् ॥ २२। गङ्गाप्रियो गङ्गजश्च वाहनादिपुरःसरः । गन्धमादनसंवासो गन्धमादनकेलिकृत् ॥ २३॥

गन्धानुलिप्तपूर्वाङ्गः सर्वदेवस्मरः सदा । गणगन्धर्वराजेशो गणगन्धर्वसेवितः ॥ २४॥

गन्धर्वपूजितो नित्यं सर्वरोगविनाशकः । गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ २५॥

गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतः । गन्धर्वगर्वसंवेगो गन्धर्ववरदायकः ॥ २६॥

गन्धर्वप्रबलार्तिघ्नो गन्धर्वगणसंयुतः । गन्धर्वादिगुणानन्दो नन्दोऽनन्तगुणात्मकः ॥ २७॥

विश्वमूर्तिर्विश्वधाता विनतास्यो विनर्तकः । करालः कामदः कान्तः कमनीयः कलानिधिः ॥ २८॥

कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः । विकरालो रणश्रेष्ठः संहारो हारभूषणः ॥ २९॥

उरुरभ्यमुखो रक्तो देवतादयितौरसः । महाकालो महादंष्ट्रो महोरगभयानकः ॥ ३०॥

उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः । सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ॥ ३१॥

असितात्मा भैरवेशो भाग्यवान्भगवान्भवः । गर्भात्मजो भगावासो भगदो भगवर्द्धनः ॥ ३२॥

शुभङ्करः शुचिः शान्तः श्रेष्ठः श्रव्यः शचीपतिः । वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ॥ ३३॥

विद्याप्रदो वेदरसो वैदिको वेदपारगः । वेदध्वनिरतो वीरो वेदविद्यागमोऽर्थवित् ॥ ३४॥

तत्त्वज्ञः सर्वगः साधुः सदयः सदसन्मयः । शिवशङ्करः शिवसुतः शिवानन्दविवर्द्धनः ॥ ३५॥

शैत्यः श्वेतः शतमुखो मुग्धो मोदकभूषणः । देवो दिनकरो धीरो धृतिमान्द्युतिमान्धवः ॥ ३६॥

शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः । शरण्यः शौनकः शूरः शरदम्भोजधारकः ॥ ३७॥ न् दारकः शिखिवाहेष्टः सितः शङ्करवल्लभः । शङ्करो निर्भयो नित्यो लयकृल्लास्यतत्परः ॥ ३८॥

लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः । भ्रमणः शशिभृत्सूर्यः शनिर्धरणिनन्दनः ॥ ३९॥

बुधो विबुधसेव्यश्च बुधराजो बलंधरः । जीवो जीवप्रदो जेता स्तुत्यो नित्यो रतिप्रियः ॥ ४०॥

जनको जनमार्गज्ञो जनरक्षणतत्परः । जनानन्दप्रदाता च जनकाह्लादकारकः ॥ ४१। विबुधो बुधमान्यश्च जैनमार्गनिवर्तकः । गच्छो गणपतिर्गच्छनायको गच्छगर्वहा ॥ ४२॥

गच्छराजोथ गच्छेथो गच्छराजनमस्कृतः । गच्छप्रियो गच्छगुरुर्गच्छत्राकृद्यमातुरः ॥ ४३॥

गच्छप्रभुर्गच्छचरो गच्छप्रियकृताद्यमः । गच्छगीतगुणोगर्तो मर्यादाप्रतिपालकः ॥ ४४॥

गीर्वाणागमसारस्य गर्भो गीर्वाणदेवता । गौरीसुतो गुरुवरो गौराङ्गो गणपूजितः ॥ ४५॥

परम्पदं परन्धाम परमात्मा कविः कुजः । राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ॥ ४६॥

ग्रहेन्द्रो ग्रहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः । पर्जन्यः पीवरः पत्री पीनवक्षाः पराक्रमी ॥ ४७॥

वनेचरो वनस्पतिर्वनवासी स्मरोपमः । पुण्यः पूतः पवित्रश्च परात्मा पूर्णाविग्रहः ॥ ४८॥

पूर्णेन्दुसुकलाकारो मन्त्रपूर्णमनोरथः । युगात्मा युगकृद्यज्वा याज्ञिको यज्ञवत्सलः ॥ ४९॥

यशस्यो यजमानेष्टो वज्रभृद्वज्रपञ्जरः । मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ॥ ५०॥

मीनध्वजो मनोहारी योगिनां योगवर्धनः । द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ॥ ५१॥

तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः । सम्पत्तिसदनाकारः सम्पत्तिसुखदायकः ॥ ५२॥

सम्पत्तिसुखकर्ता च सम्पत्तिसुभगाननः । सम्पत्तिशुभदो नित्यसम्पत्तिश्च यशोधनः ॥ ५३॥

रुचको मेचकस्तुष्टः प्रभुस्तोमरघातकः । दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ५४॥

कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः । भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ५५॥

जालन्धरो जगद्वासी हास्यकृद्गहनो गुहः । हविष्मान्हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ५६॥

सुमेरुर्हिमवान्होता हरपुत्रो हलङ्कषः । हालाप्रियो हृदा शान्तः कान्ताहृदयपोषणः ॥ ५७॥

शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः । कुबेरो धीमयो ध्याता ध्येयो धीमान्दयानिधिः ॥ ५८॥

दविष्ठो दमनो हृष्टो दाता त्राता पितासमः । निर्गतो नैगमोऽगम्यो निर्जयो जटिलोऽजरः ॥ ५९॥

जनजीवो जितारातिर्जगद्व्यापी जगन्मयः । चामीकरनिभो नाभ्यो नलिनायतलोचनः ॥ ६०॥

रोचनो मोचको मन्त्री मन्त्रकोटिसमाश्रितः । पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ६१॥

पञ्चमः पश्चिमः पूर्वः पूर्णः कीर्णालकः कुणिः । कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ६२॥

लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् । ध्रुवो द्रुतगतिर्बन्धो धर्मी नाकिप्रियोऽनलः ॥ ६३॥

अङ्गुल्यग्रस्थभुवनो भुवनैकमलापहः । सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ६४॥

सतीपतिः समरसः सनकः सरलः सरः । सुरप्रियो वसुमतिर्वासवो वसुपूजितः ॥ ६५॥

वित्तदो वित्तनाथश्च धनिनां धनदायकः । राजीवनयनः स्मार्तः स्मृतिदः कृत्तिकाम्बरः ॥ ६६॥

अश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः । कृत्तिकासनकः कोलो रोहिणीरमणोपमः ॥ ६७॥

रौहिणेयप्रेमकरो रोहिणीमोहनो मृगः । मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ६८॥

आर्द्राननो महाबुद्धिर्महोरगविभूषणः । भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६९॥

पुनर्देव: पुनर्जेता पुनर्जीवः पुनर्वसुः । तिमिरास्तिमिकेतुश्च तिमिषासुरघातनः ॥ ७०॥

तिष्यस्तुलाधरो जृम्भो विश्लेषाश्लेषदानराट् । मानदो माधवो माधो वाचालो मघवोपमः ॥ ७१॥

मध्यो मघाप्रियो मेघो महाशुण्डो महाभुजः । पूर्वफाल्गुनिकः स्फीत फल्गुरुत्तरफाल्गुनः ॥ ७२॥

फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः । घोणाहस्तश्चतुर्हस्तो हस्तिवन्ध्यो हलायुधः ॥ ७३॥

चित्राम्बरार्चितपदः स्वस्तिदः स्वस्तिनिग्रहः । विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ७४॥

अणुरेणूत्करः स्फारो रुरुरेणुसुतो नरः । अनुराधाप्रियो राधः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ७५॥

ज्येष्ठः श्रेष्ठार्चितपदो मूलं च त्रिजगद्गुरुः । शुचिश्चैव पूर्वाषाढश्चोत्तराषाढ ईश्वरः ॥ ७६॥

श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः । श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ७७॥

शातातपः शातकुम्भः शरज्ज्योतिः शताभिषक् । पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ७८॥

रेणुकातनयो रामो रेवतीरमणो रमी । आश्वयुक्कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ । ७९॥

पोषेश्वरः फाल्गुनात्मा वसन्तश्चैत्रको मधुः । राज्यदोऽभिजिदात्मेयस्तारेशस्तारकद्युतिः ॥ ८०॥

प्रतीतः प्रोर्जितः प्रीतः परमः परमो हितः । परहा पञ्चभूः पञ्चवायुपूज्यपरिग्रहः ॥ ८१॥

पुराणागमविद्योगी महिषो रासभोऽग्रजः । ग्रहो मेषो मृषो मन्दो मन्मथो मिथुनाकृतिः ॥ ८२॥

कल्पभृत्कटको दीपो मर्कटः कर्कटो धृणिः । कुक्कुटो वनजो हंसः परमहंसः सृगालकः ॥ ८३॥

सिंहा सिंहासनाभूष्यो मद्गुर्मूषकवाहनः । पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ८४॥

अतुल्यरूपो बलदस्तुल्यभृत्तुल्यसाक्षिकः । अलिश्चापधरो धन्वी कच्छपो मकरो मणिः ॥ ८५॥

