সনাতন স্তোত্র মঞ্জরী
1008 Sahasranamawali
সনাতন দেব

॥ শ্রীগণেশ গকারসহস্রনামাবলিঃ ॥

॥ श्रीगणेश गकारसहस्रनामावलिः ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 1
23px

श्रीगणेश गकारसहस्रनामावलिः

ॐ श्री महागणपतये नमः ॐ गणेश्वराय नमः । ॐ गणाध्यक्षाय नमः । ॐ गणाराध्याय नमः । ॐ गणप्रियाय नमः । ॐ गणनाथाय नमः । ५। ॐ गणस्वामिने नमः । ॐ गणेशाय नमः । ॐ गणनायकाय नमः । ॐ गणमूर्तये नमः । ॐ गणपतये नमः । १०। ॐ गणत्रात्रे नमः । ॐ गणंजयाय नमः । ॐ गणपाय नमः । ॐ गणक्रीडाय नमः । ॐ गणदेवाय नमः । १५। ॐ गणाधिपाय नमः । ॐ गणज्येष्ठाय नमः । ॐ गणश्रेष्ठाय नमः । ॐ गणप्रेष्ठाय नमः । ॐ गणाधिराजाय नमः । २०। ॐ गणराजे नमः । ॐ गणगोप्त्रे नमः । ॐ गणाङ्गाय नमः । ॐ गणदैवताय नमः । ॐ गणबंधवे नमः । २५। ॐ गणसुहृदे नमः । ॐ गणाधीशाय नमः । ॐ गणप्रदाय नमः । ॐ गणप्रियसखाय नमः । ॐ गणप्रियसुहृदे नमः । ३०। ॐ गणप्रियरतोनित्याय नमः । ॐ गणप्रीतिविवर्धनाय नमः । ॐ गणमण्डलमध्यस्थाय नमः । ॐ गणकेलिपरायणाय नमः । ॐ गणाग्रण्ये नमः । ३५। ॐ गणेशाय नमः । ॐ गणगीताय नमः । ॐ गणोच्छ्रयाय नमः । ॐ गण्याय नमः । ॐ गणहिताय नमः । ४०। ॐ गर्जद्गणसेनाय नमः । ॐ गणोद्यताय नमः । ॐ गणप्रीतिप्रमतनाय नमः । ॐ गणप्रीत्यपहारकाय नमः । ॐ गणनार्हाय नमः । ४५। ॐ गणप्रौढाय नमः । ॐ गणभर्त्रे नमः । ॐ गणप्रभवे नमः । ॐ गणसेनाय नमः । ॐ गणचराय नमः । ५०। ॐ गणप्राज्ञाय नमः । ॐ गणैकराजे नमः । ॐ गणाग्र्याय नमः । ॐ गण्यनाम्ने नमः । ॐ गणपालनतत्पराय नमः । ५५। ॐ गणजिते नमः । ॐ गणगर्भस्थाय नमः । ॐ गणप्रवणमानसाय नमः । ॐ गणगर्वपरिहर्त्रे नमः । ॐ गणाय नमः । ६०। ॐ गणनमस्कृते नमः । ॐ गणार्चितांघ्रियुगलाय नमः । ॐ गणरक्षणकृते नमः । ॐ गणध्याताय नमः । ॐ गणगुरवे नमः । ६५। ॐ गणप्रणयतत्पराय नमः । ॐ गणागणपरित्रात्रे नमः । ॐ गणादिहरणोदराय नमः । ॐ गणसेतवे नमः । ॐ गणनाथाय नमः । ७०। ॐ गणकेतवे नमः । ॐ गणाग्रगाय नमः । ॐ गणहेतवे नमः । ॐ गणग्राहिणे नमः । ॐ गणानुग्रहकारकाय नमः । ७५। ॐ गणागणानुग्रहभुवे नमः । ॐ गणागणवरप्रदाय नमः । ॐ गणस्तुताय नमः । ॐ गणप्राणाय नमः । ॐ गणसर्वस्वदायकाय नमः । ८०। ॐ गणवल्लभमूर्तये नमः । ॐ गणभूतये नमः । ॐ गणेष्ठदाय नमः । ॐ गणसौख्यप्रदाय नमः । ॐ गणदुःखप्रणाशनाय नमः । ८५। ॐ गणप्रथितनाम्ने नमः । ॐ गणाभीष्टकराय नमः । ॐ गणमान्याय नमः । ॐ गणख्याताय नमः । ॐ गणवीताय नमः । ९०। ॐ गणोत्कटाय नमः । ॐ गणपालाय नमः । ॐ गणवराय नमः । ॐ गणगौरवदाय नमः । ॐ गणगर्जितसंतुष्टाय नमः । ९५। ॐ गणस्वच्छंदगाय नमः । ॐ गणराजाय नमः । ॐ गणश्रीदाय नमः । ॐ गणभीतिहराय नमः । ॐ गणमूर्धाभिषिक्ताय नमः । १००। ॐ गणसैन्यपुरःसराय नमः । ॐ गुणातीताय नमः । ॐ गुणमयाय नमः । ॐ गुणत्रयविभगकृते नमः । ॐ गुणिने नमः । १०५। ॐ गुणकृतिधराय नमः । ॐ गुणशालिने नमः । ॐ गुणप्रियाय नमः । ॐ गुणपूर्णाय नमः । ॐ गुणभोधये नमः । ११०। ॐ गुण भाजे नमः । ॐ गुणदूरगाय नमः । ॐ गुणागुणवपुषे नमः । ॐ गुणशरीराय नमः । ॐ गुणमण्डिताय नमः । ११५। ॐ गुणस्रष्ट्रे नमः । ॐ गुणेशाय नमः । ॐ गुणेशानाय नमः । ॐ गुणेश्वराय नमः । ॐ गुणसृष्टजगत्संगाय नमः । १२०। ॐ गुणसंघाय नमः । ॐ गुणैकराजे नमः । ॐ गुणप्रविष्टाय नमः । ॐ गुणभुवे नमः । ॐ गुणीकृतचराचराय नमः । १२५। ॐ गुणप्रवणसंतुष्टाय नमः । ॐ गुणहीनपराङ्मुखाय नमः । ॐ गुणैकभुवे नमः । ॐ गुणश्रेष्टाय नमः । ॐ गुणज्येष्टाय नमः । १३०। ॐ गुणप्रभवे नमः । ॐ गुणज्ञाय नमः । ॐ गुणसंपूज्याय नमः । ॐ गुणप्रणतपादाब्जाय नमः । ॐ गुणिगीताय नमः । १३५। ॐ गुणोज्ज्वलाय नमः । ॐ गुणवते नमः । ॐ गुणसंपन्नाय नमः । ॐ गुणानन्दितमानसाय नमः । ॐ गुणसंचारचतुराय नमः । १४०। ॐ गुणसंचयसुंदराय नमः । ॐ गुणगौराय नमः । ॐ गुणाधाराय नमः । ॐ गुणसंवृतचेतनाय नमः । ॐ गुणकृते नमः । १४५। ॐ गुणभृते नमः । ॐ गुण्याय नमः । ॐ गुणाग्रयाय नमः । ॐ गुणपारदृशे नमः । ॐ गुणप्रचारिणे नमः । १५०। ॐ गुणयुजे नमः । ॐ गुणागुणविवेककृते नमः । ॐ गुणाकराय नमः । ॐ गुणप्रवणवर्धनाय नमः । ॐ गुणगूढचराय नमः । १५५। ॐ गौणसर्वसंसारचेष्टिताय नमः । ॐ गुणदक्षिणसौहार्दाय नमः । ॐ गुणदक्षिणतत्त्वविदे नमः । ॐ गुणहारिणे नमः । १६०। ॐ गुणकलाय नमः । ॐ गुणसंघसखाय नमः । ॐ गुणस,न्स्कृतसंसाराय नमः । ॐ गुणतत्त्वविवेकाय नमः । ॐ गुणगर्वधराय नमः । १६५। ॐ गौणसुखदुःखोदयाय नमः । ॐ गुणाय नमः । ॐ गुणाधीशाय नमः । ॐ गुणालयाय नमः । ॐ गुणवीक्षणालालसाय नमः । १७०। ॐ गुणगौरवदात्रे नमः । ॐ गुणदात्रे नमः । ॐ गुणप्रभ्वे नमः । ॐ गुणकृते नमः । ॐ गुणसंबोधाय नमः । १७५। ॐ गुणभुजे नमः । ॐ गुणबंधनाय नमः । ॐ गुणहृद्याय नमः । ॐ गुणस्थायिने नमः । ॐ गुणदायिने नमः । १८०। ॐ गुणोत्कटाय नमः । ॐ गुणचक्रचराय नमः । ॐ गुणावताराय नमः । ॐ गुणबांधवाय नमः । ॐ गुणबंधवे नमः । १८५। ॐ गुणप्रज्ञाय नमः । ॐ गुणप्राज्ञाय नमः । ॐ गुणालयाय नमः । ॐ गुणधात्रे नमः । ॐ गुणप्राणाय नमः । १९०। ॐ गुणगोपाय नमः । ॐ गुणाश्रयाय नमः । ॐ गुणयायिने नमः । ॐ गुणदायिने नमः । ॐ गुणपाय नमः । १९५। ॐ गुणपालकाय नमः । ॐ गुणहृततनवे नमः । ॐ गौणाय नमः । ॐ गीर्वाणाय नमः । ॐ गुणगौरवाय नमः । २००। ॐ गुणवत्पूजितपदाय नमः । ॐ गुणवत्प्रीतिदाय नमः । ॐ गुणवते नमः । ॐ गीतकीर्तये नमः । ॐ गुणवद्भद्धसौहृदाय नमः । २०५। ॐ गुणवद्वरदाय नमः । ॐ गुणवत्प्रतिपालकाय नमः । ॐ गुणवत्गुणसंतुष्टाय नमः । ॐ गुणवद्रचितद्रवाय नमः । ॐ गुणवद्रक्षणपराय नमः । २१०। ॐ गुणवात्प्रणयप्रियाय नमः । ॐ गुणवच्चक्रसंचाराय नमः । ॐ गुणवत्कीर्तिवर्धनाय नमः । ॐ गुणवद्गुणचित्तस्थाय नमः । ॐ गुणवद्गुणरक्षणाय नमः । २१५। ॐ गुणवत्पोषणकराय नमः । ॐ गुणवच्छत्रुसूदनाय नमः । ॐ गुणवत्सिद्धिदात्रे नमः । ॐ गुणवद्गौरवप्रदाय नमः । ॐ गुणवत्प्रणवस्वांताय नमः । २२०। ॐ गुणवद्गुणभूषणाय नमः । ॐ गुणवत्कुलविद्वेषि विनाशकरण- क्षमाय नमः । ॐ गुणिस्तुतगुणाय नमः । ॐ गर्जत्प्रलयांबुदनिःस्वनाय नमः । ॐ गजाय नमः । २२५। ॐ गजाननाय नमः । ॐ गजपतये नमः । ॐ गर्जन्नागयुद्धविशारदाय नमः । ॐ गजकर्णाय नमः । ॐ गजराजाय नमः । २३०। ॐ गजाननाय नमः । ॐ गजरूपधराय नमः । ॐ गर्जते नमः । ॐ गजयूथोद्धुरध्वनये नमः । ॐ गजाधीशाय नमः । २३५। ॐ गजाधराय नमः । ॐ गजासुरजयोद्धुरय नमः । ॐ गजदंताय नमः । ॐ गजवराय नमः । ॐ गजकुंभाय नमः । २४०। ॐ गजध्वनये नमः । ॐ गजमायाय नमः । ॐ गजमयाय नमः । ॐ गजश्रिये नमः । ॐ गजगर्जिताय नमः । २४५। ॐ गजामयहराय नमः । ॐ गजपुष्टिप्रदाय नमः । ॐ गजोत्पत्तये नमः । ॐ गजत्रात्रे नमः । ॐ गजहेतवे नमः । २५०। ॐ गजाधिपाय नमः । ॐ गजमुख्याय नमः । ॐ गजकुलप्रवराय नमः । ॐ गजदैत्यघ्ने नमः । ॐ गजकेतवे नमः । २५५। ॐ गजाध्यक्षाय नमः । ॐ गजसेतवे नमः । ॐ गजाकृतये नमः । ॐ गजवंद्याय