सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

अथ श्रीपाञ्चरात्रागमान्तर्गतं मङ्गलाष्टकम्

stotra-46038786
रचयिता: पारंपरिक पाठ संख्या: 1
23px

 अथ श्रीपाञ्चरात्रागमान्तर्गतं मङ्गलाष्टकम्

श्रीकान्ताकुचकुम्भकुंकुमपरिरम्भोगुणानां निधिः पूर्वाचार्यगुणावबोधनकर श्रीपाञ्चरात्रागमः ॥ विष्वक्सेनविभीषणप्रभृतिभिः भक्तैस्सदा सेवितः पायाद्वोभगवान्‌ पुराणपुरुषः कुर्याद्‌ सदा मङ्गलम्‌॥१॥
 
श्रीरामानुजभट्टरार्यशठकोपानन्तसङ्कर्षणैः श्रीसौदर्शनपाञ्चजन्यभरताचार्यादि सद्वैष्णवैः । वेदैश्शास्त्रपुराणवैष्णवकथालापैः सदा सेवितः पायाद्वोभगवान्‌ पुराणपुरुषः कुर्याद्‌ सदा मङ्गलम्‌ ॥२॥
 
प्रासादध्वजदण्डमण्डपमहासौवर्णपीठोन्नतः प्राकाराञ्चितहेमरत्नमणिभिः जाज्वल्यमानो हरिः। नित्यं नित्यमहोत्सवं बहुविधं मासं च पक्षोत्सवं पायाद्वोभगवान्‌ पुराणपुरुषःकुर्यात्‌ सदा मङ्गलम्‌॥३॥
 
नानावेदपुराणशास्त्रविभवः श्रीपाञ्चरात्रागमः शास्त्राणामधिपस्समस्तफलदःश्रीवैष्णवैः शाश्वतैः। भक्तैः भागवतैरमर्त्यनिकरैरासेव्यमानोत्सुकः पायाद्वोभगवान्‌ पुराणपुरुषः कुर्यात्‌ सदा मङ्गलम्‌ ॥ ४ ॥
 
विश्वामित्रपराशरशुकमुनिप्रह्लादरुमाङ्गदाः भारद्वाजवशिष्ठनीलहनुमान्‌ श्रीवैनतेयादयः। एतैर्भागवतोत्तमैः प्रतिदिनं संसेव्यमानोत्सुकः पायाद्वोभगवान्‌ पुराणपुरुषः कुर्यात्‌ सदा मङ्गलम्‌॥ ५ ॥
 
मीनो वामनसूकरौ नरमृगो कूर्मो महाभार्गवो
रामो यादवनायको रतिसखः कृष्णश्च कल्क्यादयः । लोकानां परिपालनाय जगतो देवो जगद्रक्षकः पायाद्वोभगवान्‌ पुराणपुरुषःकुर्यात्‌ सदा मङ्गलम्‌ ॥ ६॥
 
श्रीरङ्गे गरुडाचले खगगिरौ सिंहाचले मन्दिरे वैकुण्ठे कनकाचले च निमिषे नारायणाख्याचले। लोकालोकमहाचले च निषधे पुण्याचलेष्टाश्रयः पायाद्वोभगवान्‌ पुराणपुरुषः कुर्याद्‌ सदा मङ्गलम्‌ ॥७॥
 
श्रीलक्ष्मीकमलालयावसुमती रामा जगद्रक्षिणी कल्याणी सकलेश्वरी हरिसती भाग्यानुसन्धायिनी । शोभाङ्गी विमलेक्षणी विमलिनी नारायणीभिर्युतः । पायाद्वो भगवान्‌ पुराणपुरुषः कुर्यात्‌ सदा मङ्गलम्‌ ॥८॥
पाठ जप: 0/108