सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीराधाकृतं गणेशस्तोत्रम्

stotra-4b11c4eb
रचयिता: पारंपरिक पाठ संख्या: 1
23px

गणेशस्तोत्रम्

श्री गणेशाय नमः । राधिकोवाच । परं धाम परं ब्रह्म परेशं परमीश्वरम् । विघ्ननिघ्नकरं शान्तं पुष्टं कान्तमन्तकम् ॥ १॥ सुरासुरेन्द्रैः सिद्धेन्द्रै स्तुतं स्तौमि परात्परम् । सुरपद्मदिनेशं च गणेशं मङ्गलायनम् ॥ २॥ इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परम् । य पठेत् प्रातरुत्थाय सर्वविघ्नात् प्रमुच्यते ॥ ३॥ इति श्रीब्रह्मवैवर्ते राधाकृतं गणेशस्तोत्रम् 
पाठ जप: 0/108