ಶ್ರೀ ಪರಾಂಕುಶಪಂಚವಿಂಶತಿಃ
श्री पराङ्कुशपञ्चविंशतिः श्रीपराङ्कुशनुतिं य आतनोत् तत्पदाब्जपरभक्तिचोदितः । तं वधूलकुलभूषणं दयावारिधिं वरददेशिकं भजे ॥
श्रीमन्पराङ्कुशनिरङ्कुशतत्त्वबोध वात्सल्यपूर्णकरुणापरिणामरूप । सौशील्यसागरमनन्तगुणाकरं त्वां संसारतापहरणं शरणं वृणेहम् ॥ १ ॥
कासारसंयमिमुखाः कमलासहाय- भक्ताः प्रपत्तिपदवीनियता महान्तः । यस्याभवन्नवयवा इव पारतन्त्र्यात् तस्मै नमो वकुळभूषणदेशिका ॥ २ ॥ श्रीरङ्गराजपदपङ्कजसङ्गशीलं श्रेयः परं मधुरपूर्वकवेरपूर्वम् । नाथार्ययामुनयतीश्वरभागधेयं नाथं कुलस्य मम नौमि पराङ्कुशार्यम् ॥ ३ ॥ पापक्रियासु निरताः शृणुतास्मदुक्तिं तापत्रयेण भविनः परितप्यमानाः । आपद्धनं मधुरिपोर्भवतामविद्या स्वापप्रहाणनिपुणः शरणं शठारिः ॥ ४ ॥ नित्योऽथ मुक्त उत तद्गुणको मुमुक्षुः व्यासादिवद्भगवता किमनुप्रविष्टः । अत्र्यादिसूनुरिह वर्णयुगक्रमात् किम् आसीत्पुराणपुरुषः शठवैरियोगी ॥ ५ ॥ कर्मेति केचिदपरे मतिरित्यथान्ये भक्तिं परे प्रपदनं प्रवदन्त्युपायम्। आम्नायसारचतुरास्त्वमितानुभावं त्वामेव यान्ति शरणं शठजिन्मुनीन्द्र ॥ ६ ॥ भक्त्याधुपायरहितः पतितो भवाब्धौ त्वत्पादसेवनरसेपि च दुर्बलोऽहम्। इत्थं सतीह शठकोप दयैकमूर्ते कृत्यं किमस्ति मम संसृतिमोचनाय ॥ ७ ॥ त्वद्दिव्यसूक्तिपरिशीलनमात्रमेव निःश्रेयसाधिगमने निरपेक्षहेतुः । तच्चास्ति मे न शठवैरिगुरो महात्मन् उज्जीवनं कथमहो मम जाघटीति ॥ ८ ॥ त्वन्नामकीर्तनमकृत्रिममातनोति यस्तस्य संसरणनिस्तरणं घटेत । दुर्वासना कलुषितस्य न मेऽस्ति बुद्धिः तत्रापि केसरविभूष किमात्मनीनम्॥ ९ ॥ त्वत्किङ्करत्वरसिकाः तव दासदास दास्यैकरस्यमुदिताश्च भजन्ति मुक्तिम् । तत्राप्यहं शकनवान् न शठारियोगिन् अत्याहितं कथमपैतु भवोत्थितं मे ॥ १० ॥ त्वद्विग्रहेक्षणमथो तव संस्मृतिश्च मुक्त्यै भवेदिति वदन्ति पराङ्कुशार्य । निद्राप्रमादमलिनीकृतमानसस्य तत्रापि शक्तिरिह मे न कथं भवेयम्॥ ११ ॥ एवं कदाचिदपि कुत्रचिदस्त्युपायः नैवाघनाशनविधौ मम तावकस्य । आकस्मिकी तव कृपामपहाय माया – कोलाहलप्रशमनीं कुरुकापुरीश ॥ १२ ॥ अव्याजबन्धुमविशेषमशेषजन्तोः उद्वेलवत्सलतया कृपया च पूर्णम् । त्वामामनन्ति शठवैरिमुने ततस्ते हातुं न युक्तमपराधिनमप्यहो माम्॥ १३ ॥ यावच्च यच्च दुरितं सकलस्य जन्तोः तावच्च तत्तदधिकञ्च ममास्ति सत्यम् । एतद्वचः कथमभूत् सततानृतोक्ति – शीलस्य मे शठरिपो तदिदं विचित्रम्॥ १४ ॥ शास्त्रेण यद्विहितमाचरणीयमेतत् सर्वैर्निषिद्धमिह यत्तदुपेक्षणीयम् । इत्यादिकं शठरिपो सदसि ब्रवीमि है सन्तनोमि रहसि स्ववचोविरुद्धम्॥ १५ ॥ प्रच्छन्नपातकशतावृतचेतसो मे संप्रीणिताः प्रणतिभूमिकया कयाचित् । सत्कारमादरभरेण परावरज्ञाः कुर्वन्ति हन्त शठवैरिमुने हतोऽस्मि ॥ १६ ॥ पद्भ्यां शपे तव शठारिमुनीन्द्र योऽभूत् । उद्दामदोषगणनान्तिमकोटिनिष्ठः । सोऽपि प्रकृष्टविभवो यदपेक्षया स्यात् तस्माच्च पापभरितोऽहमितो न पापः ॥ १७ ॥ पूर्वैः स्वनैच्यमनुसंहितमार्यवर्यैः मामेव वीक्ष्य महतां न तदस्ति तेषाम् । नैच्यं त्विदं शठरिपो मम सत्यमेव मत्तः परो न मलिनो यत आविरस्ति ॥ १८ ॥ उक्त्वा स्वदोषविषयं वचनं त्वदने संसारभीरुरिव तेन च वञ्चकोऽहम्। सामर्थ्यमेव शठकोप विभावयामि संवीक्ष्यकं गुणमिहासि मयि प्रसन्नः ॥ १९ ॥ किन्तु क्रियासमभिहारकृतापराधः हन्तानुतप्य पुनरप्यपराधकारी । पद्मासखस्य परिहासरसोचितोऽहम् एतद्विलोक्य शठकोप मयि प्रसीद ॥ २० ॥ कामप्रमोऽहमदमत्सरमन्युलोभैः पारम्परीत उदितैः परिपीड्यमानम् । दैवात्त्वदीक्षणपथं दयया शठारे पाहि प्रपन्नमिममुन्नमदागसं माम्॥ २१ ॥ कार्या कृपा सुमतिभिः खलु दुःखितेषु दुःखी मया न सदृशो भृशदुःखभाजाम्। तस्मात्तवाखिलजनेषु च यानुकम्पा मय्येव तां शठरिपो निभृतं निधेहि ॥ २२ ॥ विश्वोपकारकमघार्णवतारकं त्वाम् अप्राप्य है शठरिपो हत एव पूर्वम् । अद्य त्वदीयकृपया प्रतिलब्धसत्त्वः त्वत्सेवनामृतरसेन सुखी भवानि ॥ २३ ॥ अत्राप्यमुत्र करणत्रितयप्रवृत्त्या त्वत्पादपङ्कजजुषां विदुषां प्रसादम् । नित्यं लभेमहि न चान्यदपेक्षितं नः प्रत्यग्रकेसरपरिष्कृतकारिसूनो ॥ २४ ॥ वाधूलवेङ्कटपतिं वरदार्यसूनुम् अस्मद्गुरुं तव पदप्रवणं समीक्ष्य। अज्ञं कृतागसमनाथमकिञ्चनं मां त्वत्किङ्करं शठरिपो सततं कुरुष्व ॥ २५ ॥
॥ इति श्रीपराङ्कुशपञ्चविंशतिः ॥