सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

वेदारम्भसंस्कारविधिः

stotra-4ae35b66
रचयिता: पारंपरिक पाठ संख्या: 7
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

वेदारम्भसंस्कारविधिः

आचार्य ब्रह्मचारी को गायत्री दीक्षा के बाद ब्रह्मचर्य नियमों के परिपालन का उपदेश देता है तथा कुछ दिनों तक ब्रह्मचारी की दिनचर्या को यथोपदिष्ट नियमानुसार करवाता है, ब्रह्मचारी के व्रतपालन से सन्तुष्ट होकर आचार्य शुभ मुहूर्त में वेदारम्भ संस्कार करता है। इसके लिए आचार्य ब्रह्मचारी से गणेशादि समस्त देवताओं का पूजन उपनयन के समान ही कराकर अलग वेदी पर समुद्भव नामक अग्नि की स्थापना संकल्पपूर्वक करता है, तद्यथा- गोत्रवर्णी सङ्कीर्त्य 'अस्य माणवकस्य वेदारम्भसंस्कारकर्मणि पञ्चभूसंस्कारपूर्वकं समुद्भवनामकमग्निं स्थापयिष्ये'।

आचार्य संकल्प करने के उपरान्त पञ्चभू-संस्कारपूर्वक अग्नि की स्थापना करे तथा ब्रह्मवरण एवं पूर्वोक्त प्रकार से कुशकण्डिका करके अग्नि की पूजा ब्रह्मचारी से करवाये

अग्निस्थापनम्

ॐ अग्नि दूतं पुरोदधे हव्यवाहमुपनुवे। देवाँ आसादयादिह॥ इति मन्त्रेणाग्नि स्थापयेत्।

तद्रक्षार्थं तदुपरि किञ्चित् काष्ठादिकं निदध्याद् उपधमेच्च। ततः अग्न्यायतनादीशान्यां ब्रह्मवरणं कुर्यात्, तद्यथा- 'देशकालौ सङ्कीर्त्य अमुकगोत्रः अमुकशर्मा अस्मिन् वेदारम्भसंस्कारहवनकर्मणि कृताकृतावेक्षणादिब्रह्मकर्म कर्तुम् अमुकगोत्रममुकशर्माणं ब्राह्मणमेभिर्वरणद्रव्यैर्ब्रह्मत्वेन त्वामहं वृणेॐ 'वृतोऽस्मि' इति ब्रह्मा वदेत्। ततः आचार्यः कृताञ्जलिः ब्रह्माणं प्रार्थयेत्, तद्यथा- यथा चतुर्मुखो ब्रह्मा सर्ववेदधरः प्रभुः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तम ॥

ततः उपनयनवत् कुशकण्डिकां कृत्वा अग्निपूजनं कुर्यात्। तद्यथा- ततः 'समुद्भवनामाग्ने सुप्रतिष्ठितो वरदो भव' इति प्रतिष्ठाप्य ध्यायेत्- 'ॐ भूर्भुवः स्वः समुद्भवनाम्ने अग्नये नमः'। अग्नि प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलमनन्तं विश्वतोमुखम् ॥ सर्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु ॥ ॐ चत्वारि शृङ्गा त्रयो अस्य पादाः द्वे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेश ॥ इति मन्त्रैरग्नि सम्पूज्य दक्षिणं जान्वाच्य कुशेन दक्षिणबाहौ ब्रह्मणा अन्वारब्धः आचान्तो मौनी मूलमध्यभागयोर्मध्येन स्रुवं गृहीत्वा जुहुयात्। तत्रादौ- 'इदमाज्यं तत्तद्देवतायै मया परित्यक्तं यथादैवतमस्तु न मम' इति त्यागं पूर्वमेव कुर्यात्। ततः 'वेदारम्भकर्मणि समुद्भवनामाग्नेः पूजनं करिष्ये' इति सङ्कल्प्य सम्पूज्य स्वस्योत्तरतो ब्रह्मचारिणमुपवेश्य दक्षिणजान्वाच्य ब्रह्मणाऽन्वारब्ध आज्याहुतीर्जुहुयात्।