नमः । ॐ गजप्राणाय नमः । २६०। ॐ गजसेव्याय नमः । ॐ गजप्रभवे नमः । ॐ गजमत्ताय नमः । ॐ गजेशानाय नमः । ॐ गजेशाय नमः । २६५। ॐ गजपुंगवाय नमः । ॐ गजदंतधराय नमः । ॐ गर्जन्मधुपाय नमः । ॐ गजवेषभृते नमः । ॐ गजच्छद्मने नमः । २७०। ॐ गजाग्रस्थाय नमः । ॐ गजयायिने नमः । ॐ गजाजयाय नमः । ॐ गजराजे नमः । ॐ गजयूथस्थाय नमः । २७५। ॐ गजगर्जकभंजकाय नमः । ॐ गर्जितोज्झितदैत्यासिने नमः । ॐ गर्जितत्रातविष्टपाय नमः । ॐ गानज्ञाय नमः । ॐ गानकुशलाय नमः । २८०। ॐ गानतत्त्वविवेचकाय नमः । ॐ गानश्लाघिने नमः । ॐ गानरसाय नमः । ॐ गानज्ञानपरायणाय नमः । ॐ गानागमज्ञाय नमः । २८५। ॐ गानांगाय नमः । ॐ गानप्रवणचेतनाय नमः । ॐ गानध्येयाय नमः । ॐ गानगम्याय नमः । ॐ गानध्यानपरायणाय नमः । २९०। ॐ गानभुवे नमः । ॐ गानकृते नमः । ॐ गानचतुराय नमः । ॐ गानविद्याविशारदाय नमः । ॐ गानशीलाय नमः । २९५। ॐ गानशालिने नमः । ॐ गतश्रमाय नमः । ॐ गानविज्ञानसंपन्नाय नमः । ॐ गानश्रवणलालसाय नमः । ॐ गानायत्ताय नमः । ३००। ॐ गानमयाय नमः । ॐ गानप्रणयवते नमः । ॐ गानध्यात्रे नमः । ॐ गानबुद्धये नमः । ॐ गानोत्सुकमनसे नमः । ३०५। ॐ गानोत्सुकाय नमः । ॐ गानभूमये नमः । ॐ गानसीम्ने नमः । ॐ गानोज्ज्वलाय नमः । ॐ गानांगज्ञानवते नमः । ३१०। ॐ गानमानवते नमः । ॐ गानपेशलाय नमः । ॐ गानवत्प्रणयाय नमः । ॐ गानसमुद्राय नमः । ॐ गानभूषणाय नमः । ३१५। ॐ गानसिंधवे नमः । ॐ गानपराय नमः । ॐ गानप्राणाय नमः । ॐ गणाश्रयाय नमः । ॐ गनैकभुवे नमः । ३२०। ॐ गानहृष्टाय नमः । ॐ गानचक्षुषे नमः । ॐ गनैकदृशे नमः । ॐ गानमत्ताय नमः । ॐ गानरुचये नमः । ३२५। ॐ गानविदे नमः । ॐ गनवित्प्रियाय नमः । ॐ गानांतरात्मने नमः । ॐ गानाढ्याय नमः । ॐ गानभ्राजत्स्वभावाय नमः । ३३०। ॐ गनमायाय नमः । ॐ गानधराय नमः । ॐ गानविद्याविशोधकाय नमः । ॐ गानाहितघ्नाय नमः । ॐ गानेन्द्राय नमः । ३३५। ॐ गानलीलाय नमः । ॐ गतिप्रियाय नमः । ॐ गानाधीशाय नमः । ॐ गानलयाय नमः । ॐ गानाधाराय नमः । ३४०। ॐ गतीश्वराय नमः । ॐ गानवन्मानदाय नमः । ॐ गानभूतये नमः । ॐ गानैकभूतिमते नमः । ॐ गानताननताय नमः । ३४५। ॐ गानतानदानविमोहिताय नमः । ॐ गुरवे नमः । ॐ गुरूदरश्रेणये नमः । ॐ गुरुतत्त्वार्थदर्शनाय नमः । ॐ गुरुस्तुताय नमः । ३५०। ॐ गुरुगुणाय नमः । ॐ गुरुमायाय नमः । ॐ गुरुप्रियाय नमः । ॐ गुरुकीर्तये नमः । ॐ गुरुभुजाय नमः । ३५५। ॐ गुरुवक्षसे नमः । ॐ गुरुप्रभाय नमः । ॐ गुरुलक्षणसंपन्नाय नमः । ॐ गुरुद्रोहपराङ्मुखाय नमः । ॐ गुरुविद्याय नमः । ३६०। ॐ गुरुप्रणाय नमः । ॐ गुरुबाहुबलोच्छ्रयाय नमः । ॐ गुरुदैत्यप्राणहराय नमः । ॐ गुरुदैत्यापहारकाय नमः । ॐ गुरुगर्वहराय नमः । ३६५। ॐ गुरुप्रवराय नमः । ॐ गुरुदर्पघ्ने नमः । ॐ गुरुगौरवदायिने नमः । ॐ गुरुभीत्यपहारकाय नमः । ॐ गुरुशुण्डाय नमः । ३७०। ॐ गुरुस्कन्धाय नमः । ॐ गुरुजंघाय नमः । ॐ गुरुप्रथाय नमः । ॐ गुरुभालाय नमः । ॐ गुरुगलाय नमः । ३७५। ॐ गुरुश्रिये नमः । ॐ गुरुगर्वनुदे नमः । ॐ गुरवे नमः । ॐ गुरुपीनांसाय नमः । ॐ गुरुप्रणयलालसाय नमः । ३८०। ॐ गुरुमुख्याय नमः । ॐ गुरुकुलस्थायिने नमः । ॐ गुणगुरवे नमः । ॐ गुरुसंशयभेत्रे नमः । ॐ गुरुमानप्रदायकाय नमः । ३८५। ॐ गुरुधर्मसदाराध्याय नमः । ॐ गुरुधर्मनिकेतनाय नमः । ॐ गुरुदैत्यगलच्छेत्रे नमः । ॐ गुरुसैन्याय नमः । ॐ गुरुद्युतये नमः । ३९०। ॐ गुरुधर्माग्रण्याय नमः । ॐ गुरुधर्मधुरंधराय नमः । ॐ गरिष्ठाय नमः । ॐ गुरुसंतापशमनाय नमः । ॐ गुरुपूजिताय नमः । ३९५। ॐ गुरुधर्मधराय नमः । ॐ गौरवधर्मधराय नमः । ॐ गदापहाय नमः । ॐ गुरुशास्त्रविचारज्ञाय नमः । ॐ गुरुशास्त्रकृतोद्यमाय नमः । ४००। ॐ गुरुशास्त्रार्थनिलयाय नमः । ॐ गुरुशास्त्रालयाय नमः । ॐ गुरुमन्त्राय नमः । ॐ गुरुश्रेष्ठाय नमः । ॐ गुरुमन्त्रफलप्रदाय नमः । ४०५। ॐ गुरुस्त्रीगमनदोषप्रायश्चित्तनिवारकाय नमः । ॐ गुरुसंसारसुखदाय नमः । ॐ गुरुसंसारदुःखभिदे नमः । ॐ गुरुश्लाघापराय नमः । ॐ गौरभानुखंडावतंसभृते नमः । ४१०। ॐ गुरुप्रसन्नमूर्तये नमः । ॐ गुरुशापविमोचकाय नमः । ॐ गुरुकांतये नमः । ॐ गुरुमहते नमः । ॐ गुरुशासनपालकाय नमः । ४१५। ॐ गुरुतंत्राय नमः । ॐ गुरुप्रज्ञाय नमः । ॐ गुरुभाय नमः । ॐ गुरुदैवताय नमः । ॐ गुरुविक्रमसंचाराय नमः । ४२०। ॐ गुरुदृशे नमः । ॐ गुरुविक्रमाय नमः । ॐ गुरुक्रमाय नमः । ॐ गुरुप्रेष्ठाय नमः । ॐ गुरुपाखंडखंडकाय नमः । ४२५। ॐ गुरुगर्जितसंपूर्णब्रह्माण्डाय नमः । ॐ गुरुगर्जिताय नमः । ॐ गुरुपुत्रप्रियसखाय नमः । ॐ गुरुपुत्रभयापहाय नमः । ॐ गुरुपुत्रपरित्रात्रे नमः । ४३०। ॐ गुरुपुत्रवरप्रदाय नमः । ॐ गुरुपुत्रार्तिशमनाय नमः । ॐ गुरुपुत्राधिनाशनाय नमः । ॐ गुरुपुत्रप्राणदाय नमः । ॐ गुरुभक्तिपरायणाय नमः । ४३५। ॐ गुरुविज्ञानविभवाय नमः । ॐ गौरभानुवरप्रदाय नमः । ॐ गौरभानुसुताय नमः । ॐ गौरभानुत्रासापहारकाय नमः । ॐ गौरभानुप्रियाय नमः । ४४०। ॐ गौरभानवे नमः । ॐ गौरववर्धनाय नमः । ॐ गौरभानुपरित्रात्रे नमः । ॐ गौरभानुसखाय नमः । ॐ गौरभानुप्रभवे नमः । ४४५। ॐ गौरभानुमत्प्राणनाशनाय नमः । ॐ गौरीतेजःसमुत्पन्नाय नमः । ॐ गौरीहृदयनन्दनाय नमः । ॐ गौरीस्तनंधयाय नमः । ॐ गौरीमनोवाञ्चितसिद्धिकृते नमः । ४५०। ॐ गौराय नमः । ॐ गौरगुणाय नमः । ॐ गौरप्रकाशाय नमः । ॐ गौरभैरवाय नमः । ॐ गौरीशनन्दनाय नमः । ४५५। ॐ गौरीप्रियपुत्राय नमः । ॐ गदाधराय नमः । ॐ गौरीवरप्रदाय नमः । ॐ गौरीप्रणयाय नमः । ॐ गौरच्छवये नमः । ४६०। ॐ गौरीगणेश्वराय नमः । ॐ गौरीप्रवणाय नमः । ॐ गौरभावनाय नमः । ॐ गौरात्मने नमः । ॐ गौरकीर्तये। ४६५। ॐ गौरभावाय नमः । ॐ गरिष्ठदृशे नमः । ॐ गौतमाय नमः । ॐ गौतमीनाथाय नमः । ॐ गौतमीप्राणवल्लभाय नमः । ४७०। ॐ गौतमाभीष्टवरदाय नमः । ॐ गौतमाभयदायकाय नमः । ॐ गौतमप्रणयप्रह्वाय नमः । ॐ गौतमाश्रमदुःखघ्ने नमः । ॐ गौतमीतीरसंचारिणे नमः । ४७५। ॐ गौतमीतीर्थदायकाय नमः । ॐ गौतमापत्परिहराय नमः । ॐ गौतमाधिविनाशनाय नमः । ॐ गोपतये नमः । ॐ गोधनाय नमः । ४८०। ॐ गोपाय नमः । ॐ गोपालप्रियदर्शनाय नमः । ॐ गोपालाय नमः । ॐ गोगणाधीशाय नमः । ॐ गोकश्मलनिवर्तकाय नमः । ४८५। ॐ गोसहस्राय नमः । ॐ गोपवराय नमः । ॐ गोपगोपीसुखावहाय नमः । ॐ गोवर्धनाय नमः । ॐ गोपगोपाय नमः । ४९०। ॐ गोपाय नमः । ॐ गोकुलवर्धनाय नमः । ॐ गोचराय नमः । ॐ गोचराध्य्क्षाय नमः । ॐ गोचरप्रीतिवृद्धिकृते नमः । ४९५। ॐ गोमिने नमः । ॐ गोकष्टसंत्रात्रे नमः । ॐ गोसंतापनिवर्तकाय नमः । ॐ गोष्ठाय नमः । ॐ गोष्ठाश्रयाय नमः । ५००। ॐ गोष्ठपतये नमः । ॐ गोधनवर्धनाय नमः । ॐ गोष्ठप्रियाय नमः । ॐ गोष्ठमयाय नमः । ॐ गोष्ठामयनिवर्तकाय नमः । ५०५। ॐ गोलोकाय नमः । ॐ गोलकाय नमः । ॐ गोभृते नमः । ॐ गोभर्त्रे नमः । ॐ गोसुखावहाय नमः । ५१०। ॐ गोदुहे नमः । ॐ गोधुग्गणप्रेष्ठाय