सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

ढुण्ढिस्वरूपवर्णनस्तोत्रम्

stotra-4460ec81
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

ढुण्ढिस्वरूपवर्णनस्तोत्रम्

श्रीगणेशाय नमः । जैमिनिरुवाच । न वक्तुं शक्त्ये राजन् केनापि तत्स्वरूपकम् । नोपाधिना युतं ढुण्ढिं वदामि श‍ृणु तत्त्वतः ॥ १॥ अहं पुरा सुशान्त्यर्थं व्यासस्य शरणं गतः । मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥ २॥ तदेव त्वां वदिष्यामि स्वशिष्यं च निबोध मे । यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥ ३॥ देहदेहिमयं सर्वं गकाराक्षरवाचकम् । संयोगायोगरूपं यद् ब्रह्म णकारवाचकम् ॥ ४॥ तयोः स्वामी गणेशश्च पश्य वेदे महामते । चित्ते निवासकत्वाद्वे चिन्तामणिः स कथ्यते ॥ ५॥ चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते । सिद्धिस्तत्र तयोर्योगे प्रलभ्येत् तयोः पतिः ॥ ६॥ द्विज उवाच । श‍ृणु राजन् गणेशस्य स्वरूपं योगदं परम् । भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ ७॥ चित्ते चिन्तामणिः साक्षात्पञ्चचित्तप्रचालकः । पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ ८॥ असम्प्रज्ञातसंस्थश्च गजशब्दो महामते । तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ ९॥ भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता । भ्रान्तिधारकरूपा सा बुद्धिश्च दक्षिणाङ्गके ॥ १०॥ तयोः स्वामि गणेशश्च मायाभ्यां खेलते सदा । सम्भजस्व विधानेन तदा संलभसे नृप ॥ ११॥ इति ढुण्ढिस्वरूपवर्णनम्  गणेशस्तोत्रम्
पाठ जप: 0/108