हवनविधिः ॐ प्रजापतये स्वाहा, इदं प्रजापतये न मम। ॐ इन्द्राय स्वाहा, इदमिन्द्राय न मम। यज्ञोपवीत-वेदारम्भ-समावर्तन-संस्कार ॐ अग्नये स्वाहा, इदमग्नये न मम। ॐ सोमाय स्वाहा, इदं सोमाय न मम। ततः अन्वारब्धं त्यक्त्वा जुहुयात्, आदौ यजुर्वेदाहुतयः - ॐ अन्तरिक्षाय स्वाहा, इदमन्तरिक्षाय न मम। ॐ वायवे स्वाहा, इदं वायवे न मम। ॐ ब्रह्मणे स्वाहा, इदं ब्रह्मणे न मम। ॐ छन्दोभ्यः स्वाहा, इदं छन्दोभ्यो न मम। अथ ऋग्वेदाहुतयः - ॐ पृथिव्यै स्वाहा, इदं पृथिव्यै न मम। ॐ अग्नये स्वाहा, इदमग्नये न मम। ॐ ब्रह्मणे स्वाहा, इदं ब्रह्मणे न मम। ॐ छन्दोभ्यः स्वाहा, इदं छन्दोभ्यो न मम। अथ सामवेदाहुतयः - ॐ दिवे स्वाहा, इदं दिवे न मम। ॐ सूर्याय स्वाहा, इदं सूर्याय न मम। ॐ ब्रह्मणे स्वाहा, इदं ब्रह्मणे न मम। ॐ छन्दोभ्यः स्वाहा, इदं छन्दोभ्यो न मम। अथ अथर्ववेदाहुतयः - ॐ दिग्भ्यः स्वाहा, इदं दिग्भ्यो न मम। ॐ चन्द्रमसे स्वाहा, इदं चन्द्रमसे न मम। ॐ ब्रह्मणे स्वाहा, इदं ब्रह्मणे न मम। ॐ छन्दोभ्यः स्वाहा, इदं छन्दोभ्यो न मम। सामान्याहुतयः - ॐ प्रजापतये स्वाहा, इदं प्रजापतये न मम। ॐ देवेभ्यः स्वाहा, इदं देवेभ्यो न मम। ॐ ऋषिभ्यः स्वाहा, इदं ऋषिभ्यो न मम। ॐ श्रद्धायै स्वाहा, इदं श्रद्धायै न मम। ॐ मेधायै स्वाहा, इदं मेधायै न मम। ॐ सदसस्पतये स्वाहा, इदं सदसस्पतये न मम। ॐ अनुमतये स्वाहा, इदमनुमतये न मम। पुनः ब्रह्मणाऽन्वारब्धः - ॐ भूः स्वाहा, इदमग्नये न मम। ॐ भुवः स्वाहा, इदं वायवे न मम। ॐ स्वः स्वाहा, इदं सूर्याय न मम। ॐ त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो अव यासिसीष्ठाः। यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाऽसि प्रमुग्ध्यस्मत्स्वाहा॥ ॐ स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ। अव यक्ष्व नो वरुण रराणो इदमग्नीवरुणाभ्यां न मम। व्व्रीहि मृडीक सुहवो न एधि स्वाहा॥ इदमग्नीवरुणाभ्यां न मम। ॐ अयाश्चाग्नेऽस्यनभिशस्ति पाश्च सत्यमित्वमया असि। अया नो यज्ञं वहास्यया नो धेहि भेषजः स्वाहा॥ इदमग्नये अयसे न मम। ॐ ये ते शतं वरुण ये सहस्त्रं यज्ञियाः पाशा वितता महान्तः। तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा॥ इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम। ॐ उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमः श्रथाय। अथा वयमादित्यव्रते तवानागसो अदितये स्याम स्वाहा॥ इदं वरुणायादित्यायादितये न मम। ॐ प्रजापतये स्वाहा, इदं प्रजापतये न मम। ॐ अग्नये स्विष्टकृते स्वाहा, इदमग्नये स्विष्टकृते न मम। ततः संस्रवप्राशनम्। मार्जनम्। अग्नौ पवित्रप्रतिपत्तिः। प्रणीता- विमोकः।

