ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
Mantra Puspanjali
ಸನಾತನ ದೇವ

.. ಮಂತ್ರಪುಷ್ಪಾಂಜಲಿಃ ..

॥ मन्त्रपुष्पाञ्जलिः ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 2
23px

हरि: ॐ तद्विष्णो: परमं पद ꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् तद्विप्रासो विपन्यवो जागृवा ꣳ स: समिन्धते विष्णोर्यत्परमं पदम् । पर्याप्त्याऽनन्तरायायसर्वस्तोमोतिरात्र-उत्तममहर्भवतिसर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वं जयति । हरि: ॐ शान्ति:३ ।- (यजुर्वेद)

सुगन्धवल्ली शतपत्रजाती सुवर्णचम्पावकुलोद्भवानि । गृहाण देवेश मयार्पितानि प्रभो हरे श्रीतुलसीदलानि ॥

पितरं मातरं दारान्पुत्रान्वन्धून्सखीन्गुरून् । रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥

सर्वधर्मांश्च संत्यज्य सर्वकामांश्च साक्षरान् । लोकविक्रान्तचरणौ शरणं ते व्रजं विभो ॥

त्वमेव माता च पिता त्वमेव त्वमेव वन्धुश्च गुरुस्त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥

पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिक: कतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥

तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीडयम् । पितेव पत्रस्य सखेव सख्यु: प्रिय: प्रियायार्हसि देव सोढुम् ॥

मनोवाक्कायैरनादिकालप्रवृत्तानन्ताकृत्यकरण कृत्याकरणभगवदपचार भागवतापचारासह्यापचाररूप नानाविधानन्तापचारान् आर ब्धकार्यान् अनारब्धकार्यान्कृतान्क्रियमाणान्करिष्यमाणांश्च । | सर्वानशेषत: क्षमस्व । अनादिकालप्रवृत्तविपरीतज्ञानमात्मविषयं कृत्स्नजगद्विषयं च विपरीतवृत्तं चाशेषविषयमद्यापि वर्तमानं वर्तिष्यमाणं च सर्वक्षमस्व ।

मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां दैवी गुणमयीं मायां दासभूतं शरणागतोऽस्मि तवास्मि दास: इति वक्तारं मां तारय ॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१॥

उदारास्सर्वएवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितस्स हि युक्तात्मामामेवानुत्तगां गतिम् ॥२॥

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते। वासुदेवसर्वमितिसमहात्मा सदुर्लभ: ॥३॥

इति श्लोक त्रयोदितज्ञानिनं  मां कुरूष्व ॥

ಜಪ ಎಣಿಕೆ: 0/108