नमः । ॐ गोदोग्ध्रे नमः । ॐ गोपयःप्रियाय नमः । ॐ गोत्राय नमः । ५१५। ॐ गोत्रपतये नमः । ॐ गोत्रभवाय नमः । ॐ गोत्रभयापहाय नमः । ॐ गोत्रवृद्धिकराय नमः । ॐ गोत्रप्रियाय नमः । ५२०। ॐ गोत्रातिनाशनाय नमः । ॐ गोत्रोद्धारपराय नमः । ॐ गोत्रप्रभवाय नमः । ॐ गोत्रदेवतायै नमः । ॐ गोत्रविख्यातनाम्ने नमः । ५२५। ॐ गोत्रिणे नमः । ॐ गोत्रप्रपालकाय नमः । ॐ गोत्रसेतवे नमः । ॐ गोत्रकेतवे नमः । ॐ गोत्रहेतवे नमः । ५३०। ॐ गतक्लमाय नमः । ॐ गोत्रत्राणकराय नमः । ॐ गोत्रपतये नमः । ॐ गोत्रेशपूजिताय नमः । ॐ गोत्रविदे नमः । ५३५। ॐ गोत्रभित्त्रात्रे नमः । ॐ गोत्रभिद्वरदायकाय नमः । ॐ गोत्रभित्पूजितपदाय नमः । ॐ गोत्रभिच्छत्रुसूदनाय नमः । ॐ गोत्रभित्प्रीतिदाय नमः । ५४०। ॐ गोत्रभिदे नमः । ॐ गोत्रपालकाय नमः । ॐ गोत्रभिद्गीतचरिताय नमः । ॐ गोत्रभिद्राज्यरक्षकाय नमः । ॐ गोत्रभिद्वरदायिने नमः । ५४५। ॐ गोत्रभित्प्राणनिलयाय नमः । ॐ गोत्रभिद्भयसंहर्त्रे नमः । ॐ गोत्रभिन्मानदायकाय नमः । ॐ गोत्रभिद्गोपनपराय नमः । ॐ गोत्रभित्सैन्यनायकाय नमः । ५५०। ॐ गोत्राधिपप्रियाय नमः । ॐ गोत्रापुत्रप्रीताय नमः । ॐ गिरिप्रियाय नमः । ॐ ग्रन्थज्ञाय नमः । ॐ ग्रन्थकृते नमः । ५५५। ॐ ग्रन्थग्रन्थिदाय नमः । ॐ ग्रन्थविघ्नघ्ने नमः । ॐ ग्रन्थादये नमः । ॐ ग्रन्थसञ्चारये नमः । ॐ ग्रन्थश्रवणलोलुपाय नमः । ५६०। ॐ ग्रन्ताधीनक्रियाय नमः । ॐ ग्रन्थप्रियाय नमः । ॐ ग्रन्थार्थतत्त्वविदे नमः । ॐ ग्रन्थसंशयसंछेदिने नमः । ॐ ग्रन्थवक्त्राय नमः । ५६५। ॐ ग्रहाग्रण्ये नमः । ॐ ग्रन्थगीतगुणाय नमः । ॐ ग्रन्थगीताय नमः । ॐ ग्रन्थादिपूजिताय नमः । ॐ ग्रन्थारंभस्तुताय नमः । ५७०। ॐ ग्रन्थग्राहिणे नमः । ॐ ग्रन्थार्थपारदृशे नमः । ॐ ग्रन्थदृशे नमः । ॐ ग्रन्थविज्ञानाय नमः । ॐ ग्रन्थसंदर्शशोधकाय नमः । ५७५। ॐ ग्रन्थकृत्पूजिताय नमः । ॐ ग्रन्थकराय नमः । ॐ ग्रन्थपरायणाय नमः । ॐ ग्रन्थपारायणपराय नमः । ॐ ग्रन्थसंदेहभंजकाय नमः । ५८०। ॐ ग्रन्थकृद्वरदात्रे नमः । ॐ ग्रन्थकृते नमः । ॐ ग्रन्थवन्दिताय नमः । ॐ ग्रन्थानुरक्ताय नमः । ॐ ग्रन्थज्ञाय नमः । ५८५। ॐ ग्रन्थानुग्रहदायकाय नमः । ॐ ग्रन्थान्तरात्मने नमः । ॐ ग्रन्थार्थपण्डिताय नमः । ॐ ग्रन्थसौहृदाय नमः । ॐ ग्रन्थपारङ्गमाय नमः । ५९०। ॐ ग्रन्थगुणविदे नमः । ॐ ग्रन्थविग्रहाय नमः । ॐ ग्रन्थसेवते नमः । ॐ ग्रन्थहेतवे नमः । ॐ ग्रन्थकेतवे नमः । ५९५। ॐ ग्रहाग्रगाय नमः । ॐ ग्रन्थपूज्याय नमः । ॐ ग्रन्थगेयाय नमः । ॐ ग्रन्थग्रथनलालसाय नमः । ॐ ग्रन्थभूमये नमः । ६००। ॐ ग्रहश्रेष्ठाय नमः । ॐ ग्रहकेतवे नमः । ॐ ग्रहाश्रयाय नमः । ॐ ग्रन्थकाराय नमः । ॐ ग्रन्थकारमान्याय नमः । ६०५। ॐ ग्रन्थप्रसारकाय नमः । ॐ ग्रन्थश्रमज्ञाय नमः । ॐ ग्रन्थांगाय नमः । ॐ ग्रन्थभ्रमनिवारकाय नमः । ॐ ग्रन्थप्रवणसर्वाङ्गाय नमः । ६१०। ॐ ग्रन्थप्रणयतत्पराय नमः । ॐ गीताय नमः । ॐ गीतगुणाय नमः । ॐ गीतकीर्तये नमः । ॐ गीतविशारदाय नमः । ६१५। ॐ गीतस्फीतये नमः । ॐ गीतप्रणयिने नमः । ॐ गीतचंचुराय नमः । ॐ गीतप्रसन्नाय नमः । ॐ गीतात्मने नमः । ६२०। ॐ गीतलोलाय नमः । ॐ गीतस्पृहाय नमः । ॐ गीताश्रयाय नमः । ॐ गीतमयाय नमः । ॐ गीततत्वार्थकोविदाय नमः । ६२५। ॐ गीतसंशयसंछेत्रे नमः । ॐ गीतसङ्गीतशासनाय नमः । ॐ गीतार्थज्ञाय नमः । ॐ गीततत्वाय नमः । ॐ गीतातत्वाय