सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

महागणपतिस्तोत्रम्

stotra-4c1c01d9
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

महागणपतिस्तोत्रम्

योगं योगविदां विधूतविविधव्यासंगशुद्धाशय प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनाम् । आनन्दप्लवमानबोधमधुराऽऽमोदच्छटामेदुरं तं भूमानमुपास्महे परिणतंं दन्तावलास्यात्मना ॥ १॥ तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदुस्तस्मै स्तात्प्रणतिर्गणाधिपतये यो रागिणाऽभ्यर्थ्यते । आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन् मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥ २॥ कल्लोलांचलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि । मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरूहे षट्कोणा कलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥ ३॥ चक्रप्रासरसालकार्मुकगदासद्बीजपूरद्विज व्रीह्यग्रोत्पलपाशपंकजकरं शुण्डाग्रजाग्रद्घटम् । आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद् भूषया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥ ४॥ दानाम्भःपरिमेदुरप्रसृमरव्यालम्बिरोलम्बभृत् सिन्दूरारूणगण्डमण्डलयुगव्याजात् प्रशस्तिद्वयम् । त्रैलोक्येष्ट विधानवर्णसुभगं यः पद्मरागोपमं धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥ ५॥ भ्राम्यन् मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वङ्कषाः । दिक्कान्ताघनसारचन्दनरसासाराःश्रयन्तां मनः स्वच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६॥ मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुंजच्छटा कान्ताः कम्बुकदम्बचुम्बितघनाम्भोजप्रवालोपमाः । ज्योत्स्नापूरतरंगमन्थरतरत्सन्ध्यावयस्याश्चिरं हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥ ७॥ शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन् नानारत्नचयेन साधकजनान् सम्भावयन् कोटिशः । दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भवत् कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥ ८॥ हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया बिभ्रत्याम्बुरूहे समं मधुरिपुस्ते शङ्खचक्रे वहन् । न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तथा दक्षिणे बिभ्राणः परशुं त्रिशूलमितया पाशाङ्कुशाभ्यां सह ॥ ९॥ पश्चात् पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले बिभ्रत्या सममैक्षवं धनुरिषून् पौष्पान् वहन् पञ्च च । वामे चक्रगदाधरः स भगवान्क्रोडः प्रियङ्गोस्तले हस्तोद्यच्छुकशालिमंजरिकया देव्या धरण्या सह ॥ १०॥ षट्कोणाश्रिषु षट्सु षड्गजमुखाः पाशाङ्कुशाभीवरान् बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुञ्जत्विषः । आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः पश्चात् पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११॥ आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृद्धिस्ततः । कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते साऽन्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ॥ १२॥ आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्षन्तौ वसुपार्श्वयोर्विलसतस्तौ शंखपद्मौ निधी । अंगान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रया स्तद्बाह्येः कुलिशादयः परिपतत्काला नलज्योतिषः ॥ १३॥ इत्थं विष्णुशिवादितत्वतनवे श्रीवक्रतुण्डाय हुंकाराक्षिप्तसमस्तदैत्य पृतनाव्राताय दीप्तत्विषे । आनन्दैकरसावबोधलहरी विध्वस्तसर्वोर्मये सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥ १४॥ सेवा हेवाकिदेवासुरनरनिकरस्फारकोटीरकोटि काटिव्याटीकमानद्युमणिसममणिश्रेणिभावेणिकानाम् । राजन्नीराजनश्रीसखचरणनखद्योतविद्योतमानः श्रेयः स्थेयः स देयान् मम विमलदृशो बन्धुरं सिन्धुरास्यः ॥ १५॥ एतेन प्रकटरहस्यमन्त्रमालागर्भेण स्फुटतरसंविदा स्तवेन । यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥ १६॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रम् ॥
पाठ जप: 0/108