सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

प्रार्थनापञ्चकम्

stotra-49f0cf91
रचयिता: पारंपरिक पाठ संख्या: 7
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

॥ प्रार्थनापञ्चकम् ॥


यतीश्वर! शृण श्रीमन ! कपया परया तव।
मम विज्ञापनमिदं विलोक्य वरदं गुरुम्॥ १ ॥

अनादिपापरचिताम् अन्तःकरणनिष्ठिताम्।
यतीन्द्रविषये सान्द्रां विनिर्वासय वासनाम्॥ २ ॥

अपि प्रार्थयमानानां पुत्रक्षेत्रादिसम्पदाम्।
कुरु वैराग्यमेवात्र हितकारिन् यतीन्द्र ! नः॥ ३ ॥

यथाऽपराधा न स्युर्मे भक्तेषु भगवत्यपि।
तथा लक्ष्मणयोगीन्द्र! यावद्देहं प्रवर्तय॥ ४ ॥

आमोक्ष लक्ष्मणार्य! त्वत्प्रबन्धपरिशीलनैः।
कालक्षेपोऽस्तु नस्सद्भिः सहवासमुपेयुषाम्॥५ ॥

इत्येतत् सादरं विद्वान् प्रार्थनापञ्चकं पठन्।
प्राप्नुयात् परमां भक्तिं यतिराजपदाब्जयोः॥ ६ ॥

॥ इति प्रार्थनापञ्चकम्॥
पाठ जप: 0/108