శ్రీస్తుతిః
श्रीकनकधारास्तोत्रम्
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥
मानातीतप्रथितविभवां मङ्गलं मङ्गलानां वक्षःपीठं मधुविजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां श्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥ १॥
आविर्भावः कलशजलधावध्वरे वाऽपि यस्याः स्थानं यस्याः सरसिजवनं विष्णुवक्षःस्थलं वा । भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥ २॥
स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना तामेव त्वामनितरगतिः स्तोतुमाशंसमानः । सिद्धारम्भः सकलभुवनश्लाघनीयो भवेयं सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥ ३॥
यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानाम् । तत्कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ पूर्णं तेजः स्फुरति भवतीपादलाक्षारसाङ्कम् ॥ ४॥
निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् । शेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां सम्पद्यन्ते विहरणविधौ यस्य शय्याविशेषाः ॥ ५॥
उद्देश्यत्वं जननि भजतोरूज्झितोपाधिगन्धं प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् । पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो नावच्छेदं भजति महिमा नर्तयन मानसं नः ॥ ६॥
पश्यन्तीषु श्रुतिषु परितः सूरिवृन्देन सार्धं मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभेदम् । विश्वाधीशप्रणयिनी सदा विभ्रमद्यूतवृत्तौ ब्रह्मेशाद्या दधति युवयोरक्षशारप्रचारम् ॥ ७॥
अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरेति । यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥ ८॥
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं किं तैरन्तःकलहमलिनैः किञ्चिदुत्तीर्य मग्नैः । त्वत्सम्प्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां भावारूढौ भगवति युवां दम्पती दैवतं नः ॥ ९॥
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णोराचख्युस्त्वां प्रियसहचरीमैकमत्योपपन्नाम् । प्रादुर्भावैरपि समतनुः प्राध्वमन्वीयसे त्वं दूरोत्क्षिप्तैरिव मधुरता दुग्धराशेस्तरङ्गे ॥ १०॥
धत्ते शोभां हरिमरकते तावकी मूर्तिराद्या तन्वी तुंगस्तनभरनता तप्तजाम्बूनदाभा । यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धा- विच्छावेगोल्लसितलहरीविभ्रमं व्यक्तयस्ते ॥ ११॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिर्यद्भ्रूभङ्गात्कुसुमधनुषः किङ्करो मेरूधन्वा । यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्रः पद्मे तासां परिणतिरसौ भावलेशैस्त्वदीयैः ॥ १२॥
अग्रे भर्तुः सरसिजमये भद्रपीठे निषण्णामम्भोराशेरधिगतसुधासम्प्लवादुत्थितां त्वाम् । पुष्पासारस्थगितभुवनैः पुष्कलावर्तकाद्यैः क्लृप्तारम्भाः कनककलशैरभ्यषिञ्चन्गजेन्द्राः ॥ १३॥
आलोक्य त्वाममृतसहजे विष्णुवक्षःस्थलस्थां शापाक्रान्ताः शरणमगमन्सावरोधाः सुरेन्द्राः । लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः सर्वाकारस्थिरसमुदयां सम्पदं निर्विशन्ति ॥ १४॥
आर्तत्राणत्रव्रतिभिरमृतासारनीलाम्बुवाहै- रम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गै । यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया तस्यां तस्यामहमहमिकां तन्वते सम्पदोघाः ॥ १५॥
योगारम्भत्वरितमनसो युष्मदैकान्त्ययुक्तं धर्मं प्राप्तुं प्रथममिह ये धारयन्तेऽधना याम् ॥
तेषां भूमेर्धनपतिगृहादम्बुधेर्वा प्रकामं धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६॥
श्रेयस्कामा यमलनिलये चित्रमाम्नायवाचां चूडापीडं तव पदयुगं चेतसा धारयन्तः । छत्रच्छायासुभगशिरसश्चामरस्मेरपार्श्वाः श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७॥
ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन् दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् । अम्ब स्तम्बावधिकजननग्रामसीमान्तरेखामालम्बन्ते विमलमनसो विष्णुकान्ते दया ते ॥ १८॥
जाताकांक्षा जननि युवयोरेकसेवाधिकारे मायालीढं विभवमखिलं मन्यमानास्तृणाय । प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥ १९॥
सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते सिद्धिक्षेत्रं शमितविपदां सम्पदां पादपद्मम् । यस्मिन्नीषन्नमितशिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ २०॥
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैरम्ब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः । घर्मे तापत्रयविरचिते गाढतप्तं क्षणं मामाकिञ्चन्यग्लपितमनधैराद्रियेथाः कटाक्षैः ॥ २१॥
सम्पद्यन्ते भवभयतमीभानवस्त्वत्प्रसादाद्भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः । याचे किं त्वामहमिह यतः शीतलोदारशीला भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२॥
माता देवि त्वमसि भगवान्वासुदेवः पिता मे जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः । दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं किं ते भूयः प्रियमिति किल स्मेरवक्रा विभासि ॥ २३॥
कल्याणानामविकलनिधिः काऽपि कारुण्यसीमा नित्यामोदा निगमवचसां मौलिमन्दारमाला । सम्पद्दिव्यः मधुविजयिनः सन्निधत्तां सदा मे सैषा देवी सकलभुवनप्रार्थनाकामधेनुः ॥ २४॥
उपचितगुरुभक्तेरुत्थितं वेङ्कटेशात्कलि- कलुषनिवृत्त्यै कल्प्यमानं प्रजानाम् । सरसिजनिलयायाः स्तोत्रमेतत्पठन्तः सकलकुशलसीमा सार्वभौमा भवन्ति ॥ २५॥
॥ इति श्रीवेदान्तदेशिकविरचिता श्रीस्तुतिः सम्पूर्णा ॥