नमः । ६३०। ॐ गताश्रयाय नमः । ॐ गीतसाराय नमः । ॐ गीतकृतये नमः । ॐ गीतविघ्नविनाशनाय नमः । ॐ गीतासक्ताय नमः । ६३५। ॐ गीतलीनाय नमः । ॐ गीताविगतसंज्व्राय नमः । ॐ गीतैकदृशे नमः । ॐ गीतभूतये नमः । ॐ गीताप्रियाय नमः । ६४०। ॐ गतालसाय नमः । ॐ गीतवाद्यपटवे नमः । ॐ गीतप्रभवे नमः । ॐ गीतार्थतत्वविदे नमः । ॐ गीतागीतविवेकज्ञाय नमः । ६४५। ॐ गीतप्रवणचेतनाय नमः । ॐ गतभिये नमः । ॐ गतविद्वेषाय नमः । ॐ गतसंसारबंधनाय नमः । ॐ गतमायाय नमः । ६५०। ॐ गतत्रासाय नमः । ॐ गतदुःखाय नमः । ॐ गतज्वराय नमः । ॐ गतासुहृदे नमः । ॐ गताज्ञानाय नमः । ६५५। ॐ गतदुष्टाशयाय नमः । ॐ गताय नमः । ॐ गतार्तये नमः । ॐ गतसंकल्पाय नमः । ॐ गतदुष्टविचेष्टिताय नमः । ६६०। ॐ गताहंहारसंचाराय नमः । ॐ गतदर्पाय नमः । ॐ गताहिताय नमः । ॐ गताविद्याय नमः । ॐ गतभयाय नमः । ६६५। ॐ गतागतनिवारकाय नमः । ॐ गतव्यथाय नमः । ॐ गतापायाय नमः । ॐ गतदोषाय नमः । ॐ गतेः पराय नमः । ६७०। ॐ गतसर्वविकाराय नमः । ॐ गजगर्जितकुञ्जराय नमः । ॐ गतकंपितमूपृष्ठाय नमः । ॐ गतरुषे नमः । ॐ गतकल्मषाय नमः । ६७५। ॐ गतदैन्याय नमः । ॐ गतस्तैन्याय नमः । ॐ गतमानाय नमः । ॐ गतश्रमाय नमः । ॐ गतक्रोधाय नमः । ६८०। ॐ गतग्लानये नमः । ॐ गतम्लानये नमः । ॐ गतभ्रमाय नमः । ॐ गताभावाय नमः । ॐ गतभवाय नमः । ६८५। ॐ गततत्वार्थसंशयाय नमः । ॐ गयासुरशिरश्छेत्रे नमः । ॐ गयासुरवरप्रदाय नमः । ॐ गयावासाय नमः । ॐ गयानाथाय नमः । ६९०। ॐ गयावासिनमस्कृतय नमः । ॐ गयातीर्थफलाध्यक्षाय नमः । ॐ गयायात्राफलप्रदाय नमः । ॐ गयामयाय नमः । ॐ गयाक्षेत्राय नमः । ६९५। ॐ गयाक्षेत्रनिवासकृते नमः । ॐ गयावासिस्तुताय नमः । ॐ गायन्मधुव्रतलसत्कटाय नमः । ॐ गायकाय नमः । ॐ गायकवराय नमः । ७००। ॐ गायकेष्टफलप्रदाय नमः । ॐ गायकप्रणयिने नमः । ॐ गात्रे नमः । ॐ गायकाभयदायकाय नमः । ॐ गायकप्रवणस्वांताय नमः । ७०५। ॐ गायकप्रथमाय नमः । ॐ गायकोद्गीतसंप्रीताय नमः । ॐ गायकोत्कटविघ्नघ्ने नमः । ॐ गानगेयाय नमः । ॐ गायकेशाय नमः । ७१०। ॐ गायकांतरसंचाराय नमः । ॐ गायकप्रियदाय नमः । ॐ गायकाधीनविग्रहाय नमः । ॐ गेयाय नमः । ॐ गेयगुणाय नमः । ७१५। ॐ गेयचरिताय नमः । ॐ गेयतत्वविदे नमः । ॐ गायकत्रासघ्ने नमः । ॐ ग्रंथाय नमः । ॐ ग्रंथतत्वविवेचकाय नमः । ७२०। ॐ गाढानुरागय नमः । ॐ गाढांगाय नमः । ॐ गाढगंगाजलोद्वहाय नमः । ॐ गाढावगाढजलधये नमः । ॐ गाढप्रज्ञाय नमः । ७२५। ॐ गतामयाय नमः । ॐ गाढप्रत्यर्थिसैन्याय नमः । ॐ गाढानुग्रहतत्पराय नमः । ॐ गाढाश्लेषरसाभिज्ञाय नमः । ॐ गाढनिर्वृत्तिसाधकाय नमः । ७३०। ॐ गंगाधरेष्टवरदाय नमः । ॐ गंगाधरभयापहाय नमः । ॐ गंगाधरगुरवे नमः । ॐ गंगाधरध्यानपरायणाय नमः । ॐ गंगाधरस्तुताय नमः । ७३५। ॐ गंगाधरराध्याय नमः । ॐ गतस्मयाय नमः । ॐ गंगाधरप्रियाय नमः । ॐ गंगाधराय नमः । ॐ गंगांबुसुन्दराय नमः । ७४०। ॐ गंगाजलरसास्वाद चतुराय नमः । ॐ गंगानिरताय नमः । ॐ गंगाजलप्रणयवते नमः । ॐ गंगातीरविहाराय नमः । ॐ गंगाप्रियाय नमः । ७४५। ॐ गंगाजलावगाहनपराय नमः । ॐ गन्धमादनसंवासाय नमः । ॐ गन्धमादनकेलिकृते नमः । ॐ गन्धानुलिप्तसर्वाङ्गाय नमः । ॐ गन्धलुभ्यन्मधुव्रताय नमः । ७५०। ॐ गन्धाय नमः । ॐ गन्धर्वराजाय नमः । ॐ गन्धर्वप्रियकृते नमः । ॐ गन्धर्वविद्यातत्वज्ञाय नमः । ॐ गन्धर्वप्रीतिवर्धनाय नमः । ७५५। ॐ गकारबीजनिलयाय नमः । ॐ गन्धकाय