సనాతన స్తోత్ర నిధి
శ్రీగణేశ
సనాతన దేవ

.. విఘ్నేశ్వరప్రార్థనా ..

॥ विघ्नेश्वरप्रार्थना ॥
రచయిత: పారంపరిక వీక్షణలు: 2
23px

॥ गणेश प्रार्थना ॥

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥

अगजानानपद्मार्कं गजाननमहर्निशम्। अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥ २ ॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥ ३ ॥

यं ब्रह्म वेदान्तविदो वदन्ति परे प्रधानं पुरुषं तथाऽन्ये। विश्वोद्गतेः कारणमीश्वरं वा तस्मै नमो विघ्नविनायकाय ॥ ४ ॥

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलसारभक्षितम्। उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम् ॥ ५ ॥

मूषकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र। वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥ ६ ॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ ७ ॥

धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः। वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः ॥ ८ ॥

षोडशैतानि नामानि यः पठेच्छृणुयादपि विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ९ ॥

॥ इति  गणेशप्रार्थना ॥

జప గణన: 0/108