कुम्भभृत्कलशः कुब्जो मीनमांससुतर्पितः । राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ ८६॥

प्रतापी प्रतिपत्प्रेयोऽद्वितीयोऽद्वैतनिश्चितः । त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ ८७॥

चतुर्थीवल्लभो देवो परागः पञ्चमीश्वरः । षड्रसास्वादविज्ञानः षष्ठीषष्टिकवत्सलः ॥ ८८॥

सप्तार्णवगतिः सारः सप्तमीश्वररोहितः । अष्टमीनन्दनोत्तंसो नवमीभक्तिभावितः ॥ ८९॥

दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः । एकादशात्मगणयो द्वादशीयुगचर्चितः ॥ ९०॥

त्रयोदशमणिस्तुत्यश्चतुर्दशस्वरप्रियः । चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ ९१॥

दर्शदर्शो दर्शनश्च वानप्रस्थो महेश्वरः । मौर्वी मधुरवाङ्मूलमूर्तिमान्मेघवाहनः ॥ ९२॥

महागजो जितक्रोधो जितशत्रुर्जयाश्रयः । रौद्रो रुद्रप्रियो रुद्रो रुद्रपुत्रोऽघनाशनः ॥ ९३॥

भवप्रियो भवानीष्टो भारभृद्भूतभावनः । गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्टरश्रवाः ॥ ९४॥

वृत्रहा विघ्नहा सीरः समस्तदुःखतापहा । मञ्जुलो मार्जरो मत्तो दुर्गापुत्रो दुरालसः ॥ ९५॥

अनन्तचित्सुधाधोरो वीरो वीर्यैकसाधकः । भास्वन्मुकुटमाणिक्यः कूजत्किङ्किंणिजालकः ॥ ९६॥

शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः । पद्माक्षः पद्महस्तश्च पद्मनाभसमर्चितः ॥ ९७॥

उद्धृताधरदन्ताढ्यो मालाभूषणभूषितः । मारदो वारणो लोलश्रवणः शूर्पकर्णकः ॥ ९८॥

बृहदुल्लासनासाढ्यो व्याप्तत्रैलोक्यमण्डलः । रत्नमण्डलमध्यस्थः कृशानुरूपशीलकः ॥ ९९॥

बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः । बृहदास्यरवाक्रान्तभीतब्रह्माण्डभाण्डकः ॥ १००॥

बृहत्पादसमाक्रान्तसप्तपातालदीपितः । बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ १०१॥

बृहद्धस्तधृताशेषायुधनिर्जितदानवः । स्फूरत्सिन्दूरवदनः स्फूरत्तेजोऽग्निलोचनः ॥ १०२॥

उद्दीपितमणिः स्फूर्जन्नूपुरध्वनिनादितः । चलत्तोयप्रवाहाढ्यो नदीजलकणाकरः ॥ १०३॥

भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः । ब्रह्माच्युतमहारुद्रपुरस्सरसुरार्चितः ॥ १०४॥

अशेषशेषप्रभृतिव्यालजालोपसेवितः । गर्जत्पञ्चाननारावव्याप्ताकाशधरातलः ॥ १०५॥

हाहाहूहूगतात्युग्रस्वरविभ्रान्तमानसः । पञ्चाशद्वर्णबीजाख्यमन्त्रमन्त्रितविग्रहः ॥ १०६॥

वेदान्तशास्त्रपीयूषधाराऽऽप्लावितभूतलः । शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ १०७॥

चिन्तामणिर्महामल्लो बल्लहस्तो बलिः कविः । कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ १०८॥

द्वापरः परलोकैकः कर्मध्वान्तसुधाकरः । सुधाऽऽसिक्तवपुर्व्यासो ब्रह्माण्डादिकबाहुकः ॥ १०९॥

अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः । अकाराकारप्रोद्गीतताननादनिनादितः ॥ ११०॥

इकारेकारमत्राढ्यमालाभ्रमणलालसः । उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ १११॥

ऋवर्णाङ्कितॠकारिपद्मद्वयसमुज्ज्वलः । लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ ११२॥

एकारैककारगिरिजास्तनपानविचक्षणः । ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ ११३॥

अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः । कर्णतालकृतात्युच्चैर्वायुवीजितनिर्झरः ॥ ११४॥

खगेशध्वजरत्नाङ्ककिरीटारुणपादकः । गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ ११५॥

घनवाहनवागीशपुरस्सरसुरार्चितः । ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ ११६॥

चन्द्रकुङ्कुमजम्बाललिप्तसिन्दूरविग्रहः । छत्रचामररत्नाढ्यभ्रुकुटालङ्कृताननः ॥ ११७॥

