सनातन देव
॥ एकश्लोकि रामायणम् ॥
stotra-4d80f6e7
आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनम् वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम्। वालीनिर्ग्रहणं समुद्रतरणं लङ्कापुरीदाहनम् पश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम्॥ ॥ इति एकश्लोकि रामायणम् ॥