नमः । ॐ गर्विगर्वनुदे नमः । ॐ गन्धर्वगणसंसेव्याय नमः । ॐ गन्धर्ववरदायकाय नमः । ७६०। ॐ गन्धर्वाय नमः । ॐ गन्धमातङ्गाय नमः । ॐ गन्धर्वकुलदैवताय नमः । ॐ गन्धर्वसंशयच्छेत्रे नमः । ॐ गन्धर्ववरदर्पघ्ने नमः । ७६५। ॐ गन्धर्वप्रवणस्वान्ताय नमः । ॐ गन्धर्वगणसंस्तुताय नमः । ॐ गन्धर्वार्चितपादाब्जाय नमः । ॐ गन्धर्वभयहारकाय नमः । ॐ गन्धर्वाभयदाय नमः । ७७०। ॐ गन्धर्वप्रीतिपालकाय नमः । ॐ गन्धर्वगीतचरिताय नमः । ॐ गन्धर्वप्रणयोत्सुकाय नमः । ॐ गन्धर्वगानश्रवणप्रणयिने नमः । ॐ गन्धर्वभाजनाय नमः । ७७५। ॐ गन्धर्वत्राणसन्नद्धय नमः । ॐ गन्धर्वसमरक्षमाय नमः । ॐ गन्धर्वस्त्रीभिराराध्याय नमः । ॐ गानाय नमः । ॐ गानपटवे नमः । ७८०। ॐ गच्छाय नमः । ॐ गच्छपतये नमः । ॐ गच्छनायकाय नमः । ॐ गच्छगर्वघ्ने नमः । ॐ गच्छराजाय नमः । ७८५। ॐ गच्छेशाय नमः । ॐ गच्छराजनमस्कृताय नमः । ॐ गच्छप्रियाय नमः । ॐ गच्छगुरवे नमः । ॐ गच्छत्राणकृतोद्यमाय नमः । ७९०। ॐ गच्छप्रभवे नमः । ॐ गच्छचराय नमः । ॐ गच्छप्रियकृतोद्यमाय नमः । ॐ गच्छातीतगुणाय नमः । ॐ गच्छमर्यादाप्रतिपालकाय नमः । ७९५। ॐ गच्छधात्रे नमः । ॐ गच्छभर्त्रे नमः । ॐ गच्छवन्द्याय नमः । ॐ गुरोर्गुरवे नमः । ॐ गृत्साय नमः । ८००। ॐ गृत्समदाय नमः । ॐ गृत्समदाभीष्टवरप्रदाय नमः । ॐ गीर्वाणगीतचरिताय नमः । ॐ गीर्वाणगणसेविताय नमः । ॐ गीर्वाणवरदात्रे नमः । ८०५। ॐ गीर्वाणभयनाशकृते नमः । ॐ गीर्वाणगणसङ्गीताय नमः । ॐ गीर्वाणारातिसूदनाय नमः । ॐ गीर्वाणधाम्ने नमः । ॐ गीर्वाणगोप्त्रे नमः । ८१०। ॐ गीर्वाणगर्वनुदे नमः । ॐ गीर्वाणार्तिहराय नमः । ॐ गीर्वाणवरदायकाय नमः । ॐ गीर्वाणशरणाय नमः । ॐ गीतनाम्ने नमः । ८१५। ॐ गीर्वाणसुन्दराय नमः । ॐ गीर्वाणप्राणदाय नमः । ॐ गंत्रे नमः । ॐ गीर्वाणानीकरक्षकाय नमः । ॐ गुहेहापूरकाय नमः । ८२०। ॐ गन्धमत्ताय नमः । ॐ गीर्वाणपुष्टिदाय नमः । ॐ गीर्वाणप्रयुतत्रात्रे नमः । ॐ गीतगोत्राय नमः । ॐ गताहिताय नमः । ८२५। ॐ गीर्वाणसेवितपदाय नमः । ॐ गीर्वाणप्रथिताय नमः । ॐ गलते नमः । ॐ गीर्वाणगोत्रप्रवराय नमः । ॐ गीर्वाणबलदाय नमः । ८३०। ॐ गीर्वाणप्रियकर्त्रे नमः । ॐ गीर्वाणागमसारविदे नमः । ॐ गीर्वाणागमसंपत्तये नमः । ॐ गीर्वाणव्यसनापत्ने नमः । ॐ गीर्वाणप्रणयाय नमः । ८३५। ॐ गीतग्रहणोत्सुकमानसाय नमः । ॐ गीर्वाणमदसंहर्त्रे नमः । ॐ गीर्वाणगणपालकाय नमः । ॐ ग्रहाय नमः । ॐ ग्रहपतये नमः । ८४०। ॐ ग्रहाय नमः । ॐ ग्रहपीडाप्रणाशनाय नमः । ॐ ग्रहस्तुताय नमः । ॐ ग्रहाध्यक्षाय नमः । ॐ ग्रहेशाय नमः । ८४५। ॐ ग्रहदैवताय नमः । ॐ ग्रहकृते नमः । ॐ ग्रहभर्त्रे नमः । ॐ ग्रहेशानाय नमः । ॐ ग्रहेश्वराय नमः । ८५०। ॐ ग्रहाराध्याय नमः । ॐ ग्रहत्रात्रे नमः । ॐ ग्रहगोप्त्रे नमः । ॐ ग्रहोत्कटाय नमः । ॐ ग्रहगीतगुणाय नमः । ८५५। ॐ ग्रन्थप्रणेत्रे नमः । ॐ ग्रहवन्दिताय नमः । ॐ गविने नमः । ॐ गवीश्वराय नमः । ॐ ग्रहणे नमः । ८६०। ॐ ग्रहष्ठाय नमः । ॐ ग्रहगर्वघ्ने नमः । ॐ गवांप्रियाय नमः । ॐ गवांनाथाय नमः । ॐ गवीशानाय नमः । ८६५। ॐ गवांपतये नमः । ॐ गव्यप्रियाय नमः । ॐ गवांगोप्त्रे नमः । ॐ गविसंपत्तिसाधकाय नमः । ॐ गविरक्षणसन्नद्धाय नमः । ८७०। ॐ गविभयहरय नमः । ॐ गविगर्वहराय नमः । ॐ गोदाय नमः । ॐ गोप्रदाय नमः । ॐ गोजयप्रदाय नमः । ८७५। ॐ गोजायुतबलाय नमः । ॐ गंडगुंजन्मधुव्रताय नमः । ॐ गंडस्थलगलद्दानमिलन्मत्तालिमण्डिताय नमः । ॐ गुडाय नमः । ॐ गुडाप्रियाय नमः । ८८०। ॐ गण्डगलद्दानाय नमः । ॐ गुडाशनाय नमः । ॐ गुडाकेशाय नमः । ॐ गुडाकेशसहायाय नमः । ॐ गुडलड्डुभुजे नमः । ८८५। ॐ गुडभुजे नमः । ॐ गुडभुग्गण्याय नमः । ॐ गुडाकेशवरप्रदाय नमः । ॐ गुडाकेशार्चितपदाय नमः । ॐ गुडाकेशसखाय नमः । ८९०। ॐ गदाधरार्चितपदाय नमः । ॐ गदाधरजयप्रदाय नमः । ॐ गदायुधाय नमः । ॐ गदापाणये नमः । ॐ गदायुद्धविशारदाय नमः । ८९५। ॐ गदघ्ने नमः । ॐ गददर्पघ्ने नमः । ॐ गदगर्वप्रणाशनाय नमः । ॐ गदग्रस्तपरित्रात्रे नमः । ॐ गदाडंबरखण्डकाय नमः । ९००। ॐ गुहाय नमः । ॐ गुहाग्रजाय नमः । ॐ गुप्ताय नमः । ॐ गुहाशायिने नमः । ॐ गुहाशयाय नमः । ९०५। ॐ गुहप्रीतिकराय नमः । ॐ गूढाय नमः । ॐ गूढगुल्फाय नमः । ॐ गुणैकदृशे नमः । ॐ गिरे नमः । ९१०। ॐ गीष्पतये नमः । ॐ गिरीशानाय नमः । ॐ गीर्देवीगीतसद्गुणाय नमः । ॐ गीर्देवाय नमः । ॐ गीष्प्रियाय नमः । ९१५। ॐ गीर्भुवे नमः । ॐ गीरात्मने नमः । ॐ गीष्प्रियङ्कराय नमः । ॐ गीर्भूमये अमः । ॐ गीरसज्ञ्याय नमः । ९२०। ॐ गीःप्रसन्नाय नमः । ॐ गिरीश्वराय नमः । ॐ गिरीशजाय नमः । ॐ गिरीशायिने नमः । ॐ गिरिराजसुखावहाय नमः । ९२५। ॐ गिरिराजार्चितपदाय नमः । ॐ गिरिराजनमस्कृताय नमः । ॐ गिरिराजगुहाविष्टाय नमः । ॐ गिरिराजाभयप्रदाय नमः । ॐ गिरिराजेष्टवरदाय नमः । ९३०। ॐ गिरिराजप्रपालकाय नमः । ॐ गिरिराजसुतासूनवे नमः । ॐ गिरिराजजयप्रदाय नमः । ॐ गिरिव्रजवनस्थायिने नमः । ॐ गिरिव्रजचराय नमः । ९३५। ॐ गर्गाय नमः । ॐ गर्गप्रियाय नमः । ॐ गर्गदेवाय नमः । ॐ गर्गनमस्कृताय नमः । ॐ गर्गभीतिहराय नमः । ९४०। ॐ गर्गवरदाय नमः । ॐ गर्गसंस्तुताय नमः । ॐ गर्गगीतप्रसन्नात्मने नमः । ॐ गर्गानन्दकराय नमः । ॐ गर्गप्रियाय नमः । ९४५। ॐ गर्गमानप्रदाय नमः । ॐ गर्गारिभञ्जकाय नमः । ॐ गर्गवर्गपरित्रात्रे नमः । ॐ गर्गसिद्धिप्रदायकाय नमः । ॐ गर्गग्लानिहराय नमः । ९५०। ॐ गर्गश्रमनुदे नमः । ॐ गर्गसङ्गताय नमः । ॐ गर्गाचार्याय नमः । ॐ गर्गऋषये नमः । ॐ गर्गसन्मानभाजनाय नमः । ९५५। ॐ गंभीराय नमः । ॐ गणितप्रज्ञाय नमः । ॐ गणितागमसारविदे नमः । ॐ गणकाय नमः । ॐ गणकश्लाघ्याय नमः । ९६०। ॐ गणकप्रणयोत्सुकाय नमः । ॐ गणकप्रवणस्वान्ताय नमः । ॐ गणिताय नमः । ॐ गणितागमाय नमः । ॐ गद्याय नमः । ९६५। ॐ गद्यमयाय नमः । ॐ गद्यपद्यविद्याविवेचकाय नमः । ॐ गललग्नमहानागाय नमः । ॐ गलदर्चिषे नमः । ॐ गलन्मदाय नमः । ९७०। ॐ गलत्कुष्ठिव्यथाहन्त्रे नमः । ॐ गलत्कुष्ठिसुखप्रदाय नमः । ॐ गंभीरनाभये नमः । ॐ गंभीरस्वराय नमः । ॐ गंभीरलोचनाय नमः । ९७५। ॐ गंभीरगुणसंपन्नाय नमः । ॐ गंभीरगतिशोभनाय नमः । ॐ गर्भप्रदाय नमः । ॐ गर्भरूपाय नमः । ॐ गर्भापद्विनिवारकाय नमः । ९८०। ॐ गर्भागमनसंभूतये नमः । ॐ गर्भदाय नमः । ॐ गर्भशोकनुदे नमः । ॐ गर्भत्रात्रे नमः । ॐ गर्भगोप्त्रे नमः । ९८५। ॐ गर्भपुष्टिकराय नमः । ॐ गर्भगौरवसाधनाय नमः । ॐ गर्भगर्वनुदे नमः । ॐ गरीयसे नमः । ॐ गर्वनुदे नमः । ९९०। ॐ गर्वमर्दिने नमः । ॐ गरदमर्दकाय नमः । ॐ गरसंतापशमनाय नमः । ॐ गुरुराजसुखप्रदाय नमः । ॐ गर्भाश्रयाय नमः । ९९५। ॐ गर्भमयाय नमः । ॐ गर्भामयनिवारकाय नमः । ॐ गर्भाधाराय नमः । ॐ गर्भधराय नमः । ॐ गर्भसन्तोषसाधकाय नमः । १०००।

॥ इति श्री गणेश गकार सहस्रनामावलिः संपूर्णम् ॥
পাঠ জপ: 0/108