सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

मुद्गलपुराणे श्रीगणेश अष्टोत्तरशतनामावलिः

stotra-53493ae5
रचयिता: पारंपरिक पाठ संख्या: 5
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

श्री गणेशाष्टोत्तरशतनामावलिः

ॐ गणेशाय नमः नमः । ॐ हेरम्बाय नमः । ॐ गजाननाय नमः । ॐ महोदराय नमः । ॐ स्वानुभवप्रकाशिने नमः । ॐ वरिष्ठाय नमः । ॐ सिद्धिप्रियाय नमः । ॐ बुद्धिनाथाय नमः । ॐ अनेकविघ्नान्तकाय नमः । ॐ वक्रतुण्डाय नमः । ॐ स्वसंज्ञवासिने नमः । ॐ चतुर्भुजाय नमः । ॐ कवीशाय नमः । ॐ देवान्तकनाशकारिणे नमः । ॐ महेशसूनवे नमः । ॐ गजदैत्यशत्रवे नमः । ॐ वरेण्यसूनवे नमः । ॐ विकटाय नमः । ॐ त्रिनेत्राय नमः । ॐ परेशाय नमः नमः । २० ॐ धरणीधराय नमः । ॐ एकदन्ताय नमः । ॐ प्रमोदाय नमः । ॐ मोदाय नमः । ॐ नरान्तकारये नमः । ॐ षडूर्मिहन्त्रे नमः । ॐ गजकर्णाय नमः । ॐ ढुण्ढये नमः । ॐ द्वन्द्वारिसिन्धौ स्थिरभावकारिणे नमः । ॐ विनायकाय नमः । ॐ ज्ञानविघातशत्रवे नमः । ॐ पराशरस्यात्मजाय नमः । ॐ विष्णुपुत्राय नमः । ॐ अनादिपूज्याय नमः । ॐ आखुगाय नमः । ॐ सर्वपूज्याय नमः । ॐ विधेर्जाय नमः । ॐ लम्बोदराय नमः । ॐ धूम्रवर्णाय नमः । ॐ मयूरपालाय नमः नमः । ४० ॐ मयूरवाहिने नमः । ॐ सुरासुरैस्सेवितपादपद्माय नमः । ॐ वरिणे नमः । ॐ महाखुध्वजाय नमः । ॐ शूर्पकर्णाय नमः । ॐ शिवाय नमः । ॐ अजाय नमः । ॐ सिंहस्थाय नमः । ॐ अनन्तवाहाय नमः । ॐ दितौजाय नमः । ॐ विघ्नेश्वराय नमः । ॐ शेषनाभये नमः । ॐ अणोरणीयसे नमः । ॐ महतो महीयसे नमः । ॐ रवेर्जाय नमः । ॐ योगेशाय नमः । ॐ ज्येष्ठराजाय नमः । ॐ निधीशाय नमः । ॐ मन्त्रेशाय नमः । ॐ शेषपुत्राय नमः नमः । ६० ॐ वरप्रदात्रे नमः नमः । ॐ अदितेः सूनवे नमः । ॐ पराशरज्ञानदाय नमः । ॐ तारवक्त्राय नमः । ॐ गुहाग्रजाय नमः । ॐ ब्रह्मपाय नमः । ॐ पार्श्वपुत्राय नमः । ॐ सिन्धोः शत्रवे नमः । ॐ परशुप्रपाणये नमः । ॐ शमीशाय नमः । ॐ पुष्पप्रियाय नमः । ॐ विघ्नहारिणे नमः । ॐ दूर्वाभरैरर्चिताय नमः । ॐ देवदेवाय नमः । ॐ धियः प्रदात्रे नमः । ॐ शमीप्रियाय नमः । ॐ सुसिद्धिदात्रे नमः । ॐ सुशान्तिदात्रे नमः । ॐ अमेयमायाय नमः । ॐ अमितविक्रमाय नमः नमः । ८० ॐ द्विधा चतुर्थीप्रियाय नमः नमः । ॐ कश्यपाज्जाताय नमः । ॐ धनप्रदाय नमः । ॐ ज्ञानप्रदाय नमः । ॐ प्रकाशाय नमः । ॐ चिन्तामणये नमः । ॐ चित्तविहारकारिणे नमः । ॐ यमस्य शत्रवे नमः । ॐ अभिमानशत्रवे नमः । ॐ विधेर्जहन्त्रे नमः । ॐ कपिलस्य सूनवे नमः । ॐ विदेहाय नमः । ॐ स्वानन्दाय नमः । ॐ अयोगयोगाय नमः । ॐ गणस्य शत्रवे नमः । ॐ कमलस्य शत्रवे नमः । ॐ समस्थाय नमः । ॐ भावज्ञाय नमः । ॐ भालचन्द्राय नमः । ॐ अनादिमध्यान्तमयाय नमः नमः । ॐ १०० ॐ प्रचारिणे नमः नमः । ॐ विभवे नमः । ॐ जगद्रूपाय नमः । ॐ गणेशाय नमः । ॐ भूम्ने नमः ॐ पुष्टेः पतये नमः ॐ आखुगताय नमः ॐ बोधाय नमः । ॐ कर्त्रे नमः । ॐ पात्रे नमः । ॐ संहराय नमः ।

इति मुद्गलपुराणे पञ्चमखण्डे षड्विंशतितमाध्यायान्तर्गता गणेशाष्टोत्तरशतनामावलिः

पाठ जप: 0/108