पूर्णपात्रदानम्। तद्यथा- "अमुकगोत्रः अमुकशर्मा वेदारम्भाङ्गहोमकर्मणः साङ्गफल- सिद्धये अपूर्णपूरणार्थमिदं पूर्णपात्रं प्रजापतिदैवतं यथानामगोत्राय ब्राह्मणाय तुभ्यमहं सम्प्रददे" इति दद्यात्। ब्रह्मा च तं गृहीत्वा- ॐ अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वा तं प्रेतवाचा स चाभुवः ॥ इति आशिषं दद्यात्।

तदनन्तरं ब्रह्मचारी "अमुकगोत्रः अमुकशर्माहं वेदारम्भकर्मणः पूर्वाङ्गत्वेन सरस्वती-विष्णु-लक्ष्मी-यजुर्वेद-गुरूणां पूजनं करिष्ये" इस प्रकार संकल्प कर तत्तद्देवताओं एवं गुरु जी की यथोपलब्धोपचार से पूजा कर प्रणवव्याहृतिपूर्वक गायत्री मन्त्र पढ़ने के उपरान्त अपनी वेदशाखा के मन्त्र का उच्चारण गुरुमुख से सुनने के बाद करना चाहिए।

ॐ भूर्भुवः स्वः तत्स॑वि॒तुर्वर॑ण्यं भर्गो दे॒वस्य॑ धीमहि। थियो यो नः प्रचोदयांत् ॥ शुक्लयजुर्वेदारम्भः ॐ इषे त्वोर्जे त्वां व्वायव॑स्थ दे॒वो वः सविता प्राार्पयतु श्रेष्ठंतमाय् कर्मण आप्या॑यध्वमच्या इन्द्राय भागं प्र॒जाव॑तीरनमीबा अ॑य॒क्ष्मा मा व॑स्तेन ईशत॒माधर्श सो ध्रुवा अ॒स्मिन् गोप॑तौ स्यात् बुद्धीर्यज॑मानस्य पंशून् पांहि ॥ ऋग्वेदारम्भः ॐ अ॒ग्निर्मीडे पुरोहितं य॒ज्ञस्य॑ दे॒वमूत्विज॑म् । होतारं रत्न॒र्थातमम् ॥॥ सामवेदारम्भः ॐ अग्न आ याहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि॥ अथर्ववेदारम्भः ॐ शन्नों दे॒वीर्भीष्टंयू आपों भवन्तु पीतयें शंयोभिन॑वन्तु नः॥ आचाराद् अस्मिन्नवसरे माणवकं वेदपाठार्थ वाराणसीं प्रस्थापयन्ति। ततः 'कृतस्य वेदारम्भकर्मणः साङ्गतासिद्ध्यर्थमाचार्याय दक्षिणां तुभ्यमहं सम्प्रददे' इति दत्वा 'कृतस्य वेदारम्भकर्मणः समृद्ध्यर्थं दश यथाशक्ति वा ब्राह्मणान् भोजयिष्ये'। इति सङ्कल्पयेत्। अध्येतृ-नियमाः- आचार्येणाहूत उत्थाय प्रतिवचनं दद्यात्। शयानं चेदासीनः, आसीनं चेत्तिष्ठन्, तिष्ठन्तं चेत् गच्छन्, गच्छन्तं चेदभिधावन् प्रतिशृणुयात्।

ततः समुद्भवनामाग्नि सम्पूज्य विसृजेत् ॥

॥ इति वेदारम्भसंस्कारप्रयोगः ॥

पाठ जप: 0/108