सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ गणपत्यादिदेवतानां ध्यानक्रमः ॥

stotra-4264d91f
रचयिता: पारंपरिक पाठ संख्या: 1
23px

गणपत्यादिदेवतानां ध्यानक्रमः

१. श्रीपञ्चमुखहेरम्बगणपतिध्यानं मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिणेत्राञ्चितैः नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् । दृप्तं दानमभीतिमोदकरदानब्जं शिरोऽक्षात्मिकां मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्दधानं भजे ॥ १॥ २. श्रीसुब्रह्मण्यध्यानं ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहं खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् । वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ २॥ ३. श्रीवल्लीदेवीध्यानं श्यामां श्यामालकान्तां द्रुतकनकमणिप्रस्फुरद्दिव्यभूषां गुञ्जामालाभिरामां शिवमुनितनयां काननेन्द्राभिमान्याम् । वामे हस्ते च पद्मं तदितरकरवरं लम्बितं सन्दधानां संस्थां सेनानिदक्षे समुदमपि महावल्लिदेवीं भजेऽहम् ॥ ३॥ ४. श्रीदेवसेनाध्यानं रक्ताभां रक्तवस्त्रां मणिमयखचितानेकभूषाभिरामां देवीं माहेन्द्रमान्यां मधुरिपुनयनादुद्भवां देवसेनाम् । दक्षे हस्ते च पद्मं त्वितरकरवरं लम्बितं सन्दधानां संस्थां स्कन्दस्य वामे समुदमपि गुहं लोकयन्तीं भजेऽहम् ॥ ४॥ ५. नव वीराः । प्रथमो वीरबाहुः स्यात् द्वितीयो वीरकेसरी । तृतीयो वीरमाहेन्द्रः तुर्यो वीरमहेश्वरः ॥ ५॥ वीरपुरन्दरःपञ्चमः षष्ठो वीरराक्षसः । सप्तमो वीरमार्ताण्डो वीरान्तक इहाष्टमः ॥ ६॥ नवमो वीरधीरश्च नव वीरा इमे क्रमात् । गौरीपादसरोद्भूतनवरत्नलतात्मजाः ॥ ७॥ तत्तद्रत्नसमानाङ्गशोभाम्बरविभूषणाः । सासिखेटास्सदा सेव्याः स्कन्दसेनाधिपा वराः ॥ ८॥ ५.१ - श्रीवीरबाहुध्यानम् । अम्बानूपुररत्नकिङ्किणिमणेर्जाता पुरा याऽबला ख्याता रत्नलतेति सद्गुणवती तस्यास्सुतो धैर्यवान् । हस्ताम्भोजधृतासिखेटकवरः श्रीवीरबाहुर्महान् ध्येयोवर्मकिरीटकुण्डलधरः सेनानिवीरादिमः ॥ ९॥ ५.२ - श्रीवीरकेसरीध्यानम् । गौरीनूपुर मौक्तिकात्तरलवल्ल्याख्या पुरा याऽभवत् तस्याः पुत्रवरः सुरेन्द्रविनुतः श्रीवीरकेसर्यसौ । खड्गं खेटकमावहन् करयुगे मुक्तामणीभूषणः सेव्यो वर्मनिषङ्गहेतिविपुलो वीरद्वितीयो बली ॥ १०॥ ५.३ - श्रीवीरमाहेन्द्रध्यानम् । अम्बानपुरपुष्यरागमणिजा या पुष्पवल्लीसमा ख्याता कान्तिमती सुभूषणवती तस्याः सुतो भीषणः । श्रीमान्वीरमहेन्द्र इत्यभिधया ख्यातस्तृतीयोऽपरः खड्गं खेटकमावहन्निषुधिभृत्सान्निध्यमेतु प्रभुः ॥ ११॥ ५.४ - श्रीवीरमाहेश्वरध्यानम् । देवीमञ्जीरगोमेदकमणिवरजा या च गोमेदवल्ली तस्याः सूनुर्नितान्तं सुरकुलहितकृद् वीरमाहेश्वराख्यः । सेनासन्नाहकोलाहल रवमुदितः खड्गखेटाभिरामः सुब्रह्मण्यान्तरङ्गो विपुलकरयुगः सेवितस्तुर्यवीरः ॥ १२॥ ५.५ श्रीवीरपुरन्दरध्यानम् । हेमाद्रिप्रभवापदाब्जविलसच्छ्रीनूपुरान्निर्गलद् वैडूर्योपलसम्भवा गुणवती वैडूर्यवल्लीति या । तस्यास्सूनुरुदारधीः प्रविलसत्खेटासिमान् पञ्चमः श्रीमान् वीरपुरन्दरो विजयते स्कन्दस्य सेनापतिः ॥ १३॥ ५.६ श्रीवीरराक्षसध्यानम् । जाता या वज्रवल्ली तुहिनगिरिभवापादमञ्जीरवज्रात् तस्याः सूनुर्बलाढ्यो युधि विजितरिपुः वीरयुग्राक्षसेन्द्रः । खेटप्रासोरुहस्तो ज्वलितनिजवपुः स्कन्दसेनाधिनाथः षष्ठस्सव्यापसव्याहवहतदितिजः पूजनीयो वरेण्यः ॥ १४॥ ५.७ श्रीवीरमार्ताण्डध्यानम् । जाता देव्यङ्घ्रिभूषान्मरतकलवलीत्याख्यया विश्रुता या तस्यास्सूनुः प्रसिद्धो नवमणिमकुटो वीरमार्ताण्डसंज्ञः । विद्युत्कल्पोऽसिखेटोल्लसितकरयुगःसप्तमोऽभेद्यवर्मा सेव्यः सेनानिसेनापतिरतुलबलो दैत्यहा देववन्द्यः ॥ १५॥ ५.८ श्रीवीरान्तकध्यानम् । अम्बायास्तु पुरा प्रवाललवली ख्याता च या नूपुरात् जाता तत्तनयोऽतुलोऽधिकबलो वीरान्तकाख्यः सुधीः । श्रीमान्खेटकखड्गभृत्करयुगः सेनानिवीराष्टमः सङ्ग्रामान्तरधीरकृत्यमुदितस्कन्दः सदाऽभ्यर्चितः ॥ १६॥ ५.९ श्रीवीरधीरध्यानम् । अम्बापादसरेन्द्रनीलमणिजा या नीलवल्ली सुदृक् तस्यास्सूनुरघोरसङ्गरमुखे दैत्यान्तकः खेटभृत् । खड्गी कञ्चुकझल्लटादिविपुलः श्रीवीरधीराभिधः सुब्रह्मण्यसुवीरवर्यनवमः सौख्यं सदा यच्छतात् ॥ १७॥ ये पठन्ति स्तुतिं नित्यं जयं सर्वत्र सर्वदा । वीरांश्च तनयान् कीर्तिं लभन्ते विपुलां श्रियम् ॥ १८॥ कन्यका प्रत्यहं प्रातः पठेत्पत्यर्थमादरात् । षण्मासाल्लभते वीरं भर्तारं सततं प्रियम् ॥ १९॥ सर्वरोगहरं पुण्यं भूतादीनां विनिग्रहम् । विषघ्नमुत्तमं स्तोत्रं पठतां सर्वसिद्धिदम् ॥ २०॥ इति श्रीस्कान्दपुराणान्तर्गतः गणपत्यादिदेवतानां ध्यानक्रमः  
पाठ जप: 0/108