சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஆதி³த்யபுராணாந்தர்க³தம்ʼ ஶ்ரீக³ணேஶஸ்தோத்ரம்

आदित्यपुराणान्तर्गतं श्रीगणेशस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

श्रीगणेशस्तोत्रम्

श्रीगणेशाय नमः । सिन्दूरकुङ्कुमहुताशनविद्रुमार्क- रक्ताब्जदाडिमनिभाय चतुर्भुजाय । हेरम्बभैरवगणेश्वरनायकाय सर्वार्थसिद्धिफलदाय गणेश्वराय ॥ १॥ चिदचित्पदगम्भीरं गमागमपदोज्झितम् । गहनाकाशसङ्काशं वन्दे देवं गणेश्वरम् ॥ २॥ श्रीसनत्कुमार उवाच । शङ्कराद्ब्रह्मणा प्राप्तं पद्मयोनेर्मया प्रभोः । तदहं कीर्तयिष्यामि स्तोत्रं परमदुर्लभम् ॥ ३॥ षष्ठ्यां चतुर्थ्यामष्टम्यां चतुर्दश्यां विशेषतः । पूजयेच्च गणाध्यक्षं श्रद्धाभक्तिसमन्वितः ॥ ४॥ अर्घैः पुष्पैस्तथा धूपैर्दीपैर्माल्यैश्च चामरैः । वस्त्रैः कुण्डलकेयूरैर्मौलिभिश्च वितानकैः ॥ ५॥ भक्ष्यैर्भोज्यैरपूपैश्च मत्स्यैर्मांसैश्च मोदकैः । पानकैः फलमूलैश्च होमैर्मन्त्रादिभिस्तथा ॥ ६॥ गङ्गाहृदे तु गाङ्गेयं श्रीशैले तु गणेश्वरम् । वाराणस्यां गजवक्त्रं गयायां टङ्कधारिणम् ॥ ७॥ प्रयागे तु गणाध्यक्षं केदारे विकटाननम् । लम्बोदरं कुरुक्षेत्रे नैमिषे च मदोत्कटम् ॥ ८॥ जम्बुकं दण्डकारण्ये लोकेशं हिमवद्गिरौ । विश्वक्सेनं तु विन्ध्याद्रौ मलये हेमकुम्भकम् ॥ ९॥ नायकं पुष्करद्वीपे विघ्नेशं शल्मले स्थितम् । इलावृते विश्वरूपं हरिवर्षे घटोदरम् ॥ १०॥ त्रिनेत्रं सिंहलद्वीपे श्वेतद्वीपे तु वामनम् । उज्जयिन्यां च लम्बोष्टं मालवे शूर्पकर्णकम् ॥ ११॥ सौराष्ट्रे वरदं देवं कश्मीरे भीमरूपिणम् । सिन्धुसागरयोर्मध्ये स्थितं वै मन्त्रनायकम् ॥ १२॥ हर्यक्षं यक्षभवने हरियक्षाभिधं विभुम् । पद्माभरणनामानं कैलासे परमेश्वरम् ॥ १३॥ महायोगं महेन्द्रे च सह्ये वाराहरूपिणम् । महोदरं च लुम्पायां चम्पायां शिखिवाहनम् ॥ १४॥ पाशहस्तं त्रिकूटे च पूजयेत्सर्वसिद्धिदम् । बलमग्निगुहायां च पाटले सिंहवाहनम् ॥ १५॥ पौण्ड्रे रौद्रमुखं चापि कलापिग्रामके जयम् । मेरुपृष्ठे कामरूपं नन्दनं नन्दने वने ॥ १६॥ विजयं वै गन्धवने देवदारुवने गणम् । आर्तानां विघ्नहरणं गङ्गासागरसङ्गमे ॥ १७॥ महापथे विरूपाक्षं चित्रकूटे मदोत्कटम् । दुर्जयं यमुनातीरे स्तम्भनं गन्धमाधने ॥ १८॥ भद्रवटे चाम्बरीशं मोहनं हस्तिनापुरे । किष्किन्दायामुग्रकेतुं लङ्कायां तु विभीषणम् ॥ १९॥ कलिङ्गे वरुणं चैव गान्धारे च मदोत्कटम् । अश्वत्थं च तुरुष्केषु चीने शत्रुजयावहम् ॥ २०॥ वज्रहस्तं कोसलेषु दाक्षिणात्येषु लोहितम् । शूलोद्धृतकरं चैव मध्यदेशे प्रकीर्तितम् ॥ २१॥ एकदंष्ट्रं पश्चिमाब्धौ पूर्वदेशे पराजितम् । उत्तरे चारुवक्त्रं च वरिष्ठं त्रिपुरेषु च ॥ २२॥ सुवर्णगर्भं विघ्नेशं नदीनां सङ्गमे स्थितम् । गिरिसन्धिषु विज्ञेयं हिरण्यकवचाभिधम् ॥ २३॥ सुमुखं नागरन्ध्रेषु नर्मदायां च षड्भुजम् । महापुरे महामायां भद्रकर्णे ह्रदे शिवम् ॥ २४॥ गोकर्णे गजकर्णं तु कान्यकुब्जे वराननम् । पद्मासनं कामरूपे श्रीमुखं सर्वतः स्थितम् ॥ २५॥ वेदवेदाङ्गशास्त्रेषु पूजयेद्ब्रह्मणस्पतिम् । अष्टाषष्टिस्तु नामानि स्तुतान्यद्भुतकर्मणः ॥ २६॥ नित्यं प्रभातकाले तु चिन्तयेद्गणनायकम् । एतत्स्तोत्रं पवित्रं च माङ्गल्यं पापनाशनम् ॥ २७॥ शस्त्र-खार्खोद-वेताल-यक्ष रक्षो भयापहम् । चौरारण्यभयव्याघ्रव्याधिदुर्भिक्षनाशनम् ॥ २८॥ कृत्यादिमायाशमनं सर्वशत्रुविमर्दनम् । त्रिकालं यः पठेद्भक्त्या स भवेत्सर्वसिद्धिभाक् ॥ २९॥ गणेश्वरप्रसादेन लभते शाङ्करं पदम् ॥ ३०॥ इति आदित्यपुराणे गणेशस्तोत्रम्
ஜப எண்ணிக்கை: 0/108