सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ एकविंशतिगणेशमन्त्राः ॥

stotra-4ba73cf2
रचयिता: पारंपरिक पाठ संख्या: 1
23px

एकविंशतिगणेशमन्त्राः

अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् । गणेशान्राजमातङ्ग्या सम्बद्धान् योगिनीयुतान् ॥ १॥ बीजषट्कं गणेशस्य ङेऽन्तं तन्नाम चोच्चरेत् । नमोऽन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ २॥ अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः । ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ३॥ विनायकः कालसंज्ञो नागेशाख्यो विनायकः । अथान्तर्गृहमावृत्य स्थिताञ्छृणु विनायकान् ॥ ४॥ तथा सृष्टिगणेशश्च यक्षविघ्नेश एव च । गजकर्णश्चित्रघण्टः स्यान्मङ्गलविनायकः ॥ ५॥ विनायकश्च मित्रादिरथ वानन्दकानने । व्यवस्थिता गणेशा ये ते वक्ष्यन्ते मयाधुना ॥ ६॥ मोदः प्रमोदः सुमुखो दुर्मुखो गणनायकः । विनायको ज्ञानपूर्वो द्वारविघ्नेश एव च ॥ ७॥ अविमुक्तेशनिकटे त्वविमुक्तविनायकः । योगिन्यश्च क्रमादेषां कीर्त्यन्ते प्रेतवाहनाः ॥ ८॥ दन्दशूककरा रौद्री मृगशीर्षा वृषानना । व्यालास्या धूर्तविश्वासा व्योमैकचरणार्धदृक् ॥ ९॥ तापिनी तुष्टिपूर्वा च शोषिणी कोटरी तथा । विद्युत्प्रभा स्थूलनासा मार्जारी कण्ठपूरणा ॥ १०॥ कामाक्ष्यट्टाट्टहासा च बलाका गतिपुण्यदा । मूकास्या चेति योगिन्यो ङेऽन्तं नाम नमोऽन्तकम् ॥ ११॥ स्वबीजाद्यं भवेन्मन्त्रो यथानामार्थकारकः । इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पश्चिमाम्नायगणपतिमन्त्रकथने एकोनविंशे प्रकाशे प्रोक्ताः एकविंशतिगणेशमन्त्राः सम्पूर्णाः । अथ नामावलिः - ॐ गां गीं गूं गैं गौं गः द्विदन्तविनायकाय नमः । १ ॐ गां गीं गूं गैं गौं गः द्वितुण्डविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः द्व्यक्षविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः ज्येष्ठविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः गजविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः कालविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः नागेशविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः सृष्टिगणेशाय नमः । ॐ गां गीं गूं गैं गौं गः यक्षविघ्नेशाय नमः । ॐ गां गीं गूं गैं गौं गः गजकर्णाय नमः । १० ॐ गां गीं गूं गैं गौं गः चित्रघण्टाय नमः । ॐ गां गीं गूं गैं गौं गः मङ्गलविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः मित्रादिविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः मोदगणेशाय नमः । ॐ गां गीं गूं गैं गौं गः प्रमोदगणेशाय नमः । ॐ गां गीं गूं गैं गौं गः सुमुखाय नमः । ॐ गां गीं गूं गैं गौं गः दुर्मुखाय नमः । ॐ गां गीं गूं गैं गौं गः गणनायकाय नमः । ॐ गां गीं गूं गैं गौं गः ज्ञानविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः द्वारविघ्नेशाय नमः । २० ॐ गां गीं गूं गैं गौं गः अविमुक्तेशविनायकाय नमः । २१ ॥ इति एकविंशतिगणेशमन्त्राः ॥
पाठ जप: 0/108