சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

க³ணேஶாஷ்டோத்தரஶதநாமார்சனஸ்தோத்ரம் 

गणेशाष्टोत्तरशतनामार्चनस्तोत्रम् 
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 6
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

श्रीगणेश अष्टोत्तरशतनामार्चनस्तोत्रम्

श्री गणेशाय नमः । काश्यां तु बहवो विघ्नाः काशीवासवियोजकाः। तच्छान्त्यर्थं ढुण्ढिराजः पूजनीयः प्रयत्नतः ॥ १॥ अष्टोत्तरशतैर्दिव्यैर्गणेशस्यैव नामभिः। कर्तव्यमतियत्नेन नवदूर्वाङ्कुरार्पणम् ॥ २॥ हिरण्मयतनुं शुद्धं सर्वार्तिहरमव्ययम्। वरदं गणपं ध्यात्वा पूजा कार्या प्रयत्नतः ॥ ३॥ ऋषिर्विघ्नेशः इत्यादिनाम्नां सर्वेश्वरः शिवः । देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम् ॥ ४॥ सर्वप्रत्यूहशमनं फलं शक्तिः सुधात्मिका । कीलकं गणनाथस्य पूजा कार्येति कामदा ॥ ५॥ विघ्नेशो विश्ववदनो विश्वचक्षुर्जगत्पतिः। हिरण्यरूपः सर्वात्मा ज्ञानरूपो जगन्मयः ॥ ६॥ ऊर्ध्वरेता महाबाहुरमेयोऽमितविक्रमः । वेदोवेद्यो महाकायो विद्यानिधिरनामयः ॥ ७॥ सर्वज्ञः सर्वगः शान्तो गजास्यो विगतज्वरः । विश्वमूर्तिरमेयात्मा विश्वाधारः सनातनः ॥ ८॥ सामगानप्रियो मन्त्री सत्वाधारः सुराधिपः । समस्तसाक्षिनिर्द्वन्द्वो निर्लिप्तोऽमोघविक्रमः ॥ ९॥ नियतो निर्मलः पुण्यः कामदः कान्तिदः कविः । कामरूपी कामवेषो कमलाक्षः कलाधरः ॥ १०॥ सुमुखः शर्मदः शुद्धो मूषकाधिषवाहनः । दीर्घतुण्डधरः श्रीमाननन्तो मोहवर्जितः ॥ ११॥ वक्रतुण्डः शूर्पकर्णः पवनः पावनो वरः । योगीशो योगिवंद्यांघ्रिरुमासूनुरघापहः ॥ १२॥ एकदन्तो महाग्रीवः शरण्यः सिद्धिसेवितः । सिद्धिदः करुणासिन्धुर्भगवान् भव्यविग्रहः ॥ १३॥ विकटः कपिलो ढुण्ढिरुग्रो भीमो हरः शुभः । गणाध्यक्षो गणाराध्यो गणेशो गणनायकः ॥ १४॥ ज्योतिःस्वरूपो भूतात्मा धूम्रकेतुरनाकुलः । कुमारगुरुरानन्दो हेरम्बो वेदसंस्तुतः ॥ १५॥ नागोपवीती दुर्धर्षो बालदूर्वाङ्कुरप्रियः । भालचन्द्रो विश्वधामा शिवपुत्रो विनायकः ॥ १६॥ लीलावलम्बितवपुः पूर्णः परमसुन्दरः । विद्यान्धकारमार्तण्डो विघ्नारण्यदवानलः ॥ १७॥ सिन्दूरवदनो नित्यो विष्णुः प्रमथपूजितः । शरण्यदिव्यपादाब्जो भक्तमन्दारभूरुहः ॥ १८॥ रत्नसिंहासनासीनो मणिकुण्डलमण्डितः । भक्तकल्याणदोऽमेयकल्याणगुणसंश्रयः ॥ १९॥ एतानि दिव्यनामानि गणेशस्य महात्मनः । पठनीयानि यत्नेन सर्वदा सर्वदेहिभिः ॥ २०॥ नाम्नामेकैकमेतेषां सर्वसिद्धिप्रदायकम् । सर्वविघ्नेशनाम्नां तु फलं वक्तुं न शक्यते ॥ २१॥ एकैकमेव तन्नाम दिव्यं जप्त्वा मुनीश्वराः । प्रत्यूहमात्ररहितास्तिष्ठन्ति शिवपूजकाः ॥ २२॥ दूर्वायुग्मानि सङ्गृह्य नूतनान्यतियत्नतः । पूजनीयो गणाध्यक्षो नाम्नामेकैकसंख्यया ॥ २३॥ नभस्यशुक्लपक्षस्य चतुर्थ्यां विधिपूर्वकम् । वक्रतुण्डेशकुण्डे तु स्नानं कृत्वा प्रयत्नतः ॥ २४॥ वक्रतुण्डेशमाराध्यं सर्वाभीष्टप्रदायकम् । ध्यायेदधहरं शुद्धं काञ्चनाभमनामयम् ॥ २५॥ ततः पूजा यथाशास्त्रं कृत्वा दूर्वाङ्कुरैर्नवैः । पूजा कार्या विशेषेण नामोच्चारणपूर्वकम् ॥ २६॥ ततश्च मोदकैर्दिव्यैः सुगन्धैघृतपाचितैः । नैवेद्यं कल्पयेदिष्टं गणेशाय शुभावहम् ॥ २७॥ अन्यैश्च परमान्नाद्यैर्भक्ष्यैर्भोज्यैर्मनोहरैः । तोषणीयः प्रयत्नेन वक्रतुण्डो विनायकः ॥ २८॥ प्रदक्षिणनमस्कारा दिव्यतन्नामसंख्यया । कर्तव्या नियतं शुद्धैर्मौनव्रतपरायणैः ॥ २९॥ ततः संतर्प्य विधिवच्छैवान् ब्राह्मणसत्तमान् । पुनरभ्यर्च्य विघ्नेशमिमं मन्त्रमुदीरयेत् ॥ ३०॥ वक्रतुण्ड सुराराध्य सूर्यकोटिसमप्रभ । निर्विघ्नेनैव सततं काशीवासं प्रयच्छ मे ॥ ३१॥ इति सम्प्रार्थ्य विधिवत् पूजां कृत्वा पुनर्मुदा । नमस्कृत्वा प्रसाद्यैनं गच्छेत् ढुण्ढिविनायकम् ॥ ३२॥ ढुण्ढिराजार्चनं सम्यक् कर्तव्यं विधिपूर्वकम् । तत्रैव च विशेषेण पूजां कृत्वा ततः परम् ॥ ३३॥ पूजनीयाः प्रयत्नेन सर्वदा मोदकप्रियाः । शिवप्रीतिकरा नित्यं शुद्धाः पञ्च विनायकाः ॥ ३४॥ क्षिप्रसिद्धिप्रदं क्षिप्रगणेशं सुरवन्दितम् । सम्पूज्य पूर्ववत्सम्यक् गच्छेदाशाविनायकम् ॥ ३५॥ आशाविनायकं सम्यक् पूजयित्वा ततः परम् । अर्कविघ्नेश्वरः सम्यक् पूजनीयः प्रयत्नतः ॥ ३६॥ पूर्ववत्पूजनीयः स्यात्ततः सिद्धिविनायकः । पूजनीयस्ततः सम्यक् चिन्तामणिविनायकः ॥ ३७॥ सेवाविनायकोऽप्येवं सम्पूज्यस्तदनन्तरम् । दुर्गाविनायकस्यापि पूजा कार्या ततः परम् ॥ ३८॥ एवं सम्पूज्य विधिवद्भक्तिश्रद्धासमन्वितैः । शैवाः शङ्करतत्त्वज्ञा भोजनीयाः प्रयत्नतः ॥ ३९॥ एवं सम्पूजिताः सम्यक् प्रीतास्ते गणनायकाः । काशीवासं प्रयच्छन्ति निर्विघ्नेनैव सादरम् ॥ ४०॥ आज्येन कापिलेनैव सार्धलक्षत्रयाहुतीः । हुत्वैतन्नामभीः सम्यक् सर्वविद्याधिषो भवेत् ॥ ४१॥ एतानि दिव्यनामानि प्रतिवासरमादरात् । पठित्वा गणनाथस्थ पूजा कार्या प्रयत्नतः ॥ ४२॥ यस्यकस्यापि सन्तुष्टो गणपः सर्वसिद्धिदः । अत एव सदा पूज्यो गणनाथो विचक्षणैः ॥ ४३॥ गणेशादपरो लोके विघ्नहर्ता न विद्यते । तस्मादन्वहमाराध्यो गणेशः सर्वसिद्धिदः ॥ ४४॥ काशीनिवाससिद्ध्यर्थं विष्णुना पूजितः पुरा । पुरा विघ्नेश्वरः सम्यक्पूजितो दण्डपाणिना ॥ ४५॥ कर्कोटकेन नागेन गणेशः पूजितः पुरा । शेषेण पूजितः पूर्वं गणेशः सिद्धिदायकः ॥ ४६॥ काशीयात्रार्थमुद्युक्तो विधिर्विघ्नकुलाकुलः । पूजयामास विघ्नेशं विधिवद्भक्तिपूर्वकम् ॥ ४७॥ सूर्येणाभ्यर्चितः पूर्वं चन्द्रेणेन्द्रेण च प्रिये । देवैरन्यैश्च विधिवत्पूजितो गणनायकः ॥ ४८॥ मर्त्यानाममराणां च मुनिनां वा वरानने । न सिद्ध्यन्त्येव कार्याणि गणेशाभ्यर्चनं विना ॥ ४९॥ इति श्री शिवरहस्यान्तर्गतकाशीमाहात्म्ये हरगौरीसंवादे गणेशाष्टोत्तरशतनामार्चनस्तोत्रम्
ஜப எண்ணிக்கை: 0/108