जटाबद्धमहानर्घमणिपङ्क्तिविराजितः । झङ्कारिमधुपव्रातगाननादविनादितः ॥ ११८॥

ञवर्णकृतसंहारदैत्यासृक्पर्णमुद्गरः । टकाराख्याफलास्वादवेपिताशेषमूर्धजः ॥ ११९॥

ठकाराद्यडकाराङ्कढकारानन्दतोषितः । णवर्णामृतपीयूषधाराधारसुधाकरः ॥ १२०॥

ताम्रसिन्दूरपूजाढ्यललाटफलकच्छविः । थकारघनपङ्क्त्यातिसन्तोषिताद्विजव्रजः ॥ १२१॥

दयामृतहृदम्भोजधृतत्रैलोक्यमण्डलः । धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १२२॥

नमिताशेषदेवौघकिरीटमणिरञ्जितः । परवर्गापवर्गादिभोगेच्छेदनदक्षकः ॥ १२३॥

फणिचक्रसमाक्रान्तगलमण्डलमण्डितः । बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरसुरः ॥ १२४॥

भवानीहृदयानन्दवर्द्धनैकनिशाकरः । मदिराकलशस्फीतकरालैककराम्बुजः ॥ १२५॥

यज्ञान्तरायसङ्घातसज्जीकृतवरायुधः । रत्नाकरसुताकान्तिक्रान्तिकीर्तिविवर्धनः ॥ १२६॥

लम्बोदरमहाभीमवपुर्दीप्तकृतासुरः । वरुणादिदिगीशानस्वर्चितार्चनचर्चितः ॥ १२७॥

शङ्करैकप्रियप्रेमनयनान्दवर्द्धनः । षोडशस्वरितालापगीतगानविचक्षणः ॥ १२८॥

समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः । हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ १२९॥

क्षमापूरितहृत्पद्मसंरक्षितचराचरः । ताराङ्कमन्त्रवर्णैकाविग्रहोज्ज्वलविग्रहः ॥ १३०॥

अकारादिक्षकारान्तविद्याभूषितविग्रहः । ॐ श्रीविनायको ॐ ह्रीं विघ्नाध्यक्षो गणाधिपः ॥ १३१॥

हेरम्बो मोदकाहारो वक्रतुण्डो विधिः स्मृतः । वेदान्तगीतो विद्यार्थिसिद्धमन्त्रः षडक्षरः ॥ १३२॥

गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः । सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ १३३॥

गाङ्गेयो गणसेव्यश्च ॐ श्रीद्वैमातुरः शिवः । ॐ ह्रीं श्रीं क्लीं ग्लौं गँ देवो महागणपतिः प्रभुः ॥ १३४॥

इदं नामसहस्रं तु महागणपतेः स्मृतम् । गुह्यं गोप्यतमं सिद्धं सर्वतन्त्रेषु गोपितम् ॥ १३५॥

सर्वमन्त्रमयं दिव्यं सर्वविघ्नविनाशनम् । ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ १३६॥

सर्वाविद्यामयं ब्रह्मसाधनं साधकप्रियम् । गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ १३७॥

यथेष्टफलदं लोके मनोरथप्रपूरणम् । अष्टसिद्धिमयं श्रेष्ठं साधकानां जयप्रदम् ॥ १३८॥

विनार्चनं विना होमं विनान्यासं विना जपम् । अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ १३९॥

चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे । लिखेद्भूर्जे महादेवि ! पुण्यं नामसहस्रकम् ॥ १४०॥

धारयेत्तं चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे । योषिद्वामकरे चैव पुरुषो दक्षिणे भुजे ॥ १४१॥

स्तम्भयेदपि ब्रह्याणं मोहयेदपि शङ्करम् । वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ १४२॥

उच्चाटयेच्च गीर्वाणं शमयेच्च धनञ्जयम् । वन्ध्या पुत्रं लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ १४३॥

त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे । नग्नः शक्तियुतो देवि भुक्त्वा भोगान्यथेप्सितान् ॥ १४४॥

प्रत्यक्षवरदं पश्येद्गणेशं साधकोत्तमः । य इदं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १४५॥

तस्य वित्तादिविभवोदारायुः सम्पदः सदा । रणे राजमये द्यूते पठेन्नामसहस्रकम् ॥ १४६॥

सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ॥ १४७॥

इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् । महागणपतेः पुण्यं गोपनीयं स्वयोनिवत् ॥ १४७॥

॥ इति श्रीरुद्रयामलतन्त्रे श्रीमदुच्छिष्टगणेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥

પાઠ જપ: 0/108