॥ শ্রীলক্ষ্মীনৃসিংহস্তোত্রম্ ॥
॥ श्रीलक्ष्मीनृसिंहस्तोत्रम् ॥
श्रीमत्पयोनिधिनिकेतन चक्रपाणे भो गीन्द्रभोगमणिरञ्जितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥१॥
ब्रह्मेन्द्ररूद्रमरुदर्ककिरीटकोटि संघट्टितांगघ्रिकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचसरोरुहराजहंस । लक्ष्मीनृसिंह मम देहि करावलम्बम् . ॥२॥
संसारघोरगहने चरतोमुरारे मारोग्रभीकरमृगप्रवरार्दितस्य । आर्तस्य मत्सरनिदाघनिपीडितस्य । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥३॥
संसारकूपमतिघोरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य । दीनस्य देव कृपणापदमागतस्य । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥४॥
संसारसागरविशालकरालकाल- नक्रग्रहग्रसननिग्रहविग्रहस्य । व्यग्रस्य रागरसनोर्मिनिपीडितस्य । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥५॥
संसारवृक्षमघबीजमनन्तकर्म शाखाशतं करणपत्रमनंगपुष्पम् । आरुह्य दुःखफलितं पततो दयालो । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥६॥
संसारसर्पघनवक्त्रभयोग्रतीव्र दंष्ट्राकरालविषदग्धविनष्टमूर्ते: । नागारिवाहन सुधाब्धिनिवास शौरे । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥७॥
संसारदावदहनातुरभीकरोरू ज्वालावलीभिरतिदग्धतनूरुहस्य । त्वत्पादपद्मसरसीशरणागतस्य । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥८॥
संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्तबडिशार्थझषोपमस्य । प्रोत्खण्डितप्रचुरतालुकमस्तकस्य । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥९॥
संसारभीकरकरीन्द्रकराभिघात निष्पिष्टमर्मवपुष: सकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥१०॥
अन्धस्य मे ह्रतविवेकमहाधनस्य चोरै: प्रभो बलिभिरीन्द्रियनामधेयै: । मोहान्धकूपकुहरे विनिपातितस्य । लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥१२॥
लक्ष्मीपते कमलनाभ सुरेश विष्णो वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष । ब्रह्माण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलम्बम् ॥१२॥
यन्माययोर्जितवपु:प्रचुरप्रवाह मग्नार्थमत्र निवहोरुकरावलम्बम् । लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं सुखकरं भुवि शंकरेण ॥१३॥
॥ इति श्री लक्ष्मीनृसिंहस्तोत